2024-01-12 06:55:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

विसर्जने पितुरुक्ति: ]
 
उत्तरभागः ।
 
५९१
 
लप्रकृतेः कर्तुं समर्थस्तत्रास्ते । गुरवोऽप्यपगतस्खलितभीतयस्तत्रैव समारोपयन्त्येतदालोचित -
परावराः । तद्नेनैव बोद्धव्यमिदं वत्सेन नास्ति मयि दोष इति ।
 
(9
 

 
अपि च संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोषमाचरसि । त्वयैव सकललोकानुरञ्जने
यतितव्यम् । गतः खलु कालोऽस्माकम् । [^१]अस्माभिरस्खलितैश्चिरं पदे स्थितम् । न पीडिताः
प्रज़ा
प्रजा लोभेन । नोद्वेजता गुरवो मानेन । न विमुखिताः सन्तो मदेन । नोत्त्रासिताः प्रणिनः
क्रोधेन । न हासित आत्मा हर्षेण । न हृतः परलोकः कामेन । न राजधर्मोऽनिरुद्धः ।
स्वरुच्या वृद्धाः समासेविता न व्यसनानि । सतां चरितान्यनुवर्तितानि नेन्द्रियाणि । धनुर-
नामितं न मनः । वृत्तं रक्षितं न शरीरम् । बाध्वाच्यागीद्भीतं न मरणात् । [^२]उपभुक्तानि [^३]सुर-

 
[ टि ]--
र्बलाद्धठादाकृष्याकर्षणं कृत्वा चञ्चलप्रकृतेरस्थिर स्वभाव- स्यास्य राज्यस्य प्रतिबन्धं प्रतिरोधं कर्तुं विधातुं समर्थः
क्षमः स्यात् । तंत्र तस्मिन्पुंसि राज्यमास्ते तिष्ठति । तथा परं चावरं च परावरम् । आलोचितं विमृष्टं परावरं
प्रकृष्टाधमस्वरूपं यैस्त आलोचितपरा- वराः । विशेषेणापगता स्खलिताशाद्भीतिर्येषां ते व्यपगतस्खलित- भीतय
एवंविधा गुरवः कुलक्रमायातसचिवमुख्यास्तत्रैव तस्मिन्नेव जन एतदाधिपत्यमारोपयन्ति स्थापयन्ति । तत्तस्माद्धे
तोरनेनैव राज्यप्रदानलक्षणहेतुना वत्सेन बोद्धव्यं ज्ञातव्यम् । मयि विषये दोषो वैगुण्यं नास्ति । तत्सद्भावे
राज्य प्रदानसंभावनैव ( न ) स्यादि- ति भावः ।
 

 
पुनः प्रकारान्तरेण शिक्षापूर्वकं वैगुण्याभावं दूरीकुर्वन्नाह - अपि चेति । सांप्रतमधुना कस्मिन्वैशम्पाय-
नादौ राज्यभारमवक्षिप्य न्यस्य स्वयमेका कित्वेनागमनादणुमपि दोषमाचरसि करोषि । त्वयैव भवतैव सक्र. -
लानां समग्राणां लोकानां जनपदनिवासिनृणामनुरञ्जने चित्ताहाह्लादजनने यतितव्यं प्रवर्तितव्यम् । यद्यपि एतद्दो-
षां
षाचरणे न दोषस्तथापि बृहद्दोषाचरणशङ्कासंकुचितवान्ता जनाः कदापि प्रसक्तिभाजो न स्युरिति शिक्षाप्रदा-
नमिति भावः । तातेनैव जना- नुरञ्जनं कथं 'न क्रियत इत्याह - गत इति । खल्विति निश्चये । अस्माकं जना-
नुरञ्जनलक्षणः कालः समयो गतो व्यतीतः । अस्मा- भिरस्खलितैः स्खलनवर्जितैश्चिरं बहुकालं पदे राज्ये स्थितम्
लोभे- न लिप्सया प्रजाः प्रकृतयो न पीडिता न व्यथिताः [^2]मानेनाहं- कारेण गुरवो हिताहितप्राप्तिपरिहा रोपदेष्टारो
वा नोद्वेजिता नोद्वेगं प्रापिताः । मदेन मुन्मोहसंभेदेन सन्ताः साधवो न विशेषेण मुखि- [^3]ता दण्डिताः । क्रोधेन
रोषेण प्राणिनोऽसुमन्तः न उन्त्त्रासिता- स्त्रासं प्रापिताः । हर्षेण प्रमोदेनात्मा न हासितो हास्यं नीतः । कामेन
मनोभवेन परलोक आगामिभवो न हतो न विनाशितः । न राजधर्मो धादिरूपोऽनिरुद्धोऽनिषेवितः । स्वरुच्या
निज़ाजाभिला- षेण वृद्धा ज्यायांसः समासेविताः पर्युपासिताः, न व्यसनानि मद्यपा- नप्रभृतीनि । सतां साधूनां चरि-
ताम्न्याचरणाम्यनुवर्तिनान्यनुगमन- विषयीकृतानि, नेन्द्रियाणि करणानि तदनुगामित्वं न कृतम् । सर्वदा तदा-
ज्ञावैमुख्येन स्थितमिति भावः । धनुः कोदण्डवनामितं वक्रीकृतम्, न मनो हृदयम् । वृत्तं सदाचरणं रक्षि-
तम्, न शरीरं देहः । शरीरानपेक्षत्वेन तदाचरितमित्यर्थः । वाच्याज्जनापवादानीतं त्रस्तम्, न मरणान्मृत्योः
 
टिप्प० -

 
[^
1]F. घिर मन्दभाग्यम् । राज्यभारयुक्तत्वे दोषाचरणं न संभवति । तत् स्वीकृत राज्यभार-
स्त्वमपि स्वीयं भारं कस्मिन्नवक्षिप्य दोष- माचरितुं शक्नुयाः ? अत एव न त्वयि णोरपि दोषस्य संभव

इत्याशयः । न्त हन्त ! 'अणुमपि ' इति पदस्य स्वारस्य मशास्मज्ञात्वैव सोयं प्रलाप इति पीडिताः स्मः टीकाकृता-
ऽनेन ।
[^
2]F. मानेन गुरवः पीडिता भवन्ति, उत संतुष्टाः ? अत एव 'अवमानेन' इत्येव पाठः ।
[^
3]F. कः संदेहः
प्रलापेऽस्मिन् ? न विमुखिताःन पराङ्मुखीकृता इत्यर्थः ।
[^
4]F. अनिरुद्धः अनिषेवितः ? इति कोयं प्रलापः ?

स्तु . )
'न इतः परलोकः कामेन' एतावत्पर्यन्तमेव नञप्रक्रमः । एतदमेग्रे - 'राजधर्मोऽनुरुद्धो न स्वरुचिः '
इति पाठः । राजधर्म- स्थानुरोधः कृतः स्वरुचेर्न इति तदर्थः । अप्ग्रे च 'वृद्धाः समासेविता न व्यसनानि ॥
पाठा० -

 
[^
]G. अस्खलितेन च चिरं पदं स्थितं; मयास्खलितेनैव चिरं पदे स्थितम्; अस्माभिरस्खलितैः पादैः
.
[^
]G. उपभुक्तानि च .
[^
]G. सुरलोकेऽपि दुर्लभानि.