This page has not been fully proofread.

शूद्रकसभाविसर्जनम् ]
 
पूर्वभागः ।
 
२९
 
चामरमाहिणीनां कमलमधुपोनम तजरत्कलहंसनादजर्ज रितेन पदे पदे रणितमणीनां मणिनूपु-
राणां निनादेन, वारविलासिनीजनस्य संचरतो जघनस्थलास्फालनरसितरत्नमालिकानां मणि-
मेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपान फलकानां
भवनदीर्घिका कलहंसकानां कोलाहलेन, रसनारसितोत्सु कितानां च तारतरविराविणामुल्लि-
ख्यमार्नकांस्यक्रेङ्कारदीर्घेण गृहसारसानां कूजितेन, सरभसप्रचलितसामन्तशतचरणतलाभिह-
तस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयतेव वसुमती ध्वनिना, प्रेतीहारिणां च पुरः संसं-
भ्रमसमुत्सारितजैनानां दण्डिनां समारब्धहेलमुचैरुञ्चरता मौलोकयन्त्विति तौरतरदीर्घेण भ.
 
शिरस्तत्रावसक्तं न्यस्तं चामरं वालव्यजनं याभिरेतादृशीनां चामरग्राहिणीनां स्त्रीणाम् । संबन्धे षष्टी । तासां मणि-
खचितानि नूपुराणि पादकटकानि तेषाम् । अथ नूपुराणि विशेषयन्नाह - पदे पदे इति । पदे पदे प्रतिपदं
रणिताः शब्दायमाना मणयो वैडूर्यादयो येषु तानि तेषां निनादेन तदुद्भवशब्देन । तमेव विशेषयन्नाह --
कमलेति । कमलस्य नलिनस्य यन्मधु रसस्तस्य पानमास्वादस्तेन मत्ताः क्षीबा ये जरत्कलहंसाः कादम्बास्तेषां
नाद: शब्दस्तेन जर्जरितेन संभिन्नेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो
जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्षाणा रत्नमालिका
माणिस्रजो यात्रेवंविधानां मणिमेखलानां रत्नखचितकाञ्चीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन ।
पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धबलि-
तेति । धवलितानि शुश्रीकृतान्यास्थानमण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि
यैरेवंविधानां भवनदीर्घिका गृहवाप्यस्तासां कलहंसा एव कलहंसकाः । स्वार्थे कः । तेषां कोलाहलेन कलकलेन ।
पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रोत्सुकता उत्कण्ठितास्तेषाम् । चः समुच्चये ।
तारतरोऽत्यन्तोच्चैस्तरो विरावः शब्दो वियते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन । शब्दिसेन ।
कीदृशेन । उल्लिख्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य केङ्कारोऽव्यक्तध्वनिस्तीर्घेणायतेन । 'कूजितं स्याविह
ज्ञानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः स्वदेश-
पर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैः पादतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थल निर्घो-
षोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्वनिना । तदुत्थशब्देनेत्यर्थः । किं कुर्वता । वसुमतीं पृथ्वीं कम्पयतेव क्षोभय-
तेव । पुनः केन । आलोकशब्देना लोक्यतामालोक्यतामित्येवंरूपेण । केषाम् । प्रतीहारिणां द्वारपालकानाम् । अर्थ
प्रतीहारिणो विशेषयन्नाह
- पुर इति । पुरोऽग्रे ससंभ्रममनुपलक्षितस्वरूपं समुत्सारिता दूरीकृता जना लोका यैस्ते
तथा तेषाम् । दण्डो विद्यते येषां ते दण्डिनस्तेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीडं यथा स्यात्तथा ।
उच्चै रित्यर्थः । उच्चरतां ब्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतरः शिरः समुद्भवः शब्दस्तेन दीर्घेणा-

 
टिप्प० - 1 वसुमतीं कम्पयता हव निर्घोषगम्भीरेण निर्घोषेण प्रतिध्वनिना गंभीरेण आस्वानमण्ड
पस्य ध्वनिना शब्देनेति व्याख्योचिता । 'गम्भीरेण पुष्टध्वनिना, तदुत्थशब्देनेत्यर्थः' इति व्याख्या,
"ध्वनिना' इति विशेष्यरहितः पाठस्तु विचार्य एव विवेकिनाम् । 2 अत्युच्चैः शब्द इत्याशयः ।
 
पाठा० -१ मदमत्त. २ जर्जरेण. ३ जघनस्थलस्थला. ४ मेखलानाम् ५ उत्सुकानाम् ६ काची. ७ निर्घात;
निर्मातनिर्घोष ८ वसुमतीं ध्वनिना. ९ प्रतिहाराणाम् १० ससंभ्रमजनानाम्. ११ जानपदानाम् १२ उच्चारयताम्.
१३ आलोकयतेति. १४ तारदीर्घेण.