2024-02-06 14:44:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्त्रापीडस्य यात्रानुमतियाचनम् ]
 
उत्तरभागः ।
 
५८१
 
त्राय
यशसे यशसे वा दोषगुणाश्रया वाऽफलवती । परत्र फलदायी कुत्रोपयुज्यते परमार्थ : ?
तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां ता-
तेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्यानया
- नया संभावनया नापगन्तव्यम् । [^१]अपगते च मयि वैशम्पायने-
[^२]
नागन्तव्यम् । यद्यसावन्येनानेतुमेव
पार्येत तदा तातस्याप्यतुनु- ल्लङ्घनीयवचनैरैव [^३]रवनिपतिसहस्रैरानीत एव स्यात् । तदार्य: कारयतु मे
गमना
गमना [^४]नुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे [^५]दृष्टायां भूमौ खँ[^६]स्वल्पोऽपि गमनपरिक्लेशः ।
वैशम्पायन- मादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तः- खेद [^७]एवैतद्वि-
योगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छ- तीत्यमुना हेतुना विना तेनागतोऽहम् । ॐ-
[^८]अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्व- सितं
 

 

 
[ टि ]--
प्रसिद्धेः कथं तज्जनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम्, तर्हि महान्पापिष्ठः, इत्याद्य-
कीर्तिसद्भावात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यत्ते कुत्रोपयोगी स्यात् । न कुत्रा-
पीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह - तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया

दोषसंभाव [^1]नाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्वाया- भ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं
विशोधनम् । 'प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभट्ट्यां प्रक्रियाटी- कायाम् । तातेनार्यो
दापयतु । प्रेरणे द्विकर्तृकता प्रसिद्धैवेत्यदोषः । एतद्व्यतिरेकेण न झुशुद्धिरित्याशयेनाह - नान्यथेति । मे मम
दोषशु- द्धिर्नान्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह - किमि- ति । तत्र किं कारणं किं निमि-
त्तम् । तदेव स्पष्टयन्नाह - अनागत इति । तु पुनरर्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया

संभावनया नापगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्य-
मित्यर्थः । अन्यः कश्चित्त-
दानयनं करिष्यतीत्यारेकां दूरीकुर्वन्नाह – यदीति । यद्यसौ वैशम्पा- यनोऽन्येन मदि-
तरेणानेतुमेव पार्येत शक्येत, तदा तातस्यापि तारापीडस्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो येरेवंभूतैर-
- [^2]रवनिपतिसहस्रैरानीत एव स्यात् । तत्तस्मादाय गमनस्यानु- ज्ञयाज्ञया प्रसादं प्रसन्नतां कारयतु । तातेनेति
शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह - न चेति । दृष्टायां निरीक्षितायां भूमौ तुरंगमैरश्वैर्गच्छतो
व्रजतो मे मम स्वल्पोऽपि गमनपरिक्लेशः प्रया- णखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमादाय
गृहीत्वागतमे- वायातमेव मामवधारयत्वाकलयतु । बाह्यखेदापेक्षयाभ्यन्तरखेदा- धिक्यं प्रदर्शयन्नाह - अपि
चेति । बाह्यखेदादेतद्वियोगजन्मा वैश- म्पायनविरहोत्पन्नोऽन्तः खेद एवासह्योऽसहनीयः । तर्हि तं मुक्त्वा

त्वमेकाकी कथमन्त्रागत इत्याशङ्कां निरस्यन्नाह - अनुपदमिति । अनुपदमनुचरणन्यासं स्क. ६.
न्धवारं सैन्यमादाय गृहीत्वागच्छत्यायाति । इत्यमुना हेतुना निमित्तेन तेन वैशम्पायनेन विनाहमानमगात् आयातः ।
अन्यथेति । उक्तवैपरीत्य आजन्मनः प्रभृति जन्मदिनादारभ्य कदा वैशम्पायनेन विना मया गतं यातम्,
स्थितमवस्थितम्, क्रीडितं रमितम्, हसितं हास्यं कृतम्, पीतं पानं कृतम्, अशितं भक्षितम्, सुप्तं शयितम्,
 
4
 
टिप्प० -

 
[^
1]F. दोषसंभावनायाः प्रायश्चित्त (शोधन) भूतां वैशम्पायनानय- नाय गमनाभ्यनुज्ञां तातेन
( पितृद्वारा ) आर्यो मे दापयतु, इति स्पष्टा योजना प्रहेलिका कृताऽत्र ।
[^
2]F. 'एभिरवनिपतिसहस्त्रैः '
इत्येव पाठ: । 'एभिः' इत्यनेन स्कन्धावारस्थितैरेतैरानेतुं शक्य एवाऽभविष्य दित्यर्थः स्फुटीभवति
टीकाकारस्तु यथाजातः ।
 
पाठा० -

 
[^
]G. आगत.
[^
]G. नागन्तव्यम्.
[^
]G. एभिरवनिपति .
[^
]G. अभ्यनुज्ञया, .
[^
]G. कष्टायाम् ; दुष्टायाम् .
[^
]G. स्वप्नेऽपि
.
[^
]G. एवमेतद्वियोगजन्मा; एव मे तद्वियोगजन्मा.
[^
]G. अन्यदा.