This page has not been fully proofread.

५८४
 
कोदम्बरी ।
 
[ कथायाम्-
मां समाश्वासयासे । कः खलु मे त्वयि तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि
कैठिनहृदया । त्वयि पुनर्गते च दयितस्यादर्शने जीवितप्रतिबन्धहेतुभूतं त्वद्दर्शनं तदपि
दूरीभवति । तन्न गन्तव्यम् । वैन्स, एकेनापि हि युवयोरावां पुत्रवत्यौ द्वे अपि । नागतो
नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोरमायां विलासवतीं धीरमुवाच - 'प्रियसखि, तव
मम चैवमेतद्यथा या प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु ? तदास्ताम् ।
?
किमेतन्निवारयसि । वारितेनाध्यनेन नैव स्थातव्यम् । सन्ये च पित्राप्ययमेतदेवाकलय्य गम-
नायानुमोदितः । तद्यातु । वरमावाभ्यां कतिपय दिवसाननयोरण्यदर्शनकृतान्केशाननुभूतान्न
पुनरस्य वैशम्पायनानवलोकन दुःखदीनं दिने दिने बदनमीक्षितुम् । तदुत्तिष्ठ । गच्छावो
गमनसंविधानाय वत्सस्य चन्द्रापीडस्य । इत्येभिदत्येव मनोरमां हस्ते गृहीत्वोत्थाय
चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् ।
 
9
 
तरत्वलक्षणः । तदेव स्पष्टीकुर्वन्नाह - तदिति । तत्तस्माद्धेतोरेकधैकवार तमेकं वैशम्पायनं कठिन॑हृदया
न पश्यामि नावलोकयामि । त्वयि भवति पुनर्गते प्रस्थिते च दयितस्य वैशम्पायनस्यादर्शनेऽनिरीक्षणे जीवि-
तस्य जीवनस्य प्रतिबन्धहेतुभूतं गमनविघ्नभूतं त्वदर्शनं त्वदवलोकनं तदपि तत्र गतत्वेन दूरीभवति । तन्नं
गन्तव्यम् । हे वत्स हे पुत्र, एकेनापि हि युवयोश्चन्द्रापीडवैशम्पायनयोरावां विलासवतीमनोरमे पुत्र-
वयो॑ द्वे अपि । नामेति कोमलामन्त्रणे । असौ वैशम्पायनो निष्ठुरात्मा निर्दयप्रकृतिर्नागतो नायातः । इत्युक्त
वत्यामिति भाषितवत्यां मनोरमायां वैशम्पायनजनन्यां सत्यां विलासवती चन्द्रापीडसवित्री धीरं यथा
स्यात्तथोवाचाब्रवीत् - हे प्रियसखि, तव भवत्या मम विलासवत्या एवमेतत्तथैवेदं यथा येन प्रकारेण
त्वया प्रोक्तम् । पुनरयं चन्द्रापीडो वैशम्पायनेन विना कं पश्यत्ववलोकयतु । तत्तस्माद्धेतोरास्तां तिष्ठतु ।
किमेतद्गमनं निवारयसि निवारणं करोषि । वारितेनाप्यनेन चन्द्रापीडेन नैव स्थातव्यम् । नैवात्र स्थेय -
मित्यर्थः । मन्ये इति । अहं मन्ये जानामि । एतदेव पूर्वोक्त मेवाकलय्याकलनां कृत्वायं चन्द्रापीडो गमनाय
यात्रायै अनुमोदितोऽभ्यनुज्ञातः । तत्तस्मात्कारणाद्यातु व्रजतु । आवाभ्यां मनोरमाविलासवतीभ्यां कतिपय -
दिवसान्यावत् । अनयोरपि चन्द्रापीडवैशम्पायनयोरप्यदर्शन कृतानवलोकन जनिताननुभूताननुभवविषयीकृता-
न्क्लेशान्विषादान्वरं शुभम् परं वैशम्पायनस्यानवलोकनमनिरीक्षणं तस्माद्यद्दुःखं कृच्छ्रं तेन दीनं सकरुणमस्य
चन्द्रापीडस्य दिने दिने वदनमाननमीक्षितुं न पुनर्वरं शुभम् । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । वत्सस्य
चन्द्रापीडस्य गमनसंविधानाय प्रस्थानसामग्यै आवां गच्छावो व्रजाव इत्यभिदधती कथयन्त्येव मनोरमा हस्ते
पाणौ गृहीत्वादायोत्थाम्रोत्थानं कृत्वा चन्द्रापीडेनानुगम्यमानानुयायमाना निजावासं स्वभवनमयासीदगात् ।
 

 
-
 
टिप्प० - 1 'कठिनहृदयम्' इत्येव पाठः । तस्मिन् गते, तं कठिनहृदयम् ( भाक्रोशः, यो हि निःस्त्रेहत-
या स्थितः ) एकं न पश्यामि । 2 अविचाररमणीयोयं पाठः । न हि पुत्रस्यार्थे विशेष्यरूपेण दयितप्रयोगः
स्वारसिकः । तस्मात् - 'यदपि तस्यादर्शने जीवितप्रतिबन्धभूतम्' इत्येव पाठः । अर्थस्तु टीकातो ज्ञायेतैव ।
3' आवाभ्याम् अनुभूतान् केशान् वरम्' इति पाठो लोकोत्तरबुद्धिगम्यः । अत एव 'वरमावाभ्यां कतिपयदि-
वसाननयोरप्यदर्शनकृताः क्लेशा अनुभूताः, न पुनरस्य वैशम्पायनाऽनवलोकनदुःखदीनं दिने दिने मुखमी -
क्षितम्' इत्येष पाठः । कतिपयदिवसान् यावत् आवाभ्यामनुभूताः अनयोः अदर्शनकृताः क्लेशा अपि वरम्,
वैशम्पायनानवलोकन दुःखेन दीनं दिने दिने अस्य (चन्द्रापीडस्य) मुखम् ईक्षितं न पुनर्वरम्, इति तदर्थः ।
 
पाठा० -१ कठिनहृदयम् यदपि तस्यादर्शने ३ वत्सेन. ४ पुत्रेण ५ द्वे पुत्रवत्यौ ६ त्वयोक्तम् ७ एवं
निवारयसि; एनं वारयसि. ८ कतिपयात् ९ कृताननुभूतान्; कृताः क्लेशा अनुभुताः, १० वैशम्पायनाननावलोकन.
११ ईक्षितम्. १२ इत्येवं.