This page has not been fully proofread.

५९२
 
कादम्बरी ।
 
[
 
कथायाम्-
लोकदुर्लभानि सर्षविषयोपभोगसुखानि । यौवनेच्छया पर्याप्तम कार्य परिहरात् । कार्यानुष्ठा-
नाञ्चोपार्जितः पैरोऽपि लोकः । चेतसि मे त्वजन्मना च कृतार्थ एवास्मि । तदयमेव मे
मनोरथः, दारपरिमहात्प्रतिष्ठिते त्वयि सकलमेव में राज्यभारमारोप्य जन्मनिर्वाहलघुना
हृदयेन पूर्वराजर्षिगतं पम्थानमनुयास्यामीति । अस्य च मेऽतर्कितमेवायमग्रतः प्रतिरोधको
वैशम्पायनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क वैशम्पायनः, क
चैवंविधमस्य स्वप्नेऽप्यसंभावनीयं समाचेष्टितम् ? तद्गतेनापि तथा कर्तव्यं वत्सेन, यथा न
चिरकालमेष मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते' इत्यभिधाय किंचिंदुत्तानितेन मुखे-
नैव संपीडित हृदयमिव ताम्बूढनर्पयित्वा व्यसर्जयत् ।
 
चन्द्रापीडस्तु तथा पितुः संभावनया सुदूरमुन्नमितोऽध्यवनम्रतरमूर्तिरुपसृत्य पुनः प्रणा-
जीवनादपि यशोवल्लभत्वमित्यनेन सूचितम् । सुरलोके त्रिविष्टपे दुर्लभानि दुःप्रापाणि यानि सर्वविषयाणां रूप-
रसगन्धस्पर्शशब्दरूपाणामुपभोगः प्रतिवारमासेवनं तस्य सुखानि सौख्यान्युपभुक्तान्यावादितानि । 'यः सकृ•
दुज्यते भोग उपभोगोऽङ्गनादिकः' इति प्राञ्चः । अकार्यपरिहारादकृत्यत्यागाद्यौवनेच्छ्या तारुण्यस्पृहया पर्याप्तं
भृतम् । कार्यं दानादिरूपं तस्यानुष्टानादाचरणात्परोऽपि लोक आगामिभवोऽप्युपार्जितः स्वायत्तीकृतः । सदाच
रणेनावश्यं देवायुर्बुद्धमित्यर्थः । त्वज्जन्मना च त्वदुत्पत्त्या च कृतार्थः कृतकृत्य एवाहमस्मीति मे मम चेतसि
वर्तते । तत्तस्माद्धेतोरयमेव मे मम मनोरथोऽभिलाषो वर्तते । अयमेवेति क इत्यपेक्षायामाह - दारेति ।
दारपरिग्रहात्स्त्रीस्वीकारात्यष्टि प्रतिष्ठां प्राप्ते त्वयि भवति सकलमेव समग्रमेव मे राज्यभारमाधिपत्यधुरमा-
रोप्य न्यस्य अम्मनो नृभव व निर्वाह आयुःक्षयं यावत्परिपालनं तेन लघुना तुच्छेन हृदयेन । केवलं जन्मपा-
लनप्रवृत्तत्वेन तदितरसमग्राशाविमुक्तत्वेन च चेतसो लघुत्वमिति भावः । पूर्वे राजर्षयो गताचलिता यस्मिने-
वंविधं पन्थानं मार्गमनुयास्याम्यनुगच्छामि । इत्यस्य मे मम मनोरथस्यातर्कित मेवा चिन्तितमेवाग्रतः पुरः प्रतिरो-
धकः प्रतिबन्धकृद्वैशम्पायनस्य शुक्नाससुतस्य वृत्तान्त उदन्तः स्थितः । अहमिति मन्ये । अनेन मनोरथेन
न संपत्तव्यं न भवितव्यम् । अन्यथेत्युक्तवैपरीत्ये । केति महदन्तरे निपातः । वैशम्पायनो मनोरमाङ्गजः क ।
अस्य च वैशम्पायनस्य स्वप्नेऽपि निद्रादशायामप्यसंभावनीयमचिन्तनीयमेवंविधं समाचेष्टितं समाचरितं क्व ।
तदिति हेत्वर्थे । गतेनापि चलितेनापि वरसेन पुत्रेण भवता तथा कर्तव्यं तथा विधेयं यथैष पूर्वोक्तो मे मम
मनोरथोऽन्तर्हृदये हृदयमध्ये न विपरिवर्तते न विलीनो भवति । इत्यभिधायोक्त्वा किंचिदीषदुत्तानितेनोव-
कृतेन मुखेनैवाननेनैव संपीडित चर्चितं हृदयमिव स्वान्तमिव ताम्बूलं नागवल्लीदलमर्पयित्वा वितीर्य
व्यसर्जयत्प्राहिणोत् ।
 
तदनन्तरं चन्द्रापीडस्तु तथा पूर्वोक्तया पितुस्तारापीडस्य संभावनया विचारणया सुदूरं यथा स्यात्तथोन्न-
मितोऽप्युच्चैर्भूतोऽप्यवनम्रतरमूर्तिरतिशयेन नमिततनुरुपसृत्योपसरणं कृत्वा पुनः प्रणामेन नमस्कारेणोन्नमि-
T - 1 एतदारभ्य 'चेतसि ' इतिपर्यन्तो ग्रन्थष्टीकाकारेण भ्रष्टीकृतः । तस्मात् - 'उपभुक्तानि
च सुरलांकेपि दुर्लभानि सर्वविषयोपभोगसुखानि यौवने । इच्छया पर्याप्तम् । अकार्यपरिहारात कार्यानु
टाउपार्जित: पारम्परोपि लोकः, इति चेतसि मे ।" इति पाठः । अर्थः स्पष्टः । इच्छया पर्याप्तम्
इच्छापूर्वकं विलसितमित्यर्थः । 2 'स्वज्जन्मना कृतार्थ एवास्मि' इति पृथग् वाक्यम् । 'चेतलि मे' इति
पूर्वसंबद्धम् । तुच्छेनापि पूर्वराजर्षिपथानुगमनम् ? धन्योसि । जन्मनो निर्वाहः समुचितकार्यसंपादन
तेन लघुना मारशून्येन । 4 'संपिण्डितम्' पिण्डीभावेनाऽऽकुञ्चित मित्येव सम्यक् ।
 
पाठा० - १ यौवनेनेच्छया. २ पारम्परोऽपि लोकः; परलोकः, ३ च तावत् ४ इमम् ५ सेवितम् ६ अत-
किंत, ७ उन्नामिते मुखेनैव ८ संपिण्डितम्. ९ अपसृत्य.