कादम्बरी /612
This page has been fully proofread once and needs a second look.
५७९
बाको
तम् । सर्व
€
[ टि ]-
स्तत्र पतितस्य स्रस्तस्य सर्व
षङ्गः स एव गर्
सर्वथा न वाच्यमित्यांशयेनाह - स्वप्नायेति । स्वप्नायमानानामपि निद्रायमाणानामपि गुरूणां हिताहितप्रा-
प्तिपरिहारोपदेष्टृणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं
निश्चयेन फलति । तच्छन्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरव इति । हीति
निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति ।
यथैव येन प्रकारेणैव गुरुजनैर्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि चरतां 'वान्छितं वृणीष्वे ति
प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेर्वरो
मतः' इति कात्यः । तथैव तेन प्रकारेणैवाकोशास्तिरस्काराः शापतां 'तवानिष्टं भूयादिति क्रोधाविष्टतपस्विनां
वचः शाप' स्तस्य भावस्तत्ता तां प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य क्रुध आवेशाद-
भिनिवेशादेवार्ये परुषं कठिनमभिदधति कथयति सांत मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना
प्रादुर्भूता । तन्निदानमाविष्कुर्वना- स्वयमिति । स्वयमात्मना रोपितेषूत्तमेषु तरुषु वृक्षेषु यावत्स्नेह उत्प-
द्यते प्रादुर्भवति । अङ्गसंसवेषु शरीरसमुत्पशेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्तस्माद्धेतोर्वैशम्पाय-
नस्योपर्यंयं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोधसंभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकट
यन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् ।
सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह -- सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येत
दपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगुण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य
टिप्प० – 1 'एवम्' इत्थमित्युचितम् । 2 'तावत्' इत्येव वाश्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते,
न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव ' तावत्' इत्येव पाठः ।
पाठा० - १ लालनीयस्य; लालनीयपालनीयस्य २ वा तदवश्यम् ३ स्वारोपितेषु; स्वयं रोपितेषु. ४ तावत्.
५ निक्षिप्तः