2024-02-05 06:33:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५८२
 
कादम्बरी ।
 
[ कथायाम्-
वा विना वैशम्पायनेन ? ये[^१]यच्धुश्रुत्वा तस्मादेव प्रदेशान्न गतोऽ- स्मि, तम्[^२]तन्मा तेनैव तुल्योऽभूव-
मिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्या: ।
 

 
इत्यभिहितवति [^३]चन्द्रापीडेऽन्तः पीडोपरागरके रकक्ते रक्तामरसानु- कारिणि मुखे मपक्षपातां
[^४]षट्पदावलीमिव दृष्टिं [^५]निवेश्य ' एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः'
इति शनैः शनैः शुकनासो राजानमप्राक्षीत् ।
 
23
 

 
तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीड : प्रत्यवादीत् - 'आर्य, मया ज्ञात-
मेतेष्वेव दिवसेषु संपूर्ण मण्डलस्येन्दोर्ज्योत्स्नामिव करावलम्बिनीं वत्सस्य वधूं द्रक्ष्यामीति,
यावदयमपरोऽन्तर्हिता- शापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो [^६]विलो- मप्रकृतिना
विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च
तेन विनायमत्र स्थातुम् । तदवश्य- मेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश-

प्रबुद्धं जागरितम्, उच्छ्वसितं श्वसितं वा । यञ्चेति । यद्वैशम्पायनवृत्तान्तं श्रुत्वाकर्ण्य तस्मादेव प्रदेशात्तद्-

तान्तश्रवणस्थलादेवाहं न गतोऽस्मि । तदहं मा तेनैव वैशम्पायनेन तुल्यः सदृशोऽभूवं भवेयमिति । गुरोर्निदेश-

व्यतिरेकेण तदवस्थाने मगमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोर प्रतिगमनदोषात्तत्पृष्ठिप्रधावना-

भावदूषणादौर्या मां रक्षन्तु ।
 

 
इत्यभिहितयतीत्युक्तवति चन्द्रापीडेऽन्तः पीडान्तर्व्याधिस्तस्या उपराग उपलवस्तेन रक्ते लोहितेऽत एव

रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवंविधे मुख आनने सह पक्षपातेन वाजपातेन तदङ्गीकारेण

वा वर्तते या सा सपक्षपाता तामेतादृशीं षट्पदावलीमिव भ्रमरपङ्क्षिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैवं पूर्वोक्त-

प्रकारेण गमनाय गात्रायें युवराजश्चन्द्रापीडो विज्ञापयति विज्ञतिं करोति । देवो भवान्किगाज्ञापयति किमाज्ञां

दत्त इति शनैः शनैर्मन्दमन्दं शुकनासो राजानं तारापीडगप्राक्षीदपृच्छत् ।
 

 
शुभ नासेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्यात्वा विमृश्य तारापीड : प्रत्यवादीत्प्रत्यब्रवीत् ।

किमब्रवीदित्याशयेनाह——आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमबुद्धम् । इतिद्योत्यमाह-

एते विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यून बिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव

करावलम्बिनीं हस्तावलम्बिनीं वत्सस्य पुत्रस्य । चन्द्रापीडस्येत्यर्थः । वधूं सुषां द्रक्ष्याम्यवलोकयामि । तावद-

यमपरो भिन्नोऽन्तर्हितस्तिरोहित आशा वान्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय

इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण

विधात्रा विधिनान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह -- यथेति । यथा येन प्रकारेण

चायुष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति - नेति । तं वैशम्पायनोऽन्य आने-

तुमानयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रापीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति ।

तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्तरितव्यो

निस्तारं प्रापयितव्यः । तथ प्रसूरपि गमन प्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह – वैशम्पा-

टिप्प० – 1 'रक्षतु मामार्य:' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्वमपि 'अवधारयत्वार्यः

इत्यादि प्रोक्तम् । 2 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन ( वर्षणेन ) सहि-

ताम् मेघावलीमिव, स्रवदश्रुजलामिति यावत् । 3 करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते

आपातिनी ( कृतपाणिग्रहणा ) वधूः ।
 

 
पाठा -१ यश्च ० २ तस्मात्. ३ चन्द्रापीडेऽन्तः पीडोपरागरक्ततामरसानुकारिणि, चन्द्रापीडेsपि रागरक्ते रक्तता-

मरसानुकारिणि, ४ षट्पदालीम्; अम्बुदावलीम्. ५ एव, ६ मे दुष्कृतिना,