2024-02-01 04:29:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

हनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तैः 'साधु कृतम्' इति मुदितचेतास्तानभि [^१]ष्टुत्य दृष्टिविषयवर्तिनीमेव कादम्बरीं च वैशम्पायनं च मन्यमानः, [^२]अप्रविष्टायामेव पत्रलेखायां परापता- मी [^३]त्यग्रप्रधावितेनावधारयंश्चेतसा, चतुःसमुद्रसारभूतानिन्द्रायु-
धरयानुगामिनस्तुरंगमानगणेयानवगणिततुरंगमगमनखेदानुत्साहि-नो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनीं कथं- कथमध्यस्थात् ।
 
अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्त- मुपगतवति तेजसांपतौ, तेजःपतिपतनाच्चितानलमिव संध्याराग- मपराशया सह विशति पश्चिमे [^४]गगनभागे, संध्यानलस्फुलिङ्ग- निकर इव स्फुरति तारागणे, दिवसविरामान्मूर्च्छागमेनेव तमसा निमील्यमानेषु दिङ्मुखेषु, निवासाभिमुखमुखरेषु वियद्वियोगदुः- खादिव [^५]कृतान्तप्रलापेषु वयः समूहेषु, जनितप्रकाशं जन्मे- [^६]वालोक्य दोषागमं निरालोकं गर्भमिव तमः प्रविष्टे पुनर्जीवलो- के, निजालोकाद्विकाशितपूर्वदिग्वधूवदने जन्मान्तरागत इवोदय- गिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भगवति भूयोभूयः स्वका- न्तिनिर्भरान्निष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्याम्, [^७]प्रस्थान-
 
[ टि ]-- प्रस्थातव्यं चलितव्यम् । तैर्गणकै रित्यावेदित इति ज्ञापिते साधु कृतं शुभं विहितमिति मुदितचेताः प्रमुदितम-
नास्ताञ्ज्योति- र्विदोऽभिष्टुत्य स्तुतिं कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव कादम्बरीं वैशम्पायनं च मन्यमानो
ज्ञायमानोऽप्रविष्टाया मेवाप्राप्ता- यामेव पत्रलेखायामहं परापतामि गच्छामीत्यप्ग्रप्रधावितेन पुरस्ता- त्त्वरितगत्या
चलितेन चेतसा स्वान्तेनावधारयन्निश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनिधिषु सारभूतान्हृद्यभूतानिन्द्रायुधस्य रयो
वेगस्तस्यानुगा- मिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरङ्गमानश्वानगणितोऽवमानितस्तुरंग मेनाश्वेन गमनं चलनं
तस्मात्खेदो येयैस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतान्निरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोइन -
ऽनन्यकर्मा तं दिवसमेकां च यामिनीं कथंकथमपि महता कष्टे- नास्थात्तस्थौ ।,
 
अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समा- गमः संयोगस्तस्याप्राप्तिरलब्धि-
स्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसांपतौ श्रीसूर्येऽस्तमुपगतवति प्राप्तवति सति ।
तेजः पति पतपतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह - अपरा- शया पश्चिमया सह पश्चिमे गगनभागे चिंतानलमिव
चितावह्निमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फुलिङ्गा अग्निक- णास्तेषां निकरे समूह इव
तारागणे स्फुरति दीप्यमाने सति । दिवस स्य विरामादवसामानान्मूर्च्छागमेनेव मोहागमेनेव तमसान्धकारेण दिज्यु -
ङ्मुखेषु दिशाननेषु निमील्यमानेषु संकोच्यमानेषु । निवासस्या- भिमुखाः संमुखाश्च ते मुखरा वाचालाश्च तेषु वियत
आकाशस्य घिवि- योगस्तस्य यद्दुःखं तस्मादिव कृतो विहितोऽ [^1]न्तःप्रलापो विलापो यैरेवंभूतेषु वयःसमूहेषु पक्षिसं-
घातेषु । जनितो विहितः प्रकाश आलोको येनैवंभूतं जन्मेवालोक्य विलोक्य दोषागमनं त्रियामागमं निरालोकं
निःप्रकाशं गर्भमिव भ्रूणमिव तमः प्रविष्टे पुनर्जीवलोके विष्टपे सति । निजालोकात्स्वप्रकाशाद्विकाशितं प्रकाशितं
पूर्वदिगेव वधूस्तस्या वदनं येन स तस्मिञ्जम्मान्तरांगत इव भवान्तरागत इवोदय गिरिवर्तिन्युदयाचलस्थिते
भूयोभूयो वारं- वारं स्वकान्तिनिर्भ [^2]रात्स्वदीप्तिसंभारान्निष्कलङ्के इव नक्षत्र- नाथे चन्द्रे भगवति नक्षत्रसमाग-
मसुखं तारकामेलापक
सौख्य मनु- भवत्यनुभवविषयीकुर्वति सति । निशीथिम्यां त्रियामायां विस्पष्टायां प्रकटायां
 
टिप्प० -[^1]F. 'कृतार्तप्रलापेषु' कृतः आर्तिप्रलापो यैस्तेषु ।
[^
2]F. ग्रामीणष्टीकाकारः । कान्त्यतिशया
न्न निष्कलकत्वम् । अत एवं 'स्वकान्तिनिर्झरात्' इत्येव पाठः ।
 
पाठा०-[^]G. इति ताम्.
[^
]G. प्रविष्टायाम् .
[^
]G. अग्रतः .
[^
]G. दिग्गगनभागे.
[^
]G. आर्तप्रलापेषु.
[^
]G. समालोक्य.
[^७]G. प्रस्थानमङ्गल.

 
७ प्रस्थानमङ्गल,
 
: