कादम्बरी /612
This page has been fully proofread once and needs a second look.
ण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण [^१]लालनीयस्य पालनीयस्य शिशुजनस्योपर्यावेशो गरीयान्गृहीतः,सदनुचितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम्। स्वप्ना- यमानानामपि यद्गुरूणां मुखेभ्यो निष्कामति शुभमशुभं [^२]वा शिशुषु तदवश्यं फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथैवाक्रोशा: ज्ञापताम् । तद्वैशम्पा- यनमुद्दिश्य कोपावेशादेवमतिपरुषमभिदधत्यार्ये महती मे चेतसः पीडा समुत्पन्ना । [^३]स्वयमारोपितेषु तरुषु [^४]यावदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्षवेगो वैश- म्पायनस्योपरि । विरूपकं तु तेन न किंचिदप्याचरितम् । सर्व- परित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेनं दोषपक्षे [^५]निक्षिपामः ।
[ टि ]-- किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरो यो विषयमार्गः कामपन्थास्तत्र पतितस्य स्रस्तस्य सर्वस्यैव समग्र- स्यैव, अर्थाज्जनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविधस्य शिशुजनस्य बाल- जनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष्ठ आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्यस्नेहस्य प्रसूतिप्रेम्णोऽनुचितमयोग्यमाकोशोऽभि
षङ्गः स एव गर्भे मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं
सर्वथा न वाच्यमित्यांयाशयेनाह - स्वप्नायेति । स्वप्नायमानाना- मपि निद्रायमाणानामपि गुरूणां हिताहितप्रा-
प्तिपरिहारोपदेष्टृटॄणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं
निश्चयेन फलति । तच्छन्ब्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरव इति । हीति
निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति ।
यथैव येन प्रकारेणैव गुरुजनै- र्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि चरतां 'वान्ञ्छि- तं वृणीष्वे ति
ति प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेर्वरो
मतः' इति कात्यःय: । तथैव तेन प्रकारेणैवाकोक्रोशास्तिरस्काराः शापतां 'तवानिष्टं भूयादिति क्रोधाविष्टतपस्विनां
वचः शाप' स्तस्य भावस्तत्ता तां प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य क्रुध आवेशाद-
भिनिवेशादे [^1]वार्ये परुषं कठिनमभिदधति कथयति सांतसति मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना
प्रादुर्भूता । तन्निदानमाविष्कुर्वन्नाह - स्वयमिति । स्वयमात्मना रोपितेषूत्तमेषु तरुषु वृक्षेषु [^2]यावत्स्नेह उत्प-
द्यते प्रादुर्भवति । अङ्गसंसभवेषु शरीरसमुत्पशेन्नेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्त- स्माद्धेतोर्वैशम्पाय-
नस्योपर्यंययं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोध- संभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकट
यन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् ।
सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह -- सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येत
दपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगु- ण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य
टिप्प० – [^1]F. 'एवम्' इत्थमित्युचितम् ।
[^2]F. 'तावत्' इत्येव वाश्क्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते,
न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव ' तावत्' इत्येव पाठः ।
पाठा० - [^१]G. लालनीयस्य; लालनीयपालनीयस्य .
[^२]G. वा तदवश्यम् .
[^३]G. स्वारोपितेषु; स्वयं रोपितेषु.
[^४]G. तावत्.
[^५]G. निक्षिप्तः.
[ टि ]-- किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरो यो विषयमार्गः कामपन्थास्तत्र पतितस्य स्रस्तस्य सर्वस्यैव समग्र- स्यैव, अर्थाज्जनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविधस्य शिशुजनस्य बाल- जनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष्ठ आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्यस्नेहस्य प्रसूतिप्रेम्णोऽनुचितमयोग्यमाकोशोऽभि
षङ्गः स एव गर्भे मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं
[^2]F. 'तावत्' इत्येव वा
न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव '
[^२]G. वा तदवश्यम्
[^३]G. स्वारोपितेषु; स्वयं रोपितेषु.
[^४]G. तावत्.
[^५]G. निक्षिप्तः.