कादम्बरी /626
This page has not been fully proofread.
विसर्जने पितुरुक्तिः ]
उत्तरभागः ।
मेनोन्नमितात्मा निर्ययौ ! लगेय च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमु-
न्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनासमवारिताश्रुपातोपहतमुखीं च मनोरमां प्रेणम्य, तादृशा-
भ्यामेव ताभ्यां संभाव्याशिषा समारोपययामिवै खदुःखभारमनुमतो निवर्तनाय, तयो-
निवर्तिताननो मुहर्मुहराद्वारनिर्गतं गत्वायतो ढौकितमपि कृतापसर्पणमकृत
हैर्षहेषारवमनु-
त्कर्णकोशमसुखस्खन ममनस्क मनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणा-
शङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौत्सुक्येन चाकृतपरिलम्बो मनागण्या-
रुप रयेणैव निरगानगर्याः । निर्गत्य च सिप्रातदे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं काय-
मानमप्रविश्य, बहिरेव गतो युवराज इति जनितकलकले नातर्किततत्कालगमनसंभ्रान्तेन परि-
जनेन राजपुत्रलोकेन चेतस्ततो धावतानुगम्यमानो गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे
प्रदेशे निवासमकरूपयत् । उत्ताम्यता हृदयेनाऽप्रभातायामेवं यामिन्यामुत्थाय पुनरवहत् ।
तात्मोचकृतात्मा निर्ययौ निरगात् । निर्गत्य च शुकनासस्य वृद्धसचिवस्य भवनं सदनमयासीदगात् ।
तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणैरुन्मुक्तमिव त्यक्तमिव ।
अत एव शून्यशरीरं शून्यदेहं शुकनासमवारितोऽनिषिद्धो योऽश्रुपातस्तेनोपहतं मुखमाननं यस्या एतादृशीं च
मनोरमां वैशम्पायनजननीं च प्रणम्य नमस्कृत्य तादृशाभ्यां शोकाकुलिताभ्यामेव ताभ्यां शुकनासमनो-
रमाभ्यामाशिषा आशी: प्रदानेन संभाव्य सत्कृत्य स्वस्य दुःखं सुतविरहजं तस्य भारो वीवधस्तं समारोपयच्या-
मिव स्थापयज्यामिव ताभ्यां निवर्तनाय गमनायानुमतोऽनुज्ञातस्ततस्तयोर्विषये मुहुर्मुहुर्वारंवारं निवेर्तितमभि
मुखीकृत माद्वारगतमाप्रतोलीगमनपर्यन्तमाननं मुखं येनैवंभूतोऽग्रतो गत्वा, ढौकितमपि कृतं विहितमपसर्पण-
मपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहेषारवः प्रमोदध्वनिर्येन स तम् । अत्र नजो भावादन्भावः ।
न विद्यत उत्कर्णकोशो यस्य स तम् । अनूवी॑कृतकर्णयुगमित्यर्थः । असुखोऽसौख्यकारी स्वनः शब्दो स्
स तम् । न विद्यते मनोऽर्थाद्गमनविषये यस्य स तम् । नाविष्कृतो न प्रकटीकृतो गमनस्योत्साहः प्रगल्भता
येन स तम् । दीनं दुःखित मेतादृशमिन्द्रायुधमश्वमालोक्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेधस्तस्य
शङ्कयारेकया वैशम्पायनस्यावलोकनं निरीक्षणं तस्य त्वरा त्वरिस्तस्याः ( तया) कादम्बर्याः समागमः संग-
मस्तस्मिन्नौत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो येनैवंभूतश्चन्द्रापीडो मनागपि योग्यं यानमारुह्या-
रोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगान्निर्ययौ । निर्गत्य च निर्गमनं कृत्वा सिप्रा नाम्नी नदी
तस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्र-
विश्य प्रवेशमकृत्वा, बहिरेव युवराजश्चन्द्रापीडो गत इति जनितकलकलेन समुत्पन्नकोलाहलेनातर्कितम चिन्तितं
तत्कालं तदात्वं यद्गमनं यानं तेन संभ्रान्तेन चकितेन परिजनेन परिच्छदेन राजपुत्रलोकेन चेतस्ततो धावता
वेगेन गच्छतानुगम्यमानोऽनुयायमानो गव्यूतित्रितयमिव सार्धयोजनमिव गत्वा गमनं विधाय सुलभानि सुप्रा-
पाणि पयोयवसानि जलतृणानि यत्रैवभूते प्रदेशे निवास वसतिभकल्पयदकरोत् । 'यवसं तृणमर्जुनम्' इति
कोशः । उत्ताम्यतोत्प्राबल्येन खिद्यता हृदयेन चित्तेनाऽप्रभातायामविभातायामेव यामिन्यां रजन्यामुत्थायोत्थानं
कृत्वा पुनरवहद्गमत् ।
टिप्प० -1 'तयोः निवर्तिताननः आद्वारनिर्गतम्' इति पाठस्य 'निवर्तितम् अभिमुखीकृतम् आद्वा-
रगतम् भाननं येन' इति समासः कथं भवेत् ? 'निवर्तिताननः' इति समासमध्ये 'आद्वारगतम्' इति
कथं बलान्निपतितम् ? तस्मात्
- 'मुहुराद्वारनिर्गतेः' इति पाठः । भाद्वार निर्गते: द्वारान्निर्गमनपर्यन्तं
मुहुस्तयोः निवर्तितं परावर्तितं वदनं येन ।
पाठा० •१ उत्तंसित. २ प्रणिपत्य. ३ इव च. ४ हेषारवः ५ एवम्.
७५ का०