2024-02-01 04:48:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मातुरनुमतियाचनं यात्रासंविधानं च ] उत्तरभागः ।
 
५८५
 
चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृह- मगात् । तत्र नाप-
नीतसमायोगो गमनायोत्ताम्यता हृदये गणका- नाहूय रहस्याज्ञापितवान्
- 'यथा विना [^१]परि-
लम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते हाताताय वा दिनमावेद- नीयम्'
इति । एवमादिष्टास्ते [^२]व्यज्ञापयन्- 'देव, यथा सर्व एव ग्रहाः स्थिताः, तै[^३]तथा स्मन्मतेन
स्मन्मतेन देवस्य गमनमेव वर्तमानेन शस्य- ते । अपरमपि कर्मानुरोधाद्राजेच्छेछैव कालः । [^४]तत्रापि न
कार्य
कार्य- मेवाहर्निरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां [^५]चित्तवृत्तिः सैव वेला
सर्वकार्येषु' इति विज्ञापिते मौहूर्तिकैः पुनस्तानब्रवीत् - 'तातेनैवमादिष्टमिति ब्रवीमि । अन्यदा-
त्य
[^६]त्य- न्तिकेषु कार्येषु कार्यपराणां [^७]प्रतिक्षणोत्पादिषु च दिवसनिरू- पणैव कीदृशी । तत्तथा [^८]कथयि-
ध्
ष्यत यथा श्व एव मे गमनं भवे- त्' इति । 'देवः प्रमाणम्' इत्यभिधाय गतेषु च तेषु शरीर-
स्थितिकर- णायोदतिष्ठत् । निवे [^९]वर्तितशरीरस्थितिं च मौहूर्ति [^१०]कास्ते पुनः प्रविश्य शनैर्न्यवेदयन्-
कृतोऽस्माभिर्देवादेशः । सिद्धश्च तनय- विरविकुक्लवतया शुकनासस्य । तदतिक्रान्ते श्वस्तनेऽ-
-
 
-
 

 
[ टि ]--
चन्द्रापीडोsपि मातुर्जनन्याः समीपे गमनालापेनैव यात्रा- वार्तयैव क्षणमिव स्थित्वा गृहमगादगमत् । तत्र
तस्मिन्गृहेऽपनीतो दूरीकृतः [^1]समायोगः संबन्धो येनैवंभूतो गमनाय प्रस्थानाय हृदयेन स्वान्तेनोत्ताम्यतोत्त-
पता गणकाज्ज्योतिर्विद आह्हूयाकार्य रहस्ये- कान्त आज्ञापितवानाज्ञां दत्तवान् । किमाज्ञापितवा नित्याश- येनाह - यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भव- ति, तथा भवद्भिर्युष्माभिः पृच्छत आर्यशुकनासाय ताताय वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्विज्ञप्तिं चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह
-
यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भवति, तथा भवद्भिर्युष्माभिः पृच्छत आर्यशुक-
नासाय ताताय
- देव इति । हे देव हे स्वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्विज्ञप्तिं
चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह - देव इति । हे देव हे खासि
मिन्, यथा येन प्रकारेण सर्व एव
ग्रहः सूर्यादयो लग्ने स्थितास्तथा तेन प्रकारेणास्मन्मतेन देवस्य भगवतो गमनमेव प्रस्थानमेव वर्तमा
[^2]नेन कालेन शस्यते श्लाध्यते । मुहूर्ताभावेऽ पि गमनप्रकारं प्रदर्शयन्नाह – अपरमपीति । कर्मानुरोधात्कार्याग्र-

हाद्राज्ञो नृपस्येच्छेनछैव कालो मुहूर्तः । तत्रापीच्छामुहूर्तनिरूपणया शुभाशुभदिनगवेषणया न कार्यं न प्रयोजनम् ।
तत्र हेतुमाह - राजेति । राजा नृपः कालस्य मुहूर्तस्य कारणम् । यस्यामेव वेलायां समये चित्तवृत्तिर्मनः-
प्रवृत्तिः सर्वकार्येषु समग्रकृत्यकरणेषु सैव वेलाऽवसरः । मौहूर्तिकर्गणकैरिति विज्ञापिते विज्ञप्ते सति पुनर्द्धिवि- ती-
यवारं तान्गणकानब्रवीदकथयत् । तातेन पित्रैवं दिवसगवेषणा- दिकमादिष्टं कथितमिति हेतोरहं ब्रवीमि कथ-
यामि । अन्यदान्यस्मि- न्काल आत्यन्तिकेष्ववश्यकरणीयेषु तथा प्रतिक्षणं प्रतिसमयमुत्पा- दिषूत्पत्तिकरणशीलेषु
कार्येषु च कार्यपराणां कृत्यतत्पराणां दिवस निरूपणा दिनगवेषणैव कीदृशी । तत्तस्माद्धेतोस्तथा तेन प्रकारेण

यूयमित्यकर् [^3]थयिष्यत न्यवेदयिष्यत । यथा श्व एवागामिदिन एव मे मम गमनं चलनं भवेदिति । देवः प्रमाणं
यथा भवदनुशास- नमित्यभिधायेत्युक्त्वा तेषु गणकेषु गतेषु प्रयातेषु सत्सु च शरीर- स्थितिकरणाय देहव्यापार-
कृत उदतिष्ठदुत्थितो बभूव । [^4]नि- र्वर्तिता संपादिता शरीरस्थितिर्येनैवंभूतं तं पुनस्ते मौहूर्तिकाः प्रविश्य प्रवेशं
कृत्वा शनैर्मन्द॑दंमन्दं न्यवेदय [^5]न्विज्ञपयन् । अस्माभिर्ज्योतिर्विद्भिर्देवस्य भवत आदेशो निदेशः कृतो विहितः ।

तनयस्य वैशम्पायनस्य विरहो वियोगस्तेन विक्लवतया विह्वलतया- र्यशुकनासस्य च सिद्धो निष्पन्नः । ततस्तस्मा
द्धेतोरतिक्रान्ते व्यतीते श्वोभवः श्वस्तनस्तस्मिन्नहन्यागामिदिवसे रात्रौ निशायामितोऽस्मा- त्प्रदेशाद्देवेन भवता
 
टिप्प० -

 
[^
1]F  अपनीतसमायोगः उन्मुक्तपरिच्छदः ।
[^
2]F. 'वर्तमाने न शस्यते' वर्तमाने काले न शस्यते
इति पाठः ।
[^
3]F. 'कथयिष्यथ' इत्येव पाठः ।
[^
4]F. 'निर्वर्तिता' इति पाठः ।
[^
5]F. व्यज्ञपयन् ।
 

 
[^१]G
.
 
पाठा० - १
विलम्बन.
[^
]G. व्यज्ञपयन्.
[^
तस्मात् ]G. तस्मात्.
[^
तत्र न]G. तत्र न.
[^
]G. चित्तनिर्वृतिः .
[^
]G. आत्ययिकेषु .
[^
]G. प्रतीक्षण.

[^
]G. कथयथ; कथयिष्यथ .
[^
]G. निर्वर्तित .
[^
१०]G. ते प्रविश्य.
 

का० ७४