कादम्बरी /626
This page has been fully proofread once and needs a second look.
मेनो [^१]न्नमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनास- मवारिताश्रुपातोपहतमुखीं च मनोरमां [^२]प्रणम्य, तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपययामि [^३]व स्वदुःखभारमनुमतो निवर्तनाय, तयोर्निवर्तिताननो मुहर्मुहराद्वारनिर्गतं गत्वाग्रतो ढौकि- तमपि कृतापसर्पणमकृत [^४]हर्षहेषारवमनुत्कर्णकोश मस स्खन ममनस्क मनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणा-
शङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमाग- मौत्सुक्येन चाकृतपरिलम्बो मनागण्या-
प्यरुपह्य रयेणैव निरगान्नगर्याः । निर्गत्य च सिप्रातदेरतटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं काय-
मान- मप्रविश्य, बहिरेव गतो युवराज इति जनितकलकले नातर्कितत- त्कालगमनसंभ्रान्तेन परि-
जनेन राजपुत्रलोकेन चेतस्ततो धावतानु- गम्यमानो गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे
प्रदेशे निवासमकरू- मकल्पयत् । उत्ताम्यता हृदयेनाऽप्रभातायामेवं [^५]व यामिन्यामु- त्थाय पुनरवहत् ।
[ टि ]-- तात्मोर्ध्वीकृतात्मा निर्ययौ निरगात् । निर्गत्य चकृतात्मा निर्ययौ निरगात् । निर्गत्य च शुकनास- स्य वृद्धसचिवस्य भवनं सदनमयासीदगात् ।
तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणैरुन्मु- क्तमिव त्यक्तमिव ।
अत एव शून्यशरीरं शून्यदेहं शुकनासमवा- रितोऽनिषिद्धो योऽश्रुपातस्तेनोपहतं मुखमाननं यस्या एतादृशीं च
मनोरमां वैशम्पायनजननीं च प्रणम्य नमस्कृत्य तादृशाभ्यां शोका- कुलिताभ्यामेव ताभ्यां शुकनासमनो-
रमाभ्यामाशिषा आशी: प्रदा- नेन संभाव्य सत्कृत्य स्वस्य दुःखं सुतविरहजं तस्य भारो वीवधस्तं समारोपयच्या-
द्भ्यामिव स्थापयज्द्भ्यामिव ताभ्यां निवर्तनाय गमनायानु- मतोऽनुज्ञातस्ततस्तयोर्विषये मुहुर्मुहुर्वारंवारं निवे[^1]निवर्तितमभि-
मुखीकृत माद्वारगतमाप्रतोलीगमनपर्यन्तमाननं मुखं येनैवंभूतोऽग्र- तो गत्वा, ढौकितमपि कृतं विहितमपसर्पण-
मपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहेषारवः प्रमोदध्वनिर्येन स तम् । अत्र नजोञो भावादन्भावः ।
न विद्यत उत्कर्णकोशो यस्य स तम् । अनूवी॑र्ध्वीकृत- कर्णयुगमित्यर्थः । असुखोऽसौख्यकारी स्वनः शब्दो स्
यस्य स तम् । न विद्यते मनोऽर्थाद्गमनविषये यस्य स तम् । नाविष्कृतो न प्रकटी- कृतो गमनस्योत्साहः प्रगल्भता
येन स तम् । दीनं दुःखित मेतादृश- मिन्द्रायुधमश्वमालोक्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेधस्तस्य
- स्तस्य शङ्कयारेकया वैशम्पायनस्यावलोकनं निरीक्षणं तस्य त्वरा त्वरिस्तस्याः ( तया) कादम्बर्याः समागमः संग-
मस्तस्मिन्नौत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो येनैवंभूतश्चन्द्रापीडो मनागपि योग्यं यानमारुह्या-
रोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगान्निर्ययौ । निर्गत्य च निर्गमनं कृत्वा सिप्रा नाम्नी नदी
तस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्र-
विश्य प्रवेशमकृत्वा, बहिरेव युवराजश्चन्द्रापीडो गत इति जनितकलकलेन समुत्पन्नको- लाहलेनातर्कितम चिन्तितं
तत्कालं तदात्वं यद्गमनं यानं तेन संभ्रा- न्तेन चकितेन परिजनेन परिच्छदेन राजपुत्रलोकेन चेतस्ततो धावता
वेगेन गच्छतानुगम्यमानोऽनुयायमानो गव्यूतित्रितयमिव सार्धयोजनमिव गत्वा गमनं विधाय सुलभानि सुप्रा-
पाणि पयोयव- सानि जलतृणानि यत्रैववंभूते प्रदेशे निवाससं वसतिभमकल्पयदकरोत् । 'यवसं तृणमर्जुनम्' इति
कोशः । उत्ताम्यतोत्प्राबल्येन खिद्यता हृदयेन चित्तेनाऽप्रभातायामविभातायामेव यामिन्यां रजन्यामुत्था- योत्थानं
कृत्वा पुनरवहद्गमत् ।
टिप्प० -[^1]F. 'तयोः निवर्तिताननः आद्वारनिर्गतम्' इति पाठस्य 'निवर्ति- तम् अभिमुखीकृतम् आद्वा-
रगतम् भावरगतम् आननं येन' इति समासः कथं भवेत् ? 'निवर्तिताननः' इति समासमध्ये 'आद्वारगतम्' इति
कथं बलान्निपतितम् ? तस्मात्
- 'मुहुराद्वारनिर्गतेः' इति पाठः । भाद्वारआद्वार- निर्गते: द्वारान्निर्गमनपर्यन्तं
मुहुस्तयोः निवर्तितं परावर्तितं वदनं येन ।
पाठा० •[^१]G. उत्तंसित.
[^२]G. प्रणिपत्य.
[^३]G. इव च.
[^४]G. हेषारवः .
[^५]G. एवम्.
७५ का०
[ टि ]-- तात्मोर्ध्वीकृतात्मा निर्ययौ निरगात् । निर्गत्य च
मनोरमां वैशम्पायनजननीं च प्रणम्य नमस्कृत्य तादृशाभ्यां शोका- कुलिताभ्यामेव ताभ्यां शुकनासमनो
मुखीकृत
तस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्र
रगतम् भा
[^२]G. प्रणिपत्य.
[^३]G. इव च.
[^४]G. हेषारवः
[^५]G. एवम्.
७५ का०