कादम्बरी /612
This page has not been fully proofread.
चन्द्रापीडस्य यात्रानुमतियाचनम् ] उत्तरभागः ।
५७९
ण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण लालनी-
यस्य पालनीयस्य शिशुजनस्योपर्यावेशो गरीयान्गृहीतः, सदनुचितमपत्य स्नेहस्याकोशगर्भमेव-
मुक्तम् । स्वप्नायमानानाममि यद्गुरूणां मुखेभ्यो निष्कामति शुभमशुभं वो शिशुषु तदवश्यं
फलति । गुरवो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथै-
बाकोशा: ज्ञापताम् । तद्वैशम्पायनमुद्दिश्य कोपा वेशादेवमतिपरुषमभिदधत्यायें महती मे
चेतसः पीडा समुत्पन्ना । स्वयमारोपितेषु तरुषु याबदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्व-
पत्येषु । तदुत्सृज्यतामयममर्षवेगो वैशम्पायनस्योपरि । विरूपकं तु तेन न किंचिदण्याचरि-
तम् । सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेनं दोषपक्षे निक्षिपामः ।
€
-
किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि
सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरी यो विषयमार्गः कामपन्था-
स्तत्र पतितस्य स्रस्तस्य सर्वस्यैव समग्रस्यैव, अर्थाजनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण
पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविधर
शिशुजनस्य वालजनस्योपरि किमेवं किंनिमित्तं गरीयान्गरिष्ट आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्य
स्नेहस्य
प्रसूतिप्रेम्णोऽनुचितमयोग्यमाकोशोऽभिषङ्गः स एव गर्ने मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं
सर्वथा न वाच्यमित्यांशयेनाह - स्वप्नायेति । स्वप्नायमानानामपि निद्रायमाणानामपि गुरूणां हिताहितप्रा-
प्तिपरिहारोपदेष्टृणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं
निश्चयेन फलति । तच्छन्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरव इति । हीति
निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति ।
यथैव येन प्रकारेणैव गुरुजनैर्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि चरतां 'वान्छितं वृणीष्वे ति
प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेर्वरो
मतः' इति कात्यः । तथैव तेन प्रकारेणैवाकोशास्तिरस्काराः शापतां 'तवानिष्टं भूयादिति क्रोधाविष्टतपस्विनां
वचः शाप' स्तस्य भावस्तत्ता तां प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य क्रुध आवेशाद-
भिनिवेशादेवार्ये परुषं कठिनमभिदधति कथयति सांत मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पन्ना
प्रादुर्भूता । तन्निदानमाविष्कुर्वना- स्वयमिति । स्वयमात्मना रोपितेषूत्तमेषु तरुषु वृक्षेषु यावत्स्नेह उत्प-
द्यते प्रादुर्भवति । अङ्गसंसवेषु शरीरसमुत्पशेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्तस्माद्धेतोर्वैशम्पाय-
नस्योपर्यंयं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोधसंभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषतां प्रकट
यन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् ।
सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह -- सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येत
दपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगुण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य
टिप्प० – 1 'एवम्' इत्थमित्युचितम् । 2 'तावत्' इत्येव वाश्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते,
न ' यावत्' । इह च ' यावत्' इति केवलं वाक्यशोभायै । अत एव ' तावत्' इत्येव पाठः ।
पाठा० - १ लालनीयस्य; लालनीयपालनीयस्य २ वा तदवश्यम् ३ स्वारोपितेषु; स्वयं रोपितेषु. ४ तावत्.
५ निक्षिप्तः