2024-01-11 13:22:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नय- न्तीम्, अङ्गलग्नानि [^१]शयनीयकृतकमलकुमुद [^२]कुवलयद- लकिञ्जल्कशकलानि पुलकोद्गमेनै [^३]वापास्यन्तीम्, [^४]कपो- लसङ्गिनीं च [^५]मणिदर्पणे विलोक्याय [^६]थास्थितां करेण कबरीमंसदेशे निवेशयन्तीम्, आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्ती म्, उत्सृष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुत- भुजो निवृत्तिमावेदयन्तीम्, अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरी- कुर्वन्तीम्, कादम्बरीमालोकयन्, दर्शनीयावलोकनफलेन चक्षुषी [^७]कृतार्थतां नयामि। एवं मदलेखां साञ्जलिप्रणामेन कण्ठग्रहेण [^८]संभाव्य, चरणपतितां पत्रलेखा [^९]मुत्थाप्य, केयूरकं [^१०]पुनःपुनः परिष्वज्य निर्भरम्, एवं महाश्वेतोपपादितोद्वाहमङ्ग- लस्त्वरितसखीवृन्दनिर्वर्तितवैवाहिकस्नान [^११]मङ्गलविधिर्भुव इव वर्षाभिषिक्तायाः [^१२]करग्रहणं देव्या
 
[ टि ]-- त्कटं यद्धरिचन्दनं गोशीर्षचन्दनं तेन चर्चा पूजा तयान्त- रिता व्यवहिता लावण्यशोभा येषामेवंविधान्यङ्गानि [^1]प्रतीकाः करेण परामर्शो मार्जनं तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामति- शयेन विलोकनीयतां नयन्तीं प्रापयन्तीम् । 'मुक्ताफलस्य छायाया- स्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्य मिहोच्यते ॥" इति प्राचः ।
तथाङ्गलमानि शरीरसंबद्धानि यानि शयनीय [^2]कृ- तानि तलिनीकृतानि कमलं पद्मम्, कुमुदं श्वेतकमलम्, कुवल
यमु- त्पलम् एतेषां दलानि पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलकोद्गमेनैव रोमाञ्चोद्ग
मेनैवापास्यन्तीं निरा- कुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन तत्पातादिति भावः । 'श्वेते तु
तत्र कुमुदं कैरवं गर्द
भाह्वयम्' इति हैमः । कपोलसङ्गिनीं च गल्लात्परप्रदेशलग्नां च कबरीं वेणीमयथास्थितामयथास्थायिनीं मणिद-
र्पणे रत्नादर्शे विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेश- यन्तीं स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यैवं-
भूतेन नेत्रपुटाभ्या-
मावर्जितेनाहृतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानल- स्तस्य संतापः संज्वरस्तस्मै
जलाञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलि प्रदानेनैव सर्वथा तदभावः सूचितः । उत्सृष्टशेषेण दूरी- कृता-
वशेषेणाश्यानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्व- साम्या द्भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवद्वेह्नेर्निवृ-
त्तिमुपशम मा- वेदयन्तीं कथयन्तीम् । निर्वाणवद्वेह्नेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं तस्य
प्रसङ्गेनैव संबन्धेनैव कुसुमशय्यां पुष्पशयनीयं दूरीकुर्व [^3]न्तीं निराकुर्वन्तीमहमेतादृशीं कादम्ब- रीमालोकयन्पश्य-
न्दर्शनीयस्यावलोकनीयस्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां नयामि
प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजना- दिकृतनमस्कारेण कण्ठग्रहेण कण्ठाश्लेषेण मद-
लेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुनर्वारंवारं
परिष्वज्यालिङ्ग्य एवं महाश्वेतयोपपा- दितं विहितमुद्दावाहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्रं सखी-
वृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उद्वाहसंबन्धी स्नानमङ्गलविधिर्यस्यैवंभूतो वर्षाभिषिकाया
क्ताया जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निर्वर्तयामि करोमि । एवं पूर्वोक्तप्रकारे-
टिप्प० -
[^
1]F. प्रतीकानून् इत्युचितम् ।
[^
2]F. ग्राम्य एव । अशयनानि (अतथाभूतान्यपि) शयनानि कृतानि
इति शयनीकृतानि तल्पीकृतानि इति पाठः ।
[^3]F.
स्वयं तु अवैयाकरणत्वात् स्थाने स्थाने 'कुर्वन्ती' इति
प्रयुंक्त एव, सोढमपि च तत् । परं मूलग्रन्थे 'कुर्वतीम्' इत्येवास्ति, नान्यथेति बोध्यं विद्यार्थिभिः ।
[^4]F. वज्रमतिर्महोदयः । सखीपदखास्वारस्येन किं न ज्ञायते यत् - 'सखीवृन्देन निर्तितो वैवाहिकस्तान-
नानमङ्गलविधिर्यस्याः तथाभूवातायाः कादम्बर्याः' इति पाठानुसारी अर्थ उचितः ? ।
 
पाठा० - [^]G. शयनीकृत .
[^
]G. कुवलयकिञ्जल्क; किञ्जल्ककुवलयदल.
[^३]G.
ल्क; किअल्ककुवलयदल. ३ अपश्यन्तीम् .
[^
]G. कपोलसङ्गिनीम्.
[^
]G. मणि-
दर्पणेनालोक्य.
[^
]G. उपस्थिताम् .
[^
]G. कृतार्थयामि .
[^
]G. च संभावयामि . .
[^
]G. संभाव्य.
[^
१०]G. पुनः
[^
११]G. विधेः.
[^१२]G. करग्रहणं निर्वर्तयामि .
 
.