कादम्बरी /63
This page has not been fully proofread.
कादम्बरीं ।
[ कथामुखे-
वनप्रासादकुञ्जेपूचरितप्रेतिच्छन्दतया दीर्घतामुपगतेनालोकशब्देन, राज्ञां च ससंभ्रमावर्जि-
तमौलिलोलचूडामणीनां प्रणमताम मलमणिशलाका दन्तुराभिः किरीटकोटिभिरुल्लिख्यमानस्य
मणिकुट्टिमस्य निःखनेन, प्रणामपर्यस्ता नामति कठिन मणिकुट्टिमनिपतितरणरणायितांनां च
मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां जयजीवेति मधुरवचनानु-
यातेन पठतां दिगन्तव्यापिना कलकलेन, प्रचलितजन चरणशतसंशोभा द्विहाय कुसुमप्रकरमु-
सततां च मधुलिहां हुंकृतेन, संक्षोभादतित्वरितपदप्रत्तैरवनिपतिभिः केयूरकोटिताडितानां
कणितमुखररत्नदानां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ।
अथ विसर्जितराजलोको "वश्रभ्यताम्' इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्,
३०
यंतेन । पुनः कीदृशेन । दीर्घतां बहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य
प्रतिच्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुञ्जेषु लतान्तरि-
तप्रदेशेषु । पुनः केन । मणीति । मणिकुट्टिमं रत्नबद्धभूस्तस्य निःस्वनेन । किं क्रियमाणस्य । उल्लिख्यमानस्य
घृष्यमाणस्य । काभिः । किरीटकोटिभिर्मुकुटामैः । कीदृशीभिः । अमलेति । अमला निर्मला मणिशलाका रत्ने-
षीकास्ताभिर्दन्तुराभिर्विषमाभिः । केषाम् । राज्ञां नृपाणाम् । किं कुर्वताम् । प्रणमतां नमस्कारं कुर्वताम् । कीदृ-
शानाम् । ससंभ्रमेति । संभ्रमेण सहसावर्जिता नमिता मौलौ शिरसि लोलाञ्चञ्चलाञ्चूडामणयः शिरोमणयो येषां
ते तथा तेषाम् पुनः केन । मणीति । मणिकर्णपूराणां रत्नकर्णाभरणानां निनादेन शब्देन । कर्णपूरं विशेष-
यन्नाह - प्रणामेति । प्रणामेन नमस्कारेण शिरोनमनात्पर्यस्तानां पतितानाम् । अतीति । अतिकठिनं यन्मणि-
कुट्टिमं तत्र निपतितेने पातेन रणरणायितानां संजातरणरणितशब्दानाम् । पुनः केन । दिश ककुभामन्ता दिगन्ता -
स्तान्व्याप्नुवन्तीत्येवंशीलेन कलकलेन कोलाहलेन । केषाम् । पठताम् । कीर्तिपाठकानामित्यर्थः । कीदृशानाम् ।
पुरोयायिनामग्रगामिनां मङ्गलपाठकानां बन्दिनां जयजीवजयजीवेति यन्मधुरं वचनं तदनुलक्षीकृत्य यातेन प्रवृत्तेन ।
पुनः केन । मधुलिहां भ्रमराणां हुंकृतेन हुंकारशब्देन । किं कुर्वताम् । उत्पततामुड्डीनं कुर्वताम् । किं कृत्वा ।
विहाय त्यक्त्वा । किम् । कुसुमप्रकरं पुष्पसमूहम् । कस्मात् । प्रचलितेति । प्रचलिता ये जनास्तेषां चरणाः
पादास्तेषां शतं तस्माद्यः संक्षोभः संभ्रमस्तस्मात् । पुनः केन । मणिस्तम्भानां रत्नस्थूणानां रणितेन रणत्कारेण ।
कीदृशेन । क्वणितेन शब्दितेन मुखराणि वाचालानि रत्नदामानि येषु ते तथा तेषाम् । केयूरेति । केयूराणामङ्ग-
दानां कोटयोऽग्रभागास्तैस्ताडितानामाहतानामिति स्तम्भविशेषणम् । कैः । अवनिपतिभिः नृपतिभिः । कीदृशैः ।
संक्षोभश्चित्तवैक्लृव्यं तस्मादतित्वरितपद मतिवेगवत्तरचरणं यथा स्यात्तथा प्रवृत्तैः प्रचलितैः । अन्वयस्तु प्रागेवोक्तः ।
अथेति । अथेत्यानन्तर्ये । नरपती राजा कतिपयैः किद्भिरातैः शिष्टै राजपुत्रैर्नृपसूनुभिः परिवृतः सहितो
विसर्जितो विसृष्टो राजलोकः परिच्छदलोको येन स तथा । राज्ञो विशेषणम् । विश्रम्यतां विश्रामं गृह्यतामिति
स्वयमेवात्मनैवाभिधायोक्त्वा तां चाण्डालकन्यकां, वैशम्पायनश्च शुकोऽभ्यन्तरं मध्यं प्रवेश्यतां प्रवेशं
कार्यतामिति ताम्बूलस्य नागवत्र्याः करङ्कः स्थगी तां वहतीत्येवंशीला सा तथा तामादिश्याज्ञां दत्त्वाभ्य-
टिप्प० - 1 निपतिताः अत एव रणरणायिता ये मणिकर्णपूराः तेषां निनादेन । इत्याशयः ।
2 विश्राम इति प्रथमायां तात्पर्यम् ।
पाठा० - १ कुञेषु वरित. २ प्रतिशब्दसया ३ दीर्घतरयाताम् ; दीर्घतरताम् ४ स्वनेन. ५ निपतन.
६ जयजयेति ७ मङ्गलमधुरवचनानुपातेन; मधुवचनानुयातेन. ८ दिगन्तर ९ संक्षोभभयादपहाय. १० त्वरितपदम्.
११ प्रसृतैः.
.