This page has not been fully proofread.

[ कथायाम -
अपि च सम
 
उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्,
 
अहितसहस्रोद्धरणेनैवातिदुरुद्धरम्
 
9
 
,
 
वृत्तितयैवातिविषमम्, अनेकतीर्थकल्पनयैव दुरवतारम् केण्टकशोधनेनैव दुर्घहम्,
अखिलप्रजापालन व्यवहारेणैव दुःपालम्, नाविक्रान्ते नामहोत्साई नाप्रियवादिनि नासत्य-
संधे नाप्राज्ञे नाविवेकिनि नाकृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्म-
रुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्रवत्सले नावश्यात्मनि नानि-
जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्च-
५९०
 
कादम्बरी
 
प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहितानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्धर
दुःखेनोद्धर्तुं शक्यम् । पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । समाऽविषमा या वृत्तिर्वर्तनं तयै-
बातिविषमं कठिनम् । तस्याः कर्तुमशक्यत्वादिति भावः इयं विशेषोक्तिः । अनेकानि यानि तीर्थान्युपायास्तेषां
कल्पनं प्रयोगस्तेनैव दुःखेनावतीर्यंत इति दुरवतारम् । दुस्तरमित्यर्थः । 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायम-
त्रि' इति हलायुधः । 'तीर्थं योनौ जलावतारे च' इत्यमरः । अनेकजलावतरणेनैव नयादि सूत्तरं भवति । इदं
तु दुरुत्तरमिति विशेषोक्तिः । कण्टकाः खलास्तेषां शोधनेन दूरीकरणेन दुःर्ग्रहं दुःखेन ग्रहीतुं शक्यम् । अखिलाः
समग्रा याः प्रजा जनपदवासिनो लोकास्तासां पालनं रक्षणम् । एतदेव व्यवहारो व्यवसायस्तेनैव दुःपालं
दुःखेन पालयितुं योग्यं राज्यमेतादृशेषु पुरुषेषु पदं स्थानमादधाति करोतीत्यन्वयः । आङ्पूर्वस्य दधातेः
करणार्थत्वादित्यर्थः । 'पदं व्यवसितत्राण स्थानलक्ष्माङ्गिवस्तुषु' इत्यमरः । तानेवाह - नाविकान्त इत्यादि ।
विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रान्तस्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । महानु-
त्साहो विद्यते यस्मिन्स ोत्साहस्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्रियवादी
तद्भिन्नोऽप्रियवादी तस्मिन् । कटुकभाषिणीत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्संधास्था
भ्युपायः' इति हैमः । तसत्यसंधस्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्तद्भिन्नोऽप्राज्ञस्तस्मिन् ।
मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी तस्मिन् । सदसयत्यस्तकारिणी -
त्यर्थः । कृतं जानातीति कृतज्ञस्तोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहतिर्व्यवसायो
यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्यवहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग्विभजनं संविभाग-
स्तस्य शीलं स्वभावो यस्मिन्स संविभागशीलस्तद्भिन्नोऽसंविभागशीलस्तस्मिन् । यथोचितानर्पक इत्यर्थः ।
अन्यायोऽनीतिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् । न्यायवर्जित इत्यर्थः । न विद्यते धर्मरुचिर्यस्य
सोऽधर्मरुचिस्तस्मिन् । सर्वथा पापकारिणीत्यर्थः । न शास्त्रेण कामन्दक्यादिना व्यवहरतीत्येवंशी लोऽशास्त्रव्यवः
हारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः । न शरणाय योग्योऽशरण्यस्तस्मिन् । अत्रायक इत्यर्थः । न ब्रह्मनि
ष्ठोऽब्रह्मण्यस्तस्मिन् । ब्राह्मणाहितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोऽकृपालुस्तस्मिन् । दयावर्जित
इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं स्निग्धत्वं यस्येत्यमित्रवत्सलस्तस्मिन् । वयस्यहितवर्जित इत्यर्थः । न वश्य
आत्मा यस्येति सोऽवश्यात्मा तस्मिन् । अनियन्त्रितात्मनीत्यर्थः । अनिर्जितान्यवशीकृतानीन्द्रियाणि येन सोऽ-
निर्जितेन्द्रियस्तस्मिन् । अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्यसेवकस्तस्मिन् । सपर्यावर्जित इत्यर्थः । कस्मिः
न्राज्यं पदं दधातीत्याशयेनाह - यः खल्विति । खलु निश्चये । यः पुमान्समग्रैः सकलैर्गुणैः क्षान्त्यादिभि -
 
टिप्प० - 1 नातिमृदुर्नातितीक्ष्णा च । 2 इयं प्रलापोक्तिः, तस्या असंपर्कात् । अपि तु समवृत्तित्वेऽपि
विषमतेति विरोध: । 3 'दुष्पालम्' । इत्यस्याग्रे अविवेकिना टीकाकृता परित्यक्तः 'सर्वाशाप्रात्यैव' इत्यादिः
पाठो यः पाठान्तरेषु धृतोऽवश्यं दृश्यः ।
 
पाठा०-१ दुर्धरम्. २ कटक. ३ व्यापारेण. ४ दुःपालनम् ; दुष्पारम्; दुष्पाल्यम्. ५ सर्वांशाप्रात्यैव
दुष्प्रापम्, नामहासत्त्वे नास्थिरप्रकृतौ नादातरि नास्थूललक्ष्ये नाशुचौ नाविकान्ते नातिक्रान्ते. ६ अप्रज्ञे. ७ नादु
 
रुषान्तरज्ञे. ८ अनियतेन्द्रिये.