This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
कदाचिद्गुणीभवत्येवमयम विनयनिष्पन्नो दोष एव । आनीयतां तावदसौ । बुद्ध्यामहे किम-
र्थमय मे वंविधस्तस्य वयसोऽनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः ।'
 
इत्युक्तवति तारापीडे पुनः शुकनामोऽभ्यधात्- 'अत्युदारतया वत्सलत्वाचैव मादिशति
देवः । अन्ये॑दतःपरं किमिवास्य विरूपकं भवेत, वैगुवराजमुत्सृज्य क्षणमध्यन्यत्रावस्थान-
मात्मेच्छया चेष्टितम् ।'
 
५८०
 
इत्युक्तवति शुकनासे कशयेवान्तस्ताडितो दोषसंभावनग्राऽनया पितुरुद्वाष्पदृष्टिरुपविष्ट
एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनासमवादीत् - 'आर्य, यद्यपि निर्हेक्तितो वेद्मि न
मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव । कस्य वापरस्य
संभावना नोत्पन्ना । मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । प्रसिद्धिर-
अपि गुणे निक्षेपमाशयमाह- कदाचिदिति । एवं तादृकारणमपेक्ष्यायम विनय निष्पक्षोऽप्रश्रयजनितो
दोष एव कदाचिद्गुणीभवति । गुणः स्यादित्यर्थः । अथ कर्तव्यमाह - आनीयतामिति । तावदादावसौ
वैशम्पायन आनीयतामानयन विषयीक्रियतामिति : बुद्ध्यामहे जानीमहे । वयमिति शेषः । अयमेवंविध ईदृश-
रतस्य वैशम्पायनस्य वयसोऽवस्थाया अनुचितोऽप्ययोग्योऽपि किमर्थं किंप्रयोजनाय संवेगः सर्वपरित्यागलक्षण
उत्पन्नः प्रादुर्भूतः । ततस्तत्प्रयोजनं ज्ञात्वैव यथायुक्तं यथोचितं तद्विधास्यामः करिष्यामः ।
 
A
 
इति पूर्वप्रतिपादितप्रकारेण तारापीड उक्तवति सति पुनर्द्वितीयवारं झुकनासोऽभ्यधादब्रवीत् । किमभ्य-
धादित्याशयेनाह — अतीति । अत्युदारस्य भावोऽत्युदारता तयातिस्फारतया वत्सलत्वाच्च हितकारित्वाच्च
देवस्तारापीड एवं पूर्वप्रतिपादित मादिशति कथयति । अनेन विरुद्धं न कृतमिति नृपोक्तं प्रतिक्षिपन्नाह - अतः-
परमिति । अतःपरमन्यद्भवदपि किमिव विरूपकं विरुद्धं भवेत् । एतदेव विशदीकुर्वन्नाह - यदिति ।
यद्यस्माद्धेतोर्युवराजं चन्द्रापीडमुत्सृज्य त्यक्त्वात्मेच्छया स्वातन्त्र्येण क्षणमन्यत्रान्यस्मिन्स्थलेऽवस्थानमुपवेशन-
माचेष्टितमाचरितम् । अतः परं विरुद्धं किं भवेदित्यर्थः ।
 
-
 
a
 

 
इति शुकनास उक्तवति कथितवत सत्यनया पितुर्दोष संभावनया कशयेव चर्ममय्या रज्वेवान्तर्मध्ये ताडितो
व्यथित उदूर्ध्वं बाप्पो नेत्राम्बु यस्यामेवंविधा दृष्टियस्यैवंभूत उपविष्ट एवासीन एवोपसृत्योपसरणं कृत्वा
चन्द्रापीडः शनैः शनैर्मन्दं मन्दं शुकनासमवादीदब्रवीत् । किमवादीदित्याशयेनाह - आर्य इति । हे आर्य
हे पूज्य, यद्यपि निरुक्तितस्त्वदुतित एवाहं वेझि जानामि । न मदीयेन मामकीनेन दोषेण वैगुण्येन वैशम्पा-
यनो नागत इति, तथाप्येवं सत्यपि तातेन पित्रा संभावितमेव संभावनाविषयीकृतमेव । मद्वैगुण्य मिति शेषः ।
अपरस्य कस्य वा संभावना नोत्पन्ना । मिथ्यासंभावने न दोष इत्याशयेनाह - मिथ्यापीति । मिथ्याप्य-
सत्यमपि तत्तथा सत्यमेव । तत्रार्थे हेतुमाह - यथेति । यथा गृहीतं यथा श्रुतं लोकेन जनेन, विशेषतो
गुरुणा पित्रादिना, निर्णीतेरवक्तत्तथैव स्यात् । परमार्थतस्तदसत्यं जनप्रसिद्धौ किं स्यादित्याशयेनाह-
प्रसिद्धिरिति । दोषो वैगुण्यम्, गुणा औदार्यादयः, त एवाश्रय आधारो यस्या एवंविधा प्रसिद्धिः प्रवादोऽ
फलवती निःप्रयोजनात्रास्मिल्लोकेऽयश से ऽकीर्तये स्यात् । ननु दोषाश्रयप्रसिद्धेरयशोजनकत्वं प्रसिद्धं परं गुणाश्रय-
टिप्प० - 1 हटेन ग्रन्थग्रथनकन्था, नन्विति स्वयमुत्पादितः शङ्काभासश्च निरर्थक एव । 'प्रसिद्धि-
रत्राऽयशसे यशसे वा दोषगुणाश्रया फलति' इत्येव पाठः । दोषगुणौ आश्रित्य उत्पन्ना प्रसिद्धिः ( कश्चि
त्प्रवादः ) अन्न संसारे अयशसे यशसे वा फलति कल्पते । दोषानया प्रसिद्धिः अयशसे, गुणाश्रया तु
यशसे प्रभवतीति सुस्पष्ट आशयः ।
 
पाठा० -१ गुणो भवति २ इतः परम् ३ यदद्य, ४ निरुक्ततः.