कादम्बरी /615
This page has been fully proofread once and needs a second look.
वा विना वैशम्पायनेन ? [^१]यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽ- स्मि, [^२]तन्मा तेनैव तुल्योऽभूवमिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्या: ।
इत्यभिहितवति [^३]चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्तामरसानु- कारिणि मुखे मपक्षपातां [^४]षट्पदावलीमिव दृष्टिं [^५]निवेश्य ' एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् ।
तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीड: प्रत्यवादीत् - 'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्ज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति, यावदयमपरोऽन्तर्हिता- शापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो [^६]विलो- मप्रकृतिना विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च तेन विनायमत्रस्थातुम् । तदवश्य- मेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश-
[ टि ]-- प्रबुद्धं जागरितम्, उच्छ्वसितं श्वसितं वा । यञ्च्चेति । यद्वैश- म्पायनवृत्तान्तं श्रुत्वाकर्ण्य तस्मादेव प्रदेशात्तद्-
वृतान्तश्रवणस्थलादे- वाहं न गतोऽस्मि । तदहं मा तेनैव वैशम्पायनेन तुल्यः सदृशोऽभूवं भवेयमिति । गुरोर्निदेश-
व्यतिरेकेण तदवस्थाने मद्गमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोर प्रतिगमनदोषात्तत्पृष्ठिप्रधावना-
- वनाभावदूषणादौ [^1]दार्या मां रक्षन्तु ।
इत्यभिहितयतीत्युक्तवति चन्द्रापीडेऽन्तः पीडान्तर्व्याधिस्तस्या उपराग उपप्लवस्तेन रक्ते लोहितेऽत एव
रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवंविधे मुख आनने [^2]सह पक्ष- पातेन वाजपातेन तदङ्गीकारेण
वा वर्तते या सा सपक्षपाता तामे- तादृशीं षट्पदावलीमिव भ्रमरपङ्क्षितिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैवं पूर्वोक्त-
प्रकारेण गमनाय गात्रायेंयात्रायै युवराजश्चन्द्रापीडो विज्ञापयति विज्ञप्तिं करोति । देवो भवान्किगामाज्ञापयति किमाज्ञां
दत्त इति शनैः शनैर्मन्दमन्दं शुकनासो राजानं तारापीडगप्राक्षीदपृ- च्छत् ।
शुभ कनासेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्यात्वा विमृश्य तारापीड : प्रत्यवादीत्प्रत्यब्रवीत् ।
किमब्रवीदित्याशयेनाह—— आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमबुद्धम् । इतिद्योत्यमाह-
एते ष्विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यून बिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव
कराव [^3]व लम्बिनीं हस्तावलम्बिनीं वत्सस्य पुत्रस्य । चन्द्रापीडस्येत्यर्थः । वधूं सुस्नुषां द्रक्ष्याम्यवलोकयामि । तावद-
यमपरो भिन्नोऽन्तर्हितस्तिरोहित आशा वान्ञ्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय
इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण
विधात्रा विधि- नान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह -- यथेति । यथा येन प्रकारेण
चायुष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति - नेति । तं वैशम्पायनोऽन्य आने-
तुमानयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रा- पीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति ।
तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्तरितव्यो
निस्तारं प्रापयितव्यः । तथव प्रसूरपि गमन- प्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह – वैशम्पा-
टिप्प० –
[^1]F. 'रक्षतु मामार्य:' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्व- मपि 'अवधारयत्वार्यः
' इत्यादि प्रोक्तम् ।
[^2]F. 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन ( वर्षणेन ) सहि-
ताम् मेघावलीमिव, स्रवदश्रुजलामिति यावत् ।
[^3]F. करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते
आपा- तिनी ( कृतपाणिग्रहणा ) वधूः ।
पाठा -[^१]G. यश्च ० .
[^२]G. तस्मात्.
[^३]G. चन्द्रापीडेऽन्तः पीडोपरागरक्ततामरसानुकारिणि,; चन्द्रा- पीडेsऽपि रागरक्ते रक्तता-
मरसानुकारिणि, .
[^४]G. षट्पदालीम्; अम्बुदावलीम्.
[^५]G. एव, .
[^६]G. मे दुष्कृतिना,
.
इत्यभिहितवति [^३]चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्तामरसानु- कारिणि मुखे मपक्षपातां [^४]षट्पदावलीमिव दृष्टिं [^५]निवेश्य ' एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् ।
तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीड: प्रत्यवादीत् - 'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्ज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति, यावदयमपरोऽन्तर्हिता- शापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो [^६]विलो- मप्रकृतिना विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च तेन विनायमत्रस्थातुम् । तदवश्य- मेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश-
[ टि ]-- प्रबुद्धं जागरितम्, उच्छ्वसितं श्वसितं वा । य
इत्यभिहितयतीत्युक्तवति चन्द्रापीडेऽन्तः
दत्त इति शनैः
शु
[^1]F. 'रक्षतु मामार्य:' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्व- मपि 'अवधारयत्वार्यः
[^2]F. 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन ( वर्षणेन ) सहि
[^3]F. करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते
[^२]G. तस्मात्.
[^३]G. चन्द्रापीडेऽन्तः
[^४]G. षट्पदालीम्; अम्बुदावलीम्.
[^५]G. एव
[^६]G. मे दुष्कृतिना