2024-01-10 13:10:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

ह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुल- कजननम्, अनुभूयमानमप्युत्पादितानुभूयमानस्पृहम्, सहस्रवारा- नुभूतमप्यपुनरुक्तम्, अतिस्पष्टम [^१]प्यनिर्देश्य स्वरूपम्,
[^२]अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहस्राधिगतं निर्वा [^३]णमिवापर [^४]प्रकारं सुरता- ख्यं सुखान्तरमनुभूय निमेषमप्यकृतविरह [^५]स्तया सह तेषु तेषु रम्ये [^६]षूद्देशेषु रममाणः [^७]स्वभावरम्यमपि रमणीयतरतां यौवनमुपयामि । एव [^८]मुत्पन्नविश्रम्भां देवीमेवाभ्यर्थ्य वैशम्पा- यनस्यापि मदलेखया सह घटनां कारयामि" इत्येतानि चान्यानि च चिन्तयन्नचेतितक्षुत्पिपासातपश्रमो [^९]ज्जागरव्यथो दिवारात्रौ चावहत् ।
 
एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबल [^१०]पङ्को ग्रीष्मस्य, निशागमो गभस्तिमतः, स्वर्भानुरमृत- दीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो
 
[ टि ]-- येनैवंभूतमप्याह्लादकर प्रमोदजनकम्, उपजनित उत्पा- दितो विषमो दुःसह उच्छ्वासश्रमखेदो येन तत् । तत्रो-
च्छ्वासः श्वासः श्रमः खेदः, खेदो घर्मजलम् एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं
रोमावोञ्चोत्पादकम्, अनुभूयमानमपि साक्षा- त्क्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षात्क्रयमाणस्य स्पृहा
वाञ्छा येन तत् । सहस्रवारमनेकवारमनुभूतमपि सेवित- मप्यपुनरुक्तमना म्रेडितम् अतिस्पष्टमप्यतिप्रकटमप्य-
निर्देश्यं दर्शयितुमशक्यं स्वरूपं स्वभावो यस्य तत् । अचिन्त्यमिदमेतदिति चिन्तयितुमशक्यम् । न विद्यते समा-
सङ्गः संबन्धो यस्य तत् । अतु- लो निरुपमः स्पर्शो यस्य तत् । अनुपमः सर्वेभ्योऽतिशायी रसो यस्य तत् ।
अनाख्येयां कथयितुमशक्यां प्रीतिं स्नेहं करोतीति करः । अनाख्येयप्रीतेः करोऽनाख्येयप्रीतिकरः । अन्यथा
कर्मणि वृद्धौ कारः स्यात् । परममुत्कृष्टं यद्ध्यानमेकप्रत्ययसंततिस्तस्य सहस्रं तेनाधिगतं सहितमपरप्रकारमि-
तररूपं निर्वाणमिव ब्रह्मेव । सुरतेव्- त्याख्या यस्यैवंभूतं सुखान्तरमेक स्मात्सुखादन्यत्सुखं सुखान्तरमनु- भूयानु-
भवविषयीकृत्य निमेषमपि चक्षुर्निमीलनमात्रमपि तया सहा- कृतो विरहो वियोगो येनैवंभूतोऽहं तेषु तेषु
रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीय- मपि यौवनं तारुण्य-
मतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता तां उपनयामि प्रापयामि । एवमिति । पूर्वोत्क्तरीत्योत्पन्नः
संजातो
विश्रम्भो विश्वासो यस्याः सर्वविधां देवीं कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया
सह घटनां संबन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः ।
 
एवमिति । पूर्वोक्तप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयांतिदूरतया । 'दवीयश्च दविष्ठं
च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवा- जनिष्ट । तमेव विशे-
षयन्नाह - कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् । ग्रीष्मस्य निदा-
घस्य प्रबलेप [^1]लपङ्को बहुलकर्दमः । पङ्कः कर्दमः । गभस्ति- मतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः, रविकरप्रसर
प्रतिरोध- कारित्वात् । अमृतदीधितेश्चन्द्रस्य स्वर्भानू राहुः । सर्वतस्तत्प्रकाश- प्रतिरोधकत्वात् । वज्रं पविस्तस्यानलो
वह्निस्तस्य स्फुरितानां विस्फू र्जितानां धूमोद्गमो धूमप्रादुर्भावः । यदि वा धूमोद्गमो धूमकेतोरुदयः । यथा
धूमकेतोरुदयेन सर्वसस्यानां विनाशस्तथैवानेन वज्रानलस्ये- ति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमो
 
टिप्प० - [^1]F. अविचारितमिदम् । 'प्रबलकम्पः' इति पाठः । ग्रीष्मस्य तापनिवृत्या, अथवा प्रबलश-
झञ्झावातात् प्रबलकम्पकरः ।
 
पाठा[^१]G. -१ अनिर्दिश्य.
[^
]G. अचिन्त्यसमागमम् .
[^
]G. निर्वाणसुखम् .
[^
]G. प्रकाशम् .
[^
]G. तथैव, .
[^
]G. देशेषु.
[^
]G. स्वयमेव
रम्यम्.
[^
]G. उत्पन्नसहस्रविश्रम्भाम् .
[^
]G. जागर.
[^
१०]G. कम्पः.