This page has not been fully proofread.

मातुरनुमतियाचनं यात्रासंविधानं च ] उत्तरभागः ।
 
५८५
 
चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृहमगात् । तत्र नाप-
नीतसमायोगो गमनायोत्ताम्यता हृदयेम गणकानाहूय रहस्याज्ञापितवान्
- 'यथा विना परि-
लम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते हाताय वा दिनमावेदनीयम्'
इति । एवमादिष्टास्ते व्यज्ञापयन्- 'देव, यथा सर्व एव ग्रहाः स्थिताः, तैथा स्मन्मतेन
देवस्य गमनमेव वर्तमानेन शस्यते । अपरमपि कर्मानुरोधाद्राजेच्छेव कालः । तत्रापि न
कार्य मेवाहर्निरूपणया । राजा कालस्य कारणम् । यस्यामेव वेलायां चित्तवृत्तिः सैव वेला
सर्वकार्येषु' इति विज्ञापिते मौहर्तिकैः पुनस्तानब्रवीत् - 'तातेनैवमादिष्टमिति ब्रवीमि । अन्यदा-
त्यन्तिकेषु कार्येषु कार्यपराणां प्रतिक्षणोत्पादिषु च दिवसनिरूपणैव कीदृशी । तत्तथा कथयि-
ध्यत यथा श्व एव मे गमनं भवेत्' इति । 'देवः प्रमाणम्' इत्यभिधाय गतेषु च तेषु शरीर-
स्थितिकरणायोदतिष्ठत् । निवेर्तितशरीरस्थितिं च मौहूर्तिकास्ते पुनः प्रविश्य शनैर्न्यवेदयन्-
कृतोऽस्माभिर्देवादेशः । सिद्धच तनयविरविकुवतया शुकनासस्य । तदतिक्रान्ते श्वस्तनेऽ-
-
 
-
 
चन्द्रापीडोsपि मातुर्जनन्याः समीपे गमनालापेनैव यात्रावार्तयैव क्षणमिव स्थित्वा गृहमगादगमत् । तत्र
तस्मिन्गृहेऽपनीतो दूरीकृतः समायोगः संबन्धो येनैवंभूतो गमनाय प्रस्थानाय हृदयेन वान्तेनोत्ताम्यतोत्त-
पता गणकाज्ज्योतिर्विद आह्याकार्य रहस्येकान्त आज्ञापितवानाज्ञां दत्तवान् । किमाज्ञापितवा नित्याशयेनाह
-
यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भवति, तथा भवद्भिर्युष्माभिः पृच्छत आर्यशुक-
नासाय ताताय वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्विज्ञप्तिं
चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह - देव इति । हे देव हे खासिन्, यथा येन प्रकारेण सर्व एव
ग्रहः सूर्यादयोलग्ने स्थितास्तथा तेन प्रकारेणास्मन्मतेन देवस्य भगवतो गमनमेव प्रस्थानमेव वर्तमान
कालेन शस्यते श्लाध्यते । मुहूर्ताभावेऽपि गमनप्रकारं प्रदर्शयन्नाह – अपरमपीति । कर्मानुरोधात्कार्याग्र-
हाद्राज्ञो नृपस्येच्छेन कालो मुहूर्तः । तत्रापीच्छामुहूर्तनिरूपणया शुभाशुभदिनगवेषणया न कार्यं न प्रयोजनम् ।
तत्र हेतुमाह - राजेति । राजा नृपः कालस्य मुहूर्तस्य कारणम् । यस्यामेव वेलायां समये चित्तवृत्तिर्मनः-
प्रवृत्तिः सर्वकार्येषु समग्रकृत्यकरणेषु सैव वेलाऽवसरः । मौहूर्तिकर्गणकैरिति विज्ञापिते विज्ञप्ते सति पुनर्द्धिती-
यवारं तान्गणकानब्रवीदकथयत् । तातेन पित्रैवं दिवसगवेषणादिकमादिष्टं कथितमिति हेतोरहं ब्रवीमि कथ-
यामि । अन्यदान्यस्मिन्काल आत्यन्तिकेष्ववश्यकरणीयेषु तथा प्रतिक्षणं प्रतिसमयमुत्पादिषूत्पत्तिकरणशीलेषु
कार्येषु च कार्यपराणां कृत्यतत्पराणां दिवसनिरूपणा दिनगवेषणैव कीदृशी । तत्तस्माद्धेतोस्तथा तेन प्रकारेण
यूयमित्यकर्थयिष्यत न्यवेदयिष्यत । यथा श्व एवागामिदिन एव मे मम गमनं चलनं भवेदिति । देवः प्रमाणं
यथा भवदनुशासनमित्यभिधायेत्युक्त्वा तेषु गणकेषु गतेषु प्रयातेषु सत्सु च शरीरस्थितिकरणाय देहव्यापार-
कृत उदतिष्ठदुत्थितो बभूव । निर्वर्तिता संपादिता शरीरस्थितिर्येनैवंभूतं तं पुनस्ते मौहूर्तिकाः प्रविश्य प्रवेशं
कृत्वा शनैर्मन्द॑मन्दं न्यवेदयविज्ञपयन् । अस्माभिर्ज्योतिर्विद्भिर्देवस्य भवत आदेशो निदेशः कृतो विहितः ।
तनयस्य वैशम्पायनस्य विरहो वियोगस्तेन विक्लवतया विह्वलतयार्यशुकनासस्य च सिद्धो निष्पन्नः । ततस्तस्मा
तोरतिक्रान्ते व्यतीते श्वोभवः श्वस्तनस्तस्मिन्नहन्यागामिदिवसे रात्रौ निशायामितोऽस्मात्प्रदेशाद्देवेन भवता
 
टिप्प० -1 अपनीतसमायोगः उन्मुक्तपरिच्छदः । 2 'वर्तमाने न शस्यते' वर्तमाने काले न शस्यते
इति पाठः । 3 'कथयिष्यथ' इत्येव पाठः । 4 'निर्वर्तिता' इति पाठः । 5 व्यज्ञपयन् ।
 
.
 
पाठा० - १ विलम्बन. २ व्यशपयन्. ३ तस्मात् ४ तत्र न. ५ चित्तनिर्वृतिः ६ आत्ययिकेषु ७ प्रतीक्षण.
८ कथयथ; कथयिष्यथ ९ निर्वर्तित १० ते प्रविश्य.
 
का० ७४