2024-01-12 18:04:23 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[ कथायाम -
अपि च सम
 
उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्,
 
अहितसहस्रोद्धरणेनैवाति- [^१]दुरुद्धरम्
 
9
 
,
 
अपि च समवृत्तितयैवातिविषमम्, अनेकतीर्थक- ल्पनयैव दुरवतारम् के, [^२]कण्टकशोधनेनैव दुर्ग्रहम्,
अखिलप्रजा- पालन [^३]व्यवहारेणैव [^४]दुःपालम्, [^५]नाविक्रान्ते नामहोत्साई- त्सहे नाप्रियवादिनि नासत्य-
संधे [^६]नाप्राज्ञे नाविवेकिनि ना[^७]ना- कृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्म-

रुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्र- वत्सले नावश्यात्मनि [^८]नानि-
र्जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्च-
५९०
 
कादम्बरी
 

 
[ टि ]--
प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहि- तानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्ध
रं दुःखेनोद्धर्तुं शक्यम् । पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । [^1]स- माऽविषमा या वृत्तिर्वर्तनं तयै-
बा
वातिविषमं कठिनम् । तस्याः कर्तुम- शक्यत्वादिति भावः इयं विशेषो [^2]क्तिः । अनेकानि यानि तीर्था- न्युपायास्तेषां
कल्पनं प्रयोगस्तेनैव दुःखेनावतीर्यंत इति दुरवतारम् । दुस्तरमित्यर्थः । 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायम-
न्त्रिषु' इति हलायुधः । 'तीर्थं योनौ जलावतारे च' इत्यमरः । अनेकजलावतर- णेनैव नद्यादि सूत्तरं भवति । इदं
तु दुरुत्तरमिति विशेषोक्तिः । कण्टकाः खलास्तेषां शोधनेन दूरीकरणेन दुःर्ग्रहं दुःखेन ग्रहीतुं शक्यम् । अखिलाः
समग्रा याः प्रजा जनपदवासिनो लोकास्तासां पालनं रक्षणम् । एतदेव व्यवहारो व्यवसायस्तेनैव दुःपालं
दुःखेन पालयितुं [^3]योग्यं राज्यमेतादृशेषु पुरुषेषु पदं स्थानमादधाति करोतीत्यन्वयः । आङ्पूर्वस्य दधातेः
करणार्थत्वादित्यर्थः । 'पदं व्यवसितत्राण स्थानलक्ष्माङ्गिघ्रिवस्तुषु' इत्यमरः । तानेवाह - नाविका- क्रान्त इत्यादि ।
विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रा- न्तस्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । महानु-

त्साहो विद्यते यस्मिन्स महोत्साहस्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्रियवादी
तद्भिन्नोऽप्रिय- वादी तस्मिन् । कटुकभाषिणीत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्संधास्था
भ्युपायः' इति हैमः । तद्भिन्नोऽसत्यसंध- स्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्तद्भिन्नोऽप्राज्ञस्तस्मिन् ।
- स्मिन् । मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी तस्मिन् । सदसद्व्यत्यस्तकारिणी -
त्यर्थः । कृतं जा- नातीति कृतज्ञस्तोतद्भिन्नोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहतिर्व्यवसायो
यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्य- वहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग्विभजनं संविभाग-
स्तस्य शीलं स्वभावो यस्मिन्स संविभागशीलस्तद्भिन्नोऽ-
संविभागशीलस्तस्मिन् । यथोचितानर्पक इत्यर्थः ।
अन्यायोऽनी- तिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् । न्यायवर्जित इत्यर्थः । न विद्यते धर्मरुचिर्यस्य
सोऽधर्मरुचिस्तस्मिन् । सर्वथा पापकारि- णीत्यर्थः । न शास्त्रेण कामन्दक्यादिना व्यवहरतीत्येवंशी लोऽशा-
स्त्रव्यवः
हारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः । न शरणाय योग्यो- ऽशरण्यस्तस्मिन् । अत्रायक इत्यर्थः । न ब्रह्मनि
ष्ठोऽब्रह्मण्यस्तस्मि- न् । ब्राह्मणाहितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोऽकृ- पालुस्तस्मिन् । दयावर्जित
इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं स्निग्धत्वं यस्येत्यमित्रवत्सलस्तस्मिन् । वयस्यहितवर्जित इत्यर्थः ।
न वश्य
आत्मा यस्येति सोऽवश्यात्मा तस्मिन् । अनियन्त्रितात्मनी- त्यर्थः । अनिर्जितान्यवशीकृतानीन्द्रियाणि येन सोऽ-
निर्जितेन्द्रिय- स्तस्मिन् । अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्यसेवकस्तस्मिन् । सपर्यावर्जित इत्यर्थः । कस्मिः
मिन्राज्यं पदं दधातीत्याशयेनाह - यः खल्विति । खलु निश्चये । यः पुमान्समग्रैः सकलैर्गुणैः क्षान्त्यादिभि -
 
टिप्प० -

 
[^
1]F. नातिमृदुर्नातितीक्ष्णा च ।
[^
2]F. इयं प्रलापोक्तिः, तस्या असंपर्कात् । अपि तु समवृत्ति- त्वेऽपि
विषमतेति विरोध: ।
[^
3]F. 'दुष्पालम्' । इत्यस्याग्रे अविवेकिना टीकाकृता परित्यक्तः 'सर्वाशाप्राप्त्यैव' इत्यादिः
पाठो यः पाठान्तरेषु धृतोऽवश्यं दृश्यः ।
 
पाठा०-

 
[^
]G. दुर्धरम्.
[^
]G. कटक.
[^
]G. व्यापारेण.
[^
]G. दुःपालनम् ; दुष्पारम्; दुष्पाल्यम्.
[^
]G. सर्वांशाप्राप्त्यैव
दुष्प्रापम्, नामहासत्त्वे नास्थिरप्रकृतौ नादातरि नास्थूललक्ष्ये नाशुचौ नाविकाक्रान्ते नातिक्रान्ते.
[^
]G. अप्रज्ञे.
[^
नादु
 
]G. नापुरुषान्तरज्ञे.
[^
]G. अनियतेन्द्रिये.