2024-01-29 08:34:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मखापनकालिकी मारुतिः ]
 
उत्तरभागः ।
 
५८७
 
मङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विली [^१]यमानेव बाष्पोत्पीडमपारयन्ती [^२]निवारय-
तुमव्त्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं मै[^३]मन्युरागावेगगद्गदि-

कोपरुण्यमानाक्षरमवादीत्-

[^४]
'ता, युज्यते हाह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथम-
मेवाडाङ्कादपैति । मम पुनर्नेदृशी प्रथमगम- नेऽपि ते पीडा समुत्पन्ना, यादृशी त गमने-
नाधुना । [^५]'दीर्यते इव मे हृदयम् । समुत्पाढ्ट्यन्त इव मर्माणि । उत्क्कथ्यत इव शरीरम् ।
[^६]उत्प्लवत इ चेतः विघटन्त इ संघिधिबन्धनानि । [^७]निर्या- र्यान्तीव प्राणाः । न किंचित्समाद-
उल्लवत
धाति धीः । सर्वमेव शून्यं पाश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् । घृधृतोऽपि
बलादागच्छति मे बाष्पोत्पीडो [^८]मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय [^९]ते चलति मतिः ।
न जानाम्येव किमुत्पश्यामीति । किंनिमित्तं चेयमीदृशी मे" हृदयपीडेत्येतदपि न बेझि ।
कि
वेद्मि । किं बहुभ्यो दिवसेभ्यः कथमध्प्यागतो [^१०]मे त्सो झटित्येष पुनर्गच्छतीति । किं वैश-
-
 
Stewart
 
-
 

 

 
[ टि ]--
सत्यां प्रस्थानमङ्गले सति गमनश्रेयसि सति, प्रणामाय नमस्कारायोपगतमागतं चन्द्रापीडं पीडया बाधयान्त-
र्विलीयमानेव विलयं प्राप्यमाणेवात्यायताभ्यामतिविस्तीर्णाभ्यामपि नेत्राभ्याम मङ्ग- लशङ्कयाऽश्रेयसारेकया कृतप्र-
यमा
यत्नमपि विहितोद्यमापि बाष्पोत्पीडमथु- मश्रुप्रवाहं निवारयितुं दूरीकर्तुमपारयन्त्यशकुक्नुवती एवंविधा बिविला-
सवती
तत्र स्थितत्वाद्वैशम्पायने मन्युः क्रोधो रागश्चन्द्रापीडे स्वाङ्ग- जत्वात् तयोरावेग आवेशस्तेन या गद्गदिका गद्गद-
ध्वनिस्तयो परु- ध्यमानान्युपरोधं प्राप्यमाणान्यक्षराणि यथा स्यात्तथेति क्रियाविशे- षणम् । अवादीदब्रवीत् ।
 
-
 

 
किमवादीदित्याशयेनाह - तातेति । हे तात हे पुत्र । हीति निश्चितम् । अङ्कलाविलितस्य क्रोडपालित स्थ
स्य गर्भरूपस्य भ्रूणस्वभावस्य प्रथम गमन आद्यप्रयाणे हृदयपीडा गरीयसी युज्यते विलोक्यते, यस्मिन्प्र- थममेवा-
ङ्कास्कोक्रोडादपैति गच्छति । मम विलासंवत्याः पुनस्ते तव प्रथमगमनेऽपि नेदृश्येतादृशी पीडा समुत्पन्ना संजाता,
यादृशी तव गमनेनाधुना सांप्रतं जायते । तदेव प्रदर्शयन्नाह — दीर्यत इति । मे मम हृदयं दीर्यत इव
विदीर्णं जायत इव । मर्माणि संधिस्थानानि समुत्पाट्यन्त इवोत्खन्यन्त इव । शरीरं देहमुत्क्कथ्यत इवोत्काल्यत

इव चेतो मम उत्प्लवत इवोल्त्प्लुत्योप्त्य गच्छतीव । संधिबन्धनानि विघटन्त इव भिद्यन्त इव । प्राणा निर्या-
न्तीव निःसरन्तीव । धीर्बुद्धि- र्न किंचित्समादधाति समाधानं करोति । सर्वमेव जगच्छून्यं रिक्तं पश्याम्यवलोक-
यामि । आत्मानमिव हृदयं स्वान्तं धारयितुं न पार- यामि न शक्नोमि । धृतोऽपि रक्षितोऽपि बलाद्धाठान्मे मम
बाष्पो- त्पीडोऽश्रुप्रवाहो मुहुर्मुहुर्वारं [^1]वारमा गच्छत्यायाति । ते तव मङ्गलसंपादनाय श्रेयःकरणाय समाहितापि
संस्थापितापि मति- श्चलति भ्रमति । इत्यहँ'हं न जानाम्येव नावकलयाम्येव - किमुत्प- श्यामि किमवलोकयामि । किंनिमित्तं
च किंकारणं चेयमीदृश्येता- दृशी मे मम हृदयपीडा चित्तार्तिरित्येतदप्यहं न वेद्मि न जानामि । किं बहुभ्यः
प्रचुरेभ्यो दिवसेभ्यः कथमपि महता कष्टेन मम वत्स आगत आयातो झटित्येव शीघ्रमेव पुनर्गच्छति व्रज-
तीति हेतोर्महती पीडा जायत इति सर्वत्रानुषङ्गः । किं वैशम्पायनस्य वियोगाद्विरहा- दुद्विग्नस्योद्वेगं प्राप्तस्यैका -
किनोऽसहायस्य ते तव गमनं प्रस्थानं समुत्प्रेक्ष्य विलोक्येति ।[^2] वैशम्पायनस्य वृत्तान्ताद्वैशम्पायनो- दन्तादात्मनः
 
टिप्प० -

 
[^
1] 'बलादागच्छति मे बाष्पोत्पीडो मुहुः । सुमुहुः समाहितापि मङ्गलसंपादनाय ०' इति
पाठः । मुहुः समाहितापि मतिश्चलति इति तदर्थः ।
[^
2]F. 'उत वैशम्पायनवृत्तान्ता०' इति पाठः । 'न
पुनः' इत्यस्य न युक्तत्वम् ।
 
पाठा० -

 
[^
]G. निलीयमान.
[^
]G. वारयितुम्; पातुम् .
[^
]G. मन्यूद्गमावेग; आवेग.
[^
]G. जातमात्रापि तेऽङ्कलालितस्य
गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा. यस्मिन्प्रथमेनाङ्कादर्पिते .
[^
]G. यतो दीर्यते .
[^
]G. उच्च्यवते.
[^
]G. उन्मध्यत इव
नः निर्यान्तीन, व.
[^
]G. मुहुः, हु.
[^
]G. चलति.
[^
१०]G. हृदय.
[^
११]G. बहुभ्यः.