2023-09-20 12:28:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शूद्रकसभाविसर्जनम् ]
 
पूर्वभागः ।
 
२९
 
चामरमाहिणीनां कमलमधुपोनम प [^१]पानमत्तजरत्कलहंसनाद [^२]जर्ज रितेन पदे पदे रणितमणीनां मणिनूपु-
राणां निनादेन, वारविलासिनीजनस्य संचरतो [^३]जघनस्थलास्फालन- रसितरत्नमालिकानां [^४]मणि-
मेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपान फलकानां

भवनदीर्घिका कलहंसकानां कोलाहलेन, रसनारसितो [^५]त्सु कितानां च तारतरविराविणामुल्लिख्य [^६]मानकांस्य-
ख्यमार्नकांस्य
क्रेङ्कारदीर्घेण गृहसारसानां कूजितेन, सरभसप्रचलितसामन्त- शतचरणतलाभिह-
तस्य चास्थानमण्डपस्य [^७]निर्घोषगम्भीरेण कम्पयतेव [^८]वसुमतीतीं ध्वनिना, [^९]प्रेतीहारिणां च पुरः [^१०]संसं-
भ्रमसमुत्सारितजै [^११]जनानां दण्डिनां समारब्धहेलमुच्चै [^१२]रुञ्च्चरता मौ[^१३]मालोकयन्त्विति तौ[^१४]तारतरदीर्घेण भ.
 
-
 
[ टि ]--
शिरस्तत्रावसक्तं न्यस्तं चामरं वालव्यजनं याभिरेतादृशीनां चामरग्राहिणीनां स्त्रीणाम् । संबन्धे षष्टी । तासां मणि-
खचितानि नूपुराणि पादकटकानि तेषाम् । अथ नूपुराणि विशेषयन्नाह - पदे पदे इति । पदे पदे प्रतिपदं
रणिताः शब्दायमाना मणयो वैडूर्यादयो येषु तानि तेषां निनादेन तदुद्भवशब्देन । तमेव विशेषयन्नाह --
कमलेति । कमलस्य नलिनस्य यन्मधु रसस्तस्य पानमास्वादस्तेन मत्ताः क्षीबा ये जरत्कलहंसाः कादम्बास्तेषां

नाद: शब्दस्तेन जर्जरितेन संभिन्नेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो
जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्षाणा रत्नमालिका
माणिस्रजो यात्रेस्वेवंविधानां मणिमेखलानां रत्नखचितकाञ्चीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन ।
पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धलि-
तेति । धवलितानि शुश्भ्रीकृतान्यास्थान- मण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि
यैरेवंविधानां भवनदीर्घिका गृहवाप्यस्तासां कलहंसा एव कलहंसकाः । स्वार्थे कः । तेषां कोलाहलेन कलकलेन ।

पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रोत्सुकता उत्कण्ठितास्तेषाम् । चः समुच्चये
तारतरोऽत्यन्तोच्चै- स्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन । शब्दिसेन ।
तेन । कीदृशेन । उल्लिख्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य केक्रेङ्कारोऽव्यक्तध्वनिस्तीतद्वद्दी- र्घेणायतेन । 'कूजितं स्याद्विह
ज्ञा
ङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः स्वदेश-
पर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैः पादतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निर्घो-
षोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्वनिना । तदुत्थशब्देनेत्यर्थः । किं कुर्वता । वसुमतीं पृथ्वीं कम्पयतेव क्षोभय-
तेव । पुनः केन । आलोकशब्देना लोक्यतामालोक्यतामित्येवंरूपेण । केषाम् । प्रतीहारिणां द्वारपालकानाम् । अर्
प्रतीहारिणो विशेषयन्नाह

- पुर इति । पुरोऽग्रे ससंभ्रममनुपलक्षितस्वरूपं समुत्सारिता दूरीकृता जना लोका यैस्ते
तथा तेषाम् । दण्डो विद्यते येषां ते दण्डिनस्तेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीक्रीडं यथा स्यात्तथा ।
उच्चै रित्यर्थः । उच्चरतां ब्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतरः शिरः [^2]समुद्भवः शब्दस्तेन दीर्घेणा-

 
टिप्प० -

 
 
[^
1]F. वसुमतीं कम्पयता हव निर्घोषगम्भीरेण निर्घोषेण प्रतिध्वनिना गंभीरेण आस्वाथानमण्ड
पस्य ध्वनिना शब्देनेति व्याख्योचिता । 'गम्भीरेण पुष्टध्वनिना, तदुत्थशब्देनेत्यर्थः' इति व्याख्या,
"ध्वनिना' इति विशेष्यरहितः पाठस्तु विचार्य एव विवेकिनाम् ।
[^
2]F. अत्युच्चैः शब्द इत्याशयः ।
 
पाठा० -

 
[^
]G. मदमत्त.
[^
]G. जर्जरेण.
[^
]G. जघनस्थलस्थला.
[^
]G. मेखलानाम्
[^
]G. उत्सुकानाम्
[^
]G. काञ्ची.
[^
]G. निर्घात;
निर्मा
निर्घातनिर्घोष
[^
]G. वसुमतीं ध्वनिना.
[^
]G. प्रतिहाराणाम्
[^
0]G. ससंभ्रमजनानाम्.
[^
११]G. जानपदानाम्
[^
१२]G. उच्चारयताम्.

[^
१३]G. आलोकयतेति.
[^
१४]G. तारदीर्घेण.