2024-01-10 13:56:30 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मार्गे गच्छतश्चन्द्रापीउस्य भावनाः ] उत्तरभागः ।
 
५९५
 
9
 
तळा
तलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नय- न्तीम्, अङ्गलग्नानि [^१]शयनीय-
कृतकमलकुमुदकुंवलयद् [^२]कुवलयद- लकिञ्स्ल्कशकलानि पुलकोद्गमेनै [^३]वापास्यन्तीम्, कॅ[^४]कपो- लसङ्गिनीं च
[^५]मणिदर्पणे विलोक्याय [^६]थास्थितां करेण कबरीमंसदेशे निवेशयन्तीम्, आनन्दजन्मना नेत्र-
पुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्तीम् म्, उत्सृ
ष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुत- भुजो निवृत्तिमावेदयन्तीम्, अभ्यु-
त्थानप्रसङ्गेनैव कुसुमशय्यां दूरी- कुर्वन्तीम्, कादम्बरीमालोकयन्, दर्शनीयावलोकनफलेन
चक्षुषी [^७]कृतार्थतां नयामि एवं मदलेखां साञ्जलिप्रणामेन कण्ठग्रहेण [^८]संभाव्य, चरणपतितां
पत्रलेखा [^९]मुत्थाप्य, केयूरकं [^१०]पुनःपुनः परिष्वज्य निर्भरम्, एवं महाश्वेतोपपादितोद्वाहमङ्गल-
- लस्त्वरित सखी वृन्द निर्वर्तित वैवाहिक
स्नान [^११]मङ्गल विधिर्भुव इ वर्षाभिषिक्तायाः कै[^१२]करग्रहणं देव्या
 
,
 
स्

 
[ टि ]-- त्
कटं यद्धरिचन्दनं गोशीर्षचन्दनं तेन चर्चा पूजा तयान्त- रिता व्यवहिता लावण्यशोभा येषामेवंविधान्यज्ञानि
ङ्गानि [^1]प्रतीकाः करेण परामर्शो मार्जनं तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामति- शयेन विलोकनीयतां नयन्तीं प्राप-
यन्तीम् । 'मुक्ताफलस्य छायाया- स्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तलावण्य मिहोच्यते ॥" इति प्राचः ।

तथाङ्गलमानि शरीरसंबद्धानि यानि शयनीयकृतानि तलिनीकृतानि कमलं पद्मम्, कुमुदं श्वेतकमलम्, कुवल

यमुत्पलम् एतेषां दलानि पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलकोद्गमेनैव रोमाञ्चोद्ग•

मेनैवापास्यन्तीं निराकुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन तत्पातादिति भावः । 'श्वेते तु तत्र कुमुदं कैरवं गर्द

भाह्वयम्' इति हैमः । ंकपोलसङ्गिनीं च गल्लात्परप्रदेशलग्नां च कबरीं वेणीमयथास्थितामयथास्थायिनीं मणिद-

र्पणे रत्नादर्श विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेशयन्तीं स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यैवं-

भूतेन नेत्रपुटाभ्यामावर्जितेनाहृतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानलस्तस्य संतापः संज्वरस्तस्मै

जलाञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलि प्रदानेनैव सर्वथा तदभावः सूचितः । उत्सृष्टशेषेण दूरीकृता-

वशेषेणाश्यानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्वसाम्या द्भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवद्वेर्निवृ-

त्तिमुपशम मावेदयन्तीं कथयन्तीम् । निर्वाणवद्वेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं तस्य

प्रसङ्गेनैव संबन्धेनैव कुसुमशय्यां पुष्पशयनीयं दूरीकुर्वतीं निराकुर्वन्तीमहमेतादृशीं कादम्बरीमालोकयन्पश्य-

न्दर्शनीयस्यावलोकनीयस्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां नयामि

प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजनादिकृतनमस्कारेण कण्ठग्रहेण कण्ठाश्लेषेण मद-

लेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुनर्वारंवारं

परिष्वज्यालिङ्ग्य एवं महाश्वेतयोपपादितं विहितमुद्दाहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्रं सखी-

वृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उद्वाहसंबन्धी स्नानमङ्गलविधिर्यस्यैवंभूतो वर्षाभिषिकाया

जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निर्वर्तयामि करोमि । एवं पूर्वोक्तप्रकारे-

टिप्प० - 1 प्रतीकानू इत्युचितम् । 2 ग्राम्य एव । अशयनानि (अतथाभूतान्यपि) शयनानि कृतानि

इति शयनीकृतानि तल्पीकृतानि इति पाठः । ॐ स्वयं तु अवैयाकरणत्वात् स्थाने स्थाने 'कुर्वन्ती' इति

प्रयुंक्त एव, सोढमपि च तत् । परं मूलग्रन्थे 'कुर्वतीम्' इत्येवास्ति, नान्यथेति बोध्यं विद्यार्थिभिः ।

4 वज्रमतिर्महोदयः । सखीपदखारस्येन किं न ज्ञायते यत् - 'सखीवृन्देन निर्तितो वैवाहिकस्तान-

मङ्गलविधिर्यस्याः तथाभूवायाः कादम्बर्याः' इति पाठानुसारी अर्थ उचितः ? ।
 

 
पाठा० - १ शयनीकृत २ कुवलयकिअल्क; किअल्ककुवलयदल. ३ अपश्यन्तीम् ४ कपोलसङ्गिनीम्. ५ मणि-

दर्पणेनालोक्य. ६ उपस्थिताम् ७ कृतार्थयामि . ८ च संभावयामि . ९ संभाव्य. १० पुनः• ११ विधेः.

१२ करग्रहणं निर्वर्तयामि .