2024-01-11 15:34:17 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
५९४
कादम्बरी ।
[कथायाम्-
¹9
वहंश्च तस्मादेव वासरादारभ्यैवमचेतित एव "परापत्य कृतापक्रान्तेख-
स्त्रपया पृष्ठतोऽनुग-
म्य बलाद्दत्तकण्ठग्रहः 'क्क व [^१]परं पलाय्यते' इति वैशम्पायनस्य वैलक्ष्यमपनयामि, एवं तत्समा -
गमसुखमनुभूय निष्कारणप्रसन्नामनघाम तर्कितोपनतमदवलोकनोपजात हर्ष विशे- षां पुरस्ता-
द्गमनसिद्धये पुनर्महाश्वेतां पश्यामि, एवं महाश्वेताश्रम- समीपे पुनःस्थापिताशेषतुरग सैन्यस्तया
सहैव हेमकूटं गच्छामि एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमधावितेनेतस्ततः कादम्बरीपरिजनेन
प्रण- म्यमानः प्रविश्य मदागमन निवेदनोत्फु [^२]ल्लैलनयनेन सखीजने- नापहिह्रियमाणपूर्णपात्राम्,
'काक्वासौ, केन कथितम्, कियहूद्दूरे वर्तते' इति तत्प्रश्नोन्मुखीम्, तरत्क्षणोत्पन्नया तापोपशान्त्या
त्रपया च युगप- दुरसि [^३]निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरण- तामुपनयन्तीम्,
आभरणतां [^४]नीतानि [^५]कमलिनीमृणाला- न्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभ-
रणस्थानेषु धारयन्तीम्, तापोपशमार्पितहारमात्राभरणाम्, अत्युलबणहरिचन्दन चर्चान्तरि-
वह॑
[ टि ]-- वहंश्च गच्छंश्च तस्मादेवात्मगमनोपलक्षितादेव वासराहिद्दिना- दारभ्यारम्भं कृत्वैवैतान्यग्रे वक्ष्यमाणान्यन्यानि
तदितराणि च चिन्त- यन्विमर्शयन्नचेतिता अज्ञाताः उक्षुत्क्षुधा, पिपासा तृदट्, आतपो घर्मः, श्रम आयासः,
उज्जागरो जागरः, एतेषां व्यथा पीडा येनैवंभूतो दिवारात्रा [^1]वहर्निशेवावहदगच्छदिति दूरेणान्वयः । एतानि
कानीत्यपेक्षायामाह—अचेतित इति । अचेतित एवाज्ञात एव परा- पत्य गत्वा त्रपया लज्जया कृता विहिता-
पक्रान्तिरपक्रमणं येनैवं- भूतस्य वैशम्पायनस्य पृष्ठतोऽनुगम्यानुगमनं कृत्वा बलाद्दत्तो विहि- तः कण्ठग्रहः कण्ठालिङ्गनं
येनैवंभूतोऽहं परं केवलं क्व पलाय्यते कुत्र पलायनं क्रियत इति वैलक्ष्यं वैगुण्यमपनयामि दूरीकरोमि । एवं
तस्य वैशम्पायनस्य समागमः संगमस्तस्मात्सुखं सौख्यमनुभूयास्खा- यास्स्वाद्य, निष्कारणमनिमित्तं प्रसन्नं विकसितं
मनश्चेतो यस्याः सा तामनघां निष्पापामतर्कितमविचारितमुपनतं प्राप्तं यन्मदवलोकनं मद्वीक्षणं तेनोपजात
उत्पन्नो हर्षविशेषोऽतिशा यिप्रमोदो यस्याः सा तां पुरस्तादग्रे यद्गमनं तस्य सिद्धये । निर्विघ्नगमनायेत्यर्थः ।
पुनः पूर्वविशेषयोरित्युक्तेः पूर्वं प्रथमं महाश्वेतां पश्याम्यवलोकयामि । एवंप्रकारेण महाश्वेताया आश्रम -
समीपे मुनिस्थानाभ्यर्णे पुनः स्थापि-
तं न्यस्तमशेषं समग्रं तुरगसैन्यमश्वानीकं येनैवंभूतोऽहं तया महाश्वे-
तया सहैव सार्धमेव हेमकूटं हेमकूटाभिधानं नगं गच्छामि व्रजामि । एवंप्रकारेण तत्र नगे सोऽयं चन्द्रा-
पीड इति मम प्रत्यभिज्ञानं तस्माद्यः संभ्रम आदरः । 'संभ्रमस्त्वादरे भये' इति कोशः । तेन प्रधावितेनोच्चै-
श्चलितेनेतस्ततः कादम्बर्याः परिजनेन परिच्छदेन प्रणम्यमानो नमस्क्रियमाणः प्रविश्य प्रवेशं कृत्वा । इतः
कादम्बरीं विशेषयन्नाह - मदेति । समागमनं तस्य निवेदने कथनं तेनोत्फुल्ले विकसिते नयने यस्यैवंभूतेन
सखीजनेनालिसमुदायेनापहिह्रियमाणं गृह्यमाणं पूर्णपात्रं पूर्णानकं यस्याः सा ताम् । 'उत्सवेषु सुहृद्भिर्यद्वब- लादा-
कृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्' इति हैमः । क्कावासौ चन्द्रापीडः, केन जनेनेदं
चन्द्र।रापीडसमागमनं कथि- तम्, कियहूद्दूरे वर्तत इति यत्तस्य जनस्य प्रश्ना नियोजनानि तत्रोन्मु- खीमूर्ध्वाननाम् ।
तत्क्षणं तत्कालं युगपत्समकालमुत्पन्नया संजातया तापोपशान्त्या तप्त्युपशमेन त्रपया लज्जया चोरसि
हृदये निहितं स्थापितं पद्मिनीपत्रं कमलिनीदलमपनीय दूरीकृत्योत्तरीयांशुकं संव्यानवस्त्रं तस्याञ्चलं प्रान्तप्र-
देशं कुचयोः स्तनयोरावरणतामा- च्छादनतामुपनयन्तीं प्रापयन्तीम् । आभरणतां भूषणतां नीतानि प्रापितानि
कमलिन्याः सरोजिन्या मृणालानि बिसान्यपास्य दूरी- कृत्य भूषणेभ्य आभरणेभ्योऽधिकामतिशायिनीं स्वं
स्वकीयं यच्छ- रीरं देहस्तस्य शोभा तामेव सर्वाभरणस्थानेषु समग्रभूषणस्थलेषु धारयन्तीं बिभ्रतीम् । तापोपश-
मार्थं तप्तिदूरीकरणार्थं अर्पितो दत्तः केवलं हारो हारमात्रमाभरणं भूषणं यस्याः सा ताम् । अत्युल्बण- मत्यु-
टिप्प० -
[^1]F. 'दिवारात्रौ चाऽवहत्' इत्यस्य दिवा दिने रात्रौ चेत्यर्थ उचितः ।
पाठा० -
[^१]G. परिपलाय्यते .
[^२]G. नयनसखी.
[^३]G. निहित .
[^४]G. उपनीतानि.
[^५]G. मृणालानि
.