2024-02-05 06:13:30 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तारापीडस्याऽऽज्ञापनम्
 
]
 
उत्तरभागः ।
 
५८३
 
म्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यसेवेत्येवै- नमिति निश्चयो मे ।
तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्ग- णकै;: सहादरादार्यो दिवसं लग्नं च गमनायास्य
निरूपयतु, संविधानं च कारयतु' इत्येतदभिधाय शुकनासमुद्रा [^१]द्बाष्पलोचनश्चिरमिवें- [^२]व चन्द्रापीड-
मालोक्याहूय च विनयावनम्रमंसदेशे शिरसि बाह्रोवोश्च पाणिना स्पृशन्नाविशत्- 'वत्स, गच्छ
त्वमेव प्रविश्याभ्यन्तरं मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् ।' इत्यादिश्य चन्द्रा-
पीडमात्मना शुकनासमादाय स्वभवनमयासीत् ।
 

 
चन्द्रापीडस्तु तामक्लिष्टिवर्णा कादम्बरीसंवरणस्रजमिव गमनाभ्य- नुज्ञां हृदयेनोद्वहन्त्प्रहृष्टा-
न्तरात्माप्यपहर्षदृष्टिः प्रविश्य कृतनमस्कारो मातुः समीपे समुपविश्यात्मदर्शन द्विगुणीभूत-
वैशम्पायनविरहशोक- विह्वलां मनोरमामाश्वास्यावादीत् - 'अम्ब, समाश्वसिहि । वैशम्पायना-
- नानयनाय तातेन मे गमनमादिष्टम् । तत्कतिपयदिवसान्तरितं वैश- म्पायनाननदर्शनोत्सवम-
विकल्पं त्वं मामेव विसर्जय' । सा त्वेवम- भिहिता प्रत्युवाच - 'तात, किमात्मगमनवचसा
-
 

 
[ टि ]--
यनेति । वैशम्पायनं प्रत्यानयनाय चानेतुं विलासवती देव्यप्येनं चन्द्रापीडं विसर्जयिष्यत्येव प्रेषयिष्यत्ये
वेति मे मम निश्च- यो निर्णयोऽस्ति । तद्यातु गच्छतु । किंतु वत्सेन मत्सुतेनातिदूरम- तिदविष्ठं गन्तव्यं
यातव्यम् । तत्तस्माद्धेतोर्गणकैर्ज्योतिर्विद्भिः सहा- दरादार्यो भवानस्य चन्द्रापीडस्य गमनाय दिवसं दिनं लग्नं च
मेषा- दिकं निरूपयतु विचारयतु । च पुनरर्थे । संविधानं गमनसामग्रीं च कारयतु विधापयतु । इत्येतत्पूर्वोक्तं
शुकनासमभिधायोक्त्वा उदू- र्ध्वं बाप्ष्पो हर्षाश्रु ययोरेतादृशे लोचने यस्यैवंभूतस्तापीडश्चिरमिव चन्द्र पीडमा-
लोक्य निरीक्ष्याहूय चाहाह्वानं कृत्वा च विनयेनावनम्रमव- नतं चन्द्रापीडमंसदेशे स्कन्धदेशे शिरस्युत्तमाङ्गे
बाह्वोर्भुजयोश्च पाणिना हस्तेन स्पृशन्स्पर्शं कुर्वन्नादिशत् । हे वत्स, गच्छ व्रज त्व- मेव, मनोरमासहिताया मातु
[^1]र्विलासवत्या अभ्यन्तरम् । गृह- स्येति शेषः । प्रविश्य प्रवेशं कृत्वात्मगमनवृत्तान्तमावेदय ज्ञापय । इति चन्द्रा-
पीडमादिश्येत्याज्ञां दत्त्वात्मना स्वयं शुकनासमादाय गृहीत्वा स्वभवनं स्वगृहमयासीदगच्छत् ।
 

 
चन्द्रापीडस्त्वक्लिष्टः शोभनो वर्णो रक्तपीतादिरक्षरं वा यस्यामेवं- विधां कादम्बर्याः संवरणमङ्गीकरणं तस्य
स्रजमिव मालामिव तां गमनाभ्यनुज्ञां यांयात्रानिर्देशं हृदयेन चेतसोद्वहन्धारयन्प्रहृष्टः प्रमुदि- तोऽन्तरात्मा
यस्यैवंभूतोऽप्यपगतो हर्षो यस्या एतादृशी दृष्टिर्यस्यै- वंविधः प्रविश्य प्रवेशं कृत्वा कृतनमस्कारो विहितप्रणामो
मातु- र्जनन्याः समीपे यथोचितप्रदेशे समुपविश्योपवेशनं कृत्वात्मनः खरस्वस्य दर्शनेनावलोकनेन द्विगुणीभूतो
द्विगुणतां प्राप्तो वैशम्पायन- स्य विरहः शोकस्तेन विह्वलां व्याकुलामेवंभूतां मनोरमामाश्वास्या-
श्वासनां कृत्वावादी -
दवोचत् । किमुवाचेत्याह - हे अम्ब हे मातः, समाश्वसियाश्वासनां कुरु । यतो वैशम्पायनस्यानयनं तदर्
थं तातेन पित्रा मे मम गमनं यानमादिष्टं कथितम् । तत्तस्माद्धेतोः कतिपये च ये दिवसा वासरा स्तस्तैरन्तरितं
व्यवहितं वैशम्पायनस्याननदर्शनं वक्त्रनिरीक्षणं तत्रोत्सवमुत्सवभूतम विकल्पं कल्पनारहितं मामेवँ- [^2]व त्वं विस-
र्जय गमनाज्ञां देहि । साविति । सा मनोरमैवममुना प्रकारेणाभिहिता प्रोक्ता सती प्रत्युवाच प्रत्यब्रवीत् ।
किमुवाचे- त्याह – तातेति । हे तात हे पुत्र, आत्मगमनानवचसा स्वप्रयाणवाक्येन किं मां समाश्वास -
यसि समाश्वासनां करोषि । मे मम । खल्विति निश्चये । त्वयि भवति तस्मिंश्च वैशम्पायने को विशेषस्तदि-
टिप्प० -

 
[^
1]F. सोयं स्थूलबुद्धेर्विलासः । अभ्यन्तरम् ( प्रासादस्य ) प्रविश्य, आत्मवृत्तान्तं मातुरा-
वै
वेदय इत्येव ग्रन्थाशयः ।
[^
2]F. 'मामेव' इति निरर्थकप्रायम् । अत एव "'0त्सवं मामविकल्पं विसर्जय'
इत्येव पाठो मनोरमः ।
 
पाठा०—

 
[^
]G. उद्वाष्पलोचनम् .
[^
]G. इह .
[^
]G. उत्सुकं मामविकल्पं विसर्जय त्वम्.