2024-01-14 11:23:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५८८
 
कादम्बरी ।
 
[ कथायान्-
म्यायन
न्पायनवियोगादुद्विग्नस्य गमनमेकाकिनस्ते समुत्प्रेक्ष्येति । [^१]न पुनर्वैशम्पायनवृत्तान्तादात्मन
एव [^२]दुःखिततयेति । न चैवंविध- या पीडया वैशम्पायनानयनाय गच्छतस्ते मेंमे गमनं विनि-
बा
वारयितुं पारयति वाणी । हृदयं पुनर्भेच्छत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां वि [^३]भाव्य
यथा पुरा स्थितं न तथा क्वचि [^४दासंगमाव- ध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य
कृते साञ्जलि- बन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारि-
तावनम्रमूर्तिश्चन्द्रापीडो [^५]व्यजिज्ञपत्- 'अम्ब, तदा दिग्विजय- प्रसङ्गा [^७]त्स्थितम् । [^८]अधुना पुनरयमेव कालक्षेपो यावत्त- मुद्देशं परापतामि। तत्पुनश्चिरागमकृता [^९]न भावनीया मनागपि हृदये [^१०]पीडां त्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्यो- [^११]द्बाष्पवेगान् कथं कथमपि संस्तभ्यात्मानं निर्वर्तितगमन- [^१२]मङ्गला, गलता प्रस्रवेण सिञ्चन्ती, शिरसि चोपाघ्राय [^१३]गाढं सुचिरमालिङ्ग्य, गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच [^१४]तं माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् ।
 
[ टि ]-- स्वस्यैव दुःखिततया पीडिततया पुनर्न मम हृदयपीडेत्यर्थः । एवंविधयैतादृश्या पीडया वैशम्पायमानयनाय गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं न वाणी वाक्पारयति समर्था भवति । हृदयं चेतः पुनस्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभि- लषत्येव तत्तस्माद्धेतोर्मे ममेदृशीं पीडां विभाव्य ज्ञात्वा यथा येन
प्रकारेण पुरा पूर्वं स्थितं विलम्बितं क्वचित्कस्मिंश्चित्स्थले संगमो मेलाप [^1]स्तस्यावधिर्मर्यादा आसंगमावधेरा संगमावधि इत्यव्य- यीभावः । अतिदीर्घकालमतिचिरकालमायुष्मता भवता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वोक्तस्यार्थस्य कृतस्य कृते सहाञ्ज- लिबन्धेन वर्तमानः
साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारितावनम्रमू-
तिंश्चन्द्रापीडो व्यजिज्ञपत्- 'अम्ब, तदा दिग्विंजयप्रसङ्गात्स्यैितम् । अधुना पुनरयमेव
कालक्षेपो यावत्तमुद्देशं परापतामि। तत्पुनश्चिरागमकृता ने भावनीया मनागपि हृदये पीडौं
स्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्योद्वाष्पवेगान् कथं कथमपि संस्तभ्यात्मानं निर्वर्ति-
तगमनमङ्गेला, गलता प्रस्रवेण सिञ्चन्ती, शिरसि चोपाघ्राय गाँढं सुचिरमालिङ्ग्य, गच्छ-
द्भिरिव प्राणैः कृच्छ्रान्मुमोच तं माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् ।
 
१४
 
स्वस्यैव दुःखिततया पीडिततया पुनर्न मम हृदयपीडेत्यर्थः । एवंविधयैतादृश्या पीडया वैशम्पायमानयनाथ
गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं न वाणी वाक्पारयति समर्था भवति । हृदयं चेतः पुनः
स्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभिलषत्येव तत्तस्माद्धेतोर्मे ममेदृशीं पीडां विभाव्य ज्ञात्वा यथा येन
प्रकारेण पुरा पूर्वं स्थितं विलम्बितं क्वचित्कस्मिंश्चित्स्थले संगमो मेलापस्तैस्यावधिर्मर्यादा आसंगमावधेरा संग-
मावधि इत्यव्ययीभावः । अतिदीर्घकालमतिचिरकालमायुष्मता भवता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वो-
क्तस्यार्थस्य कृतस्य कृते सहाञ्जलिबन्धेन वर्तमानः साञ्जलिबन्
धः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । तेनै-
वंभूतेन शिरसोत्तमाङ्गेन वत्सं सुतमभ्यर्थयेऽभियाचे इति पूर्वोक्तमादिशन्तीं कथयन्तीं स्वमातरं स्वजननीं सुदूरं

