2024-02-01 05:12:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५८४
 
कोदम्बरी ।
 
[ कथायाम्-
मां समाश्वासयासे । कः खलु मे त्वयि तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि
कै
[^१]कठिनहृदया । त्वयि पुनर्गते [^२]च दयितस्यादर्शने जीवितप्रतिबन्धहेतुभूतं त्वद्दर्शनं तदपि
दूरीभवति । तन्न गन्तव्यम् । वैन् [^३]वत्, एकेनापि हि [^४]युवयोरावां [^५]पु- त्रवत्यौ द्वे अपि । नागतो
नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोर- मायां विलासवतीं धीरमुवाच - 'प्रियसखि, तव
मम चैवमेतद्यथा [^६]त्वया प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु ? तदा- स्ताम् ।
?
किमे [^७]तन्निवारयसि । वारितेनाध्प्यनेन नैव स्थातव्यम् । न्ये च पित्राप्ययमेतदेवाकलय्य गम-
नायानुमोदितः । तद्यातु । वर- मावाभ्यां [^८]कतिपय दिवसाननयोरण्प्यदर्शनकृतान्केक्ले [^९]शा- ननुभूतान्न
पुनरस्य [^१०]वैशम्पायनानवलोकन दुःखदीनं दिने दिने बदनमीक्षि [^११]तुम् । तदुत्तिष्ठ । गच्छावो
गमनसंविधानाय वत्स- स्य चन्द्रापीडस्य । [^१२]इत्येभिदत्येव मनोरमां हस्ते गृहीत्वोत्थाय

चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् ।
 
9
 

 
[ टि ]--
तरत्वलक्षणः । तदेव स्पष्टीकुर्वन्नाह - तदिति । तत्तस्माद्धे- तोरेकधैकवारं तमेकं वैशम्पायनं कठिन॑ [^1]नहृदया
न पश्यामि नावलोकयामि । त्वयि भवति पुनर्गते प्रस्थिते च दयि [^2]तस्य वैशम्पायनस्यादर्शनेऽनिरीक्षणे जीवि-
तस्य जीवनस्य प्रतिबन्धहेतु- भूतं गमनविघ्नभूतं त्वद्दर्शनं त्वदवलोकनं तदपि तत्र गतत्वेन दूरी- भवति । तन्नं
गन्तव्यम् । हे वत्स हे पुत्र, एकेनापि हि युवयोश्चन्द्रा- पीडवैशम्पायनयोरावां विलासवतीमनोरमे पुत्र-
वयो॑
वत्यौ द्वे अपि । नामे- ति कोमलामन्त्रणे । असौ वैशम्पायनो निष्ठुरात्मा निर्दयप्रकृतिर्ना- गतो नायातः । इत्युक्त
वत्यामिति भाषितवत्यां मनोरमायां वैशम्पा- यनजनन्यां सत्यां विलासवती चन्द्रापीडसवित्री धीरं यथा
स्यात्तथो- वाचाब्रवीत् - हे प्रियसखि, तव भवत्या मम विलासवत्या एवमेतत्त- थैवेदं यथा येन प्रकारेण
त्वया प्रोक्तम् । पुनरयं चन्द्रापीडो वैश- म्पायनेन विना कं पश्यत्ववलोकयतु । तत्तस्माद्धेतोरास्तां तिष्ठतु ।

किमेतद्गमनं निवारयसि निवारणं करोषि । वारितेनाप्यनेन चन्द्रा- पीडेन नैव स्थातव्यम् । नैवात्र स्थेय -
मित्यर्थः । मन्ये इति । अहं मन्ये जानामि । एतदेव पूर्वोक्त मेवाकलय्याकलनां कृत्वायं चन्द्रा- पीडो गमनाय
यात्रायै अनुमोदितोऽभ्यनुज्ञातः । तत्तस्मात्कारणा- द्यातु व्रजतु । आवाभ्यां मनोरमाविलासवतीभ्यां कतिपय -
दिवसा- न्यावत् । अनयोरपि चन्द्रापीडवैशम्पायनयोरप्यदर्शन कृतानवलोकन - कनजनिता [^3]ननुभूताननुभवविषयीकृता-
न्क्लेशान्विषादान्वरं शुभम्, परं वैशम्पायनस्यानवलोकनमनिरीक्षणं तस्माद्यद्दुःखं कृच्छ्रं तेन दीनं सकरुणमस्य
चन्द्रापीडस्य दिने दिने वदनमान- नमीक्षितुं न पुनर्वरं शुभम् । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । वत्सस्य
चन्द्रापीडस्य गमनसंविधानाय प्रस्थानसामग्र्यै आवां गच्छावो व्रजाव इत्यभिदधती कथयन्त्येव मनोरमा हस्ते
पाणौ गृहीत्वादायोत्थाम्रोयोत्थानं कृत्वा चन्द्रापीडेनानुगम्यमानानुयायमाना निजावासं स्वभवनमयासीदगात् ।
 

 
-
 
टिप्प० -

 
[^
1]F. 'कठिनहृदयम्' इत्येव पाठः । तस्मिन् गते, तं कठिनहृदयम् ( भाक्रोशः, यो हि निःस्त्रेनेहत-
या स्थितः ) एकं न पश्यामि ।
[^
2]F. अविचाररमणीयोयं पाठः । न हि पुत्रस्यार्थे विशेष्यरूपेण दयितप्रयोगः
स्वारसिकः । तस्मात् - 'यदपि तस्यादर्शने जीवित- प्रतिबन्धभूतम्' इत्येव पाठः । अर्थस्तु टीकातो ज्ञायेतैव ।

[^
3]F.' आवाभ्याम् अनुभूतान् केक्लेशान् वरम्' इति पाठो लोकोत्तर- बुद्धिगम्यः । अत एव 'वरमावाभ्यां कतिपयदि-
वसाननयोरप्यदर्शन- कृताः क्लेशा अनुभूताः, न पुनरस्य वैशम्पायनाऽनवलोकनदुःख- दीनं दिने दिने मुखमी -
क्षितम्' इत्ये पाठः । कतिपयदिवसान् यावत् आवाभ्यामनुभूताः अनयोः अदर्शनकृताः क्लेशा अपि वरम्,

वैशम्पायनानवलोकन दुःखेन दीनं दिने दिने अस्य (चन्द्रापीडस्य) मुखम् ईक्षितं न पुनर्वरम्, इति तदर्थः ।
 
पाठा० -

 
[^
]G. कठिनहृदयम्.
[^२]G.
यदपि तस्यादर्शने .
[^
]G. वत्सेन.
[^
]G. पुत्रेण .
[^
]G. द्वे पुत्रवत्यौ .
[^
]G. त्वयोक्तम् .
[^
]G. एवं
निवारयसि; एनं वारयसि.
[^
]G. कतिपयात् .
[^
]G. कृताननुभूतान्; कृताः क्लेशा अनुभुताः, .
[^
१०]G. वैशम्पायनाननावलोकन.

[^
११]G. ईक्षितम्.
[^
१२]G. इत्येवं.