This page has not been fully proofread.

चन्द्रापीडस्य यात्रानुमतियाचनम् ]
 
उत्तरभागः ।
 
५८१
 
त्रायसे यशसे वा दोषगुणाश्रया वाऽफलवती । परत्र फलदायी कुत्रोपयुज्यते परमार्थ : ?
तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां ता-
तेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्यानया
संभावनया नापगन्तव्यम् । अपगते च मयि वैशम्पायनेनागन्तव्यम् । यद्यसावन्येनानेतुमेव
पार्येत तदा तातस्याप्यतुल्लङ्घनीयवचनैरैव निपतिसहस्रैरानीत एव स्यात् । तदार्य: कारयतु मे
गमनानुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ खँल्पोऽपि गमनपरिक्लेशः ।
वैशम्पायनमादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तः खेद एवैतद्वि-
योगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । ॐ-
न्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्रसितं
 

 
प्रसिद्धेः कथं तज्जनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम्, तर्हि महान्पापिष्ठः, इत्याद्य-
कीर्तिसद्भावात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यत्ते कुत्रोपयोगी स्यात् । न कुत्रा-
पीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह - तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया
दोषसंभावनाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्वाभ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं
विशोधनम् । 'प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभट्टयां प्रक्रियाटीकायाम् । तातेनार्यो
दापयतु । प्रेरणे द्विकर्तृकता प्रसिद्धैवेत्यदोषः । एतद्व्यतिरेकेण न झुद्धिरित्याशयेनाह - नान्यथेति । मे मम
दोषशुद्धिर्नान्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह - किमिति । तत्र किं कारणं किं निमि-
त्तम् । तदेव स्पष्टयन्नाह - अनागत इति । तु पुनरर्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया
संभावनया नापगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्य-
मित्यर्थः । अन्यः कश्चित्तदानयनं करिष्यतीत्यारेकां दूरीकुर्वन्नाह – यदीति । यद्यसौ वैशम्पायनोऽन्येन मदि-
तरेणानेतुमेव पार्येत शक्येत, तदा तातस्यापि तारापीडस्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो येरेवंभूतैर-
वनिपतिसहस्रैरानीत एव स्यात् । तत्तस्मादाय गमनस्यानुज्ञयाज्ञया प्रसादं प्रसन्नतां कारयतु । तातेनेति
शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह - न चेति । दृष्टायां निरीक्षितायां भूमौ तुरंगमैरश्वैर्गच्छतो
व्रजतो मे मम स्वल्पोऽपि गमनपरिक्लेशः प्रयाणखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमादाय
गृहीत्वागतमेवायातमेव मामवधारयत्वाकलयतु । बाह्यखेदापेक्षयाभ्यन्तरखेदाधिक्यं प्रदर्शयन्नाह - अपि
चेति । बाह्यखेदादेतद्वियोगजन्मा वैशम्पायनविरहोत्पन्नोऽन्तः खेद एवासह्योऽसहनीयः । तर्हि तं वा
त्वमेकाकी कथमन्त्रागत इत्याशङ्कां निरस्यन्नाह - अनुपदमिति । अनुपदमनुचरणन्यासं स्क. ६.
सैन्यमादाय गृहीत्वागच्छत्यायाति । इयमुना हेतुना निमित्तेन तेन वैशम्पायनेन विनाहमान आयातः ।
अन्यथेति । उक्तवैपरीत्य आजन्मनः प्रभृति जन्मदिनादारभ्य कदा वैशम्पायनेन विना मगतं यातम्,
स्थितमवस्थितम्, क्रीडितं रमितम्, हसितं हास्यं कृतम्, पीतं पानं कृतम्, अशितं भक्षितम्, सुप्तं शयितम्,
 
4
 
टिप्प० -1 दोषसंभावनायाः प्रायश्चित्त (शोधन) भूतां वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन
( पितृद्वारा ) आर्यो मे दापयतु, इति स्पष्टा योजना प्रहेलिका कृताऽत्र । 2 'एभिरवनिपतिसहस्त्रैः '
इत्येव पाठ: । 'एभिः' इत्यनेन स्कन्धावारस्थितैरेतैरानेतुं शक्य एवाऽभविष्य दित्यर्थः स्फुटीभवति ।
टीकाकारस्तु यथाजातः ।
 
पाठा० - १ आगत. २ नागन्तव्यम्. ३ एभिरवनिपति ४ अभ्यनुज्ञया, ५ कष्टायाम् ; दुष्टायाम् ६ स्वप्नेऽपि
७ एवमेतद्वियोगजन्मा; एव मे तद्वियोगजन्मा. ८ अन्यदा.