कादम्बरी /622
This page has not been fully proofread.
पितु: शिक्षा ]
उत्तरभागः ।
तत्र च 'देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा, प्रविश्य क्षोणी
तलनिवेशिंतशिरसा शयनवर्तिनो ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणत
मालोक्य किंचिदुन्नमितपूर्वकाय: शयनगत एवाहूय तं पिता चक्षुषा पिबन्निव, प्रेम्णा परि-
ध्वज्य गाढमिव सहसोद्गता विरैलबाष्परयपर्याकुलाक्षोऽन्तः क्षोभावेगक्षिप्ताक्षरमवादीत्-
'बत्स, पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या ।
विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्य-
भारस्त्वय्यारोपितो न तनयस्त्रेहादेव । राज्यं हि नामैतत्पृथ्वीभारेणैवातिदुरुब्रहम् मही-
भृत्संबाधतयैवातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम्, चतु:समुद्रव्याध्यैवाति-
महत्, महासाधनप्रसाध्यतयैवातिदुःसाध्यम्, अपर्यवसान कार्यतत्रजालेनैवातिगहनम्,
तत्र चेति । तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमान, गमनाय यात्रायै युषा चासौ राजा चेति
युवराजश्चन्द्रापीडो नमस्करोति प्रणमति । इति द्वाररक्षिणा द्वारपालेमावेदिते ज्ञापिते सति प्रविश्य प्रवेश
कृत्वा । अन्तर्वासभवनमित्यर्थः । क्षोण्याः पृथिव्यास्तल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमान
तेन करणभूतेन शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दूरस्थित एव विप्रकृष्टगत एव ननाम प्रण-
तवान् । अथेति । अथानन्तरं तथा प्रणतं पूर्वोत्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिंदीषदुन्नमित ऊवीं-
कृतः पूर्वकायः प्रथमशरीरभागो येन स शयनगत शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराजं पिता जनकंश्च-
क्षुषा नेत्रेण पिबन्निव । आदरेणावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्या-
लिङ्गय सहसा झटित्युद्गत उत्पन्नो योऽविरलो निबिडो बाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य
स तथा । अन्तश्चेतसि यः क्षोभस्तस्यावेगस्त्वरिः (त्वरा ) तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथावादी दब्रवीत् ।
तदाह -- वस्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोषेष्वपराधेषु संभावितो गणित इत्येषा भनागपि
किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या । विनयेति । विनयो
गुरूणामभ्युत्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परीक्षितोऽसि परीक्षा-
विषयीकृतोऽसि । परीक्ष्य चेति । परीक्ष्यां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगम्यः
प्रापणीयो राज्यभारस्त्वय्यारोपितः, न तनयस्नेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति ।
न पुत्रस्नेहादेवेति भावः । अथ राज्यस्वरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति
निश्चये । एतद्राज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैवातिदुरुद्वहं दुःखेनोद्वोढुं शक्यम् । तथा महीभृतां
राज्ञां संबाधतया संघट्टतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वका या नीती राजस्थितिस्तस्याः प्रचारे-
णैव प्रसरणेनैव अतिदुःसंचारं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्या-
ध्यैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महासैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यमतिदुःखेन साध-
यितुं शक्यम् । तथाऽपर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्ता समूहं तेनैवातिग-
हनमिति । 'निबिडं तन्त्रं स्वराष्ट्रचिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्वंयस्तत्र प्रतिष्ठित तयैव
टिप्प० - 1 विनयाधानं शिक्षादानं तत्प्रभृति तदारभ्य । 2 महीभृद्भिः पर्वतैः राजभिश्व संबाधतया
संकुलतया । 3 उत्तुङ्गा ये वंशाः वेणवः कुलानि च तेषु प्रतिष्ठिततया, इत्युभयार्थ स्वारस्यम् ।
पाठा० - १ निवेशित शिरा: २ गाढमप्रौढ. ३ उद्भूत. ४ बाष्पपर्याकुल, ५ क्षोभ विक्षिप्त ६ अहं दोषेऽपि;
अनर्हदोषेषु. ७ पृथिवी. ८ समुद्रपर्यन्तभुवनव्याध्यैव ९ दुःसाधनम्.