सुतरां दूरं प्रसारिताऽवनम्रावनामिता मूर्तिये॑येनैवंभूतश्चन्द्रापीडो व्यजिज्ञपद्विज्ञप्तिमकार्षीत् । तदेवाह - हे अम्ब
इति । हे मातः, तदा तस्मिन्काले दिशां विजय आत्मसात्करणं तस्य प्रसङ्गः संबन्ध- स्तस्मात्स्थितं विलम्बितम् ।
अधुना सांप्रतं पुनरयमेव कालक्षेपः समयविलम्बो यावद्यावता कालेन तमुद्देशं वैशम्पायनालंकृतप्रदेशं परा-
पतामि गच्छामि । तत्तस्माद्धेतोः पुनश्चिरेण बहुकालेनागमनं तेन कृता विहिता या पीडा सा मनागपि हृदये
चेतसि न भावनीया न विचारणीया । चन्द्रापीडेनेति विज्ञप्ता कथिता विलासवत्यु [^2] द्वाबाष्पैवेगानुदश्रुप्रवाहान्संनि-
रुध्यावष्टभ्य कथंकथमपि महता कष्टेना- त्मानं स्वं संस्तभ्य पतन्तं निवार्य, निर्र्तितं विहितं गमनमङ्गलं प्रया-

णश्रेयो ययैवंभूता । किं कुर्वती । गलता क्षरता प्रत्स्रवेण स्तनोद्गत- दुग्धेन सिञ्चन्ती सेचनं कुर्वन्ती । अनेन
स्नेहाधिक्यमाविष्कृतम् । शिरसि चोपाघ्राय सुचिरं बहुकालं गाढं दृढमालिङ्ग्यालिष्य माता विलासवती गच्छ-
द्भिर्निःसरद्भिः/ प्राणैरसुभिरिव कृच्छ्रात्कष्टात्तं चन्द्रापीडं मुमोच तव्त्याज । मुक्तश्च मात्रा जनन्या पितुस्तारापी-
डस्य प्रणतये नमस्कृतये वासभवनं निवासगृहमगमदगच्छत् ।
 
टिप्प० -

 
[^
1]F. 'भासङ्गमाबध्य दीर्घकालम्' इति पाठः । आसङ्गम् आसक्तिम् आबध्य आस्थाय दीर्घ-
कालं न स्थातव्यमिति तदर्थः ।
[^
2]F. 'संनिरुध्य बाष्पवेगान्' इत्येव पाठः ।
 
पाठा० -

 
[^
]G. अन्तः; उत; पुनः पुनः .
[^
]G. दुःखितयेति .
[^
]G. विज्ञाय.
[^
]G. आसंगमावध्यदीर्घकालम् .
[^
]G. व्यज्ञपयत्,
 
.
[^
]G. मातः; अहं च मात: .
[^
]G. स्थितोऽस्मि .
[^
]G. अयमेव मे; इयानेव मे.
[^
]G. मनागपि हृदये न भावनीया; मनागपि न
हृदये भावनीया.
[^
१०]G. अम्बया पीडा; त्वया पीडा.
[^
११]G. बाष्प.
[^
१२]G. मङ्गलप्रस्रवेण; मङ्गलाङ्कलताप्रस्रवेण.
[^
१३]G. गाढं
गाढम्.
[^
१४ तम्.
 
]G. तम्.