2024-01-10 11:05:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मार्गे गच्छतचन्द्रापीडस्य विचाराः । उत्तरभागः ।
 
5
 
हादु
ह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुल- कजननम्, अनुभूयमानम-
प्युत्पादितानुभूयमानस्पृहम्, सहस्रवारा- नुभूतमध्प्यपुनरुक्तम्, अतिस्पष्टमध् [^१]प्यनिर्देश्य स्वरूपम्,

[^२]
अचिन्त्यमसमा सङ्गम तुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहस्राधिगतं निर्वा [^३]मिवापर [^४]प्रकारं सुरता-
मिवापरप्रकार सुरता
ख्यं सुखान्तरमनुभूय निमेषमण्प्यकृतविरह [^५]स्तया सह तेषु तेषु रम्येर्पू-
[^६]षूद्देशेषु रममाणः [^७]स्वभावरम्यमपि रमणीयतरतां यौवनमुपयामि । एव [^८]मुत्पन्नविश्रम्भां देवी-
मेवाभ्यर्थ्य वैशम्पा- यनस्यापि मदलेखया सह घटनां कारयामि" इत्येतानि चान्यानि च चिन्त-
यन्त्र चेतितक्षुत्पिपासातपश्रमो [^९]ज्जागरव्यथो दिवारात्रौ चावहत् ।
 
2
 

 
एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबल [^१०]पङ्को ग्रीष्मस्य,
निशागमो गभस्तिमतः, स्वर्भानुरमृत- दीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो
 
a
 
9
 

 
[ टि ]--
येनैवंभूतमप्याह्लादकर प्रमोदजनकम् उपजनित उत्पादितो विषमो दुःसह उच्छ्वासश्रमखेदो येन तत् । तत्रो-

च्छ्वासः श्वासः श्रमः खेदः, खेदो घर्मजलम् एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं

रोमावोत्पादकम् अनुभूयमानमपि साक्षात्क्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षात्क्रयमाणस्य स्पृहा

वाञ्छा येन तत् । सहस्रवारमनेकवारमनुभूतमपि सेवितमप्यपुनरुक्तमना म्रेडितम् अतिस्पष्टमप्यतिप्रकटमप्य-

निर्देश्यं दर्शयितुमशक्यं स्वरूपं स्वभावो यस्य तत् । अचिन्त्यमिदमेतदिति चिन्तयितुमशक्यम् । न विद्यते समा-

सङ्गः संबन्धो यस्य तत् । अतुलो निरुपमः स्पर्शो यस्य तत् । अनुपमः सर्वेभ्योऽतिशायी रसो यस्य तत् ।

अनाख्येयां कथयितुमशक्यां प्रीतिं स्नेहं करोतीति करः । अनाख्येयप्रीतेः करोऽनाख्येयप्रीतिकरः । अन्यथा

कर्मणि वृद्धौ कारः स्यात् । परममुत्कृष्टं यद्ध्यानमेकप्रत्ययसंततिस्तस्य सहस्रं तेनाधिगतं सहितमपरप्रकारमि-

तररूपं निर्वाणमिव ब्रह्मेव । सुरतेव्याख्या यस्यैवंभूतं सुखान्तरमेक स्मात्सुखादन्यत्सुखं सुखान्तरमनुभूयानु-

भवविषयीकृत्य निमेषमपि चक्षुर्निमीलनमात्रमपि तया सहाकृतो विरहो वियोगो येनैवंभूतोऽहं तेषु तेषु

रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीयमपि यौवनं तारुण्य-

मतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता तां उपनयामि प्रापयामि । एवमिति । पूर्वोत्तरीत्योत्पन्नः

संजातो विम्भो विश्वासो यस्याः सर्वविधां देवीं कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया

सह घटनां संबन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः ।
 

 
एवमिति । पूर्वोकप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयांतिदूरतया । 'दवीयश्च दविष्ठं

च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवाजनिष्ट । तमेव विशे-

षयन्नाह - कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् । ग्रीष्मस्य निदा-

घस्य प्रबलेपको बहुलकर्दमः । पङ्कः कर्दमः । गभस्तिमतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः, रविकरप्रसर •

प्रतिरोधकारित्वात् । अमृतदीधितेश्चन्द्रस्य खर्भानू राहुः । सर्वतस्तत्प्रकाशप्रतिरोधकत्वात् । वज्रं पविस्तस्यानलो

वह्निस्तस्य स्फुरितानां विस्फूर्जितानां धूमोद्गमो धूमप्रादुर्भावः । यदि वा धूमोहमो धूमकेतोरुदयः । यथा

धूमकेतोरुदयेन सर्वसस्यानां विनाशस्तथैवानेन वज्रानलस्येति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमो
 

 
टिप्प० - 1 अविचारितमिदम् । 'प्रबलकम्पः' इति पाठः । ग्रीष्मस्य तापनिवृत्या, अथवा प्रबलश-

झावातात् प्रबलकम्पकरः ।
 

 
पाठा. -१ अनिर्दिश्य. २ अचिन्त्यसमागमम् ३ निर्वाणसुखम् ४ प्रकाशम् ५ तथैव, ६ देशेषु. ७ स्वयमेव

रम्यम्. ८ उत्पन्नसहस्रविनम्भाम् ९ जागर. १० कम्पः.