This page has not been fully proofread.

५८६
 
कादम्बरी ।
 
[ कथायाम्-
हनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तैः 'साधु कृतम्' इति मुदितचेतास्तान भिष्टुत्य
विवादम्बरीं च वैशम्पायनं च मन्यमानः, अप्रैविष्टायामेव पत्रलेखायां
परापतामीत्यप्रप्रधावितेनावधारयंश्चेतसा चतुःसमुद्रसारभूतानिन्द्रायुधरयानुगामिनस्तुरंग-
मानगणेयानवगणिततुरंगमगमनखेदानुत्साहिनो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवस-
मेकां च यामिनीं कथंकथमध्यस्थात् ।
 
अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्तमुपगतवति तेजसांपतौ,
तेजः पतिपतनाश्चितानलमिव संध्यारागमपराशया सह विशति पश्चिमे गगनभागे, संध्यान-
लस्फुलिङ्गनिकर इव स्फुरति तारागणे, दिवसविरामान्मूर्च्छागमेनेव तमसा निमील्यमानेषु
दिङ्मुखेषु, निवासाभिमुखमुखरेषु वियद्वियोगदुःखादिव कृतान्तप्रलापेषु वयः समूहेषु, जनि-
तप्रकाशं जन्मेवालोक्य दोषागमं निरालोकं गर्भमिव तमः प्रविष्टे पुनर्जीवलो के, निजालोकाद्वि-
काशित पूर्व दिग्वधूवदने जन्मान्तरागत इवोदय गिरिवर्तिनि नक्षत्रसमागम
सुखमनुभवति भग-
वति भूयोभूयः स्वकान्तिनिर्भरान्निष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्याम्, प्रस्थान-
· प्रस्थातव्यं चलितव्यम् । तैर्गणकै रित्यावेदित इति ज्ञापिते साधु कृतं शुभं विहितमिति मुदितचेताः प्रमुदितम-
नास्ताञ्ज्योतिर्विदोऽभिष्टुत्य स्तुतिं कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव कादम्बरीं वैशम्पायनं च मन्यमानो
ज्ञायमानोऽप्रविष्टाया मेवाप्राप्तायामेव पत्रलेखायामहं परापतामि गच्छामीत्यप्रप्रधावितेन पुरस्तात्त्वरितगत्या
चलितेन चेतसा स्वान्तेनावधारयन्निश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनिधिषु सारभूतान्हृद्यभूतानिन्द्रायुधस्य रयो
वेगस्तस्यानुगामिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरङ्गमानश्वानगणितोऽवमानितस्तुरंग मेनाश्वेन गमनं चलनं
तस्मात्खेदो येस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतान्निरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोइन -
न्यकर्मा तं दिवसमेकां च यामिनीं कथंकथमपि महता कष्टेनास्थात्तस्थौ ।,
 
अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समागमः संयोगस्तस्याप्राप्तिरलब्धि-
स्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसांपतौ श्रीसूर्येऽस्तमुपगतवति प्राप्तवति सति ।
तेजः पति पतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह - अपराशया पश्चिमया सह पश्चिमे गगनभागे चिंतानलमिव
चितावह्निमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फुलिङ्गा अग्निकणास्तेषां निकरे समूह इव
तारागणे स्फुरति दीप्यमाने सति । दिवसस्य विरामादवसामान्मूर्च्छागमेनेव मोहागमेनेव तमसाइन्धकारेण दिज्यु -
खेषु दिशाननेषु निमील्यमानेषु संकोच्यमानेषु । निवासस्याभिमुखाः संमुखाश्च ते मुखरा वाचालाश्च तेषु वियत
आकाशस्य घियोगस्तस्य यद्दुःखं तस्मादिव कृतो विहितोऽन्तःप्रलापो विलापो यैरेवंभूतेषु वयःसमूहेषु पक्षिसं-
घातेषु । जनितो विहितः प्रकाश आलोको येनैवंभूतं जन्मेवालोक्य विलोक्य दोषागमनं त्रियामागमं निरालोकं
निःप्रकाशं गर्भमिव भ्रूणमिव तमः प्रविष्टे पुनर्जीवलोके विष्टपे सति । निजालोकात्स्वप्रकाशाद्विकाशितं प्रकाशितं
पूर्वदिगेव वधूस्तस्या वदनं येन स तस्मिञ्जम्मान्तरांगत इव भवान्तरागत इवोदय गिरिवर्तिन्युदयाचलस्थिते
भूयोभूयो वारंवार स्वकान्तिनिर्भरात्स्वदीप्तिसंभारान्निष्कल इव नक्षत्रनाथे चन्द्रे भगवति नक्षत्रसमाग-
मसुख तारकामेलापक
सौख्य मनु भवत्यनुभवविषयीकुर्वति सति । निशीथिम्यां त्रियामायां विस्पष्टायां प्रकटायां
 
टिप्प० -1 'कृतातप्रलापेषु' कृतः आर्तिप्रलापो यैस्तेषु । 2 ग्रामीणष्टीकाकारः । कान्त्यतिशयान
निष्कलकत्वम् । अत एवं 'स्वकान्तिनिर्झरात्' इत्येव पाठः ।
 
पाठा०-१ इति ताम्. २ प्रविष्टायाम् ३ अग्रतः ४ दिग्गगनभागे. ५ आर्तप्रलापेषु. ६ समालोक्य
 
७ प्रस्थानमङ्गल,
 
: