This page has not been fully proofread.

५७८
 
कादम्बरी ।
 
[ कथायाम्-
विनिवारितो दुर्निवारः सर्वाविनयहेतुः कुसुमधन्वा ? विलसति च कुसुममार्गणे केन कार्येण
छिद्रसहस्राणि न भवन्ति; यैः सत्त्वमेवाधस्ताद्रजति । सत्त्वे चाधो गते किमाश्रित्य न
गेलति शीलम् ? किमवलम्बनं विनयस्य ? किं करोत्वनाधार धैर्यम् । क्व पद्माधत्तां धीः ।
क समाधानमाबध्नात्ववष्टम्भः । केन वावष्टभ्य बैलान्निश्चलीकृतं मनः । विप्रतिपद्यमानानि
केन नियन्त्रितानीन्द्रियाणि । जगन्निन्द्यानि केन निवारितानि दुश्चरितानि । केन वालोक
भूतेन तमोभिवृद्धि
हेतुरुत्सारितो दोषाभिषङ्गो दृष्टेरुपहन्ता । किं वा दृश्यतामसति बहुद-
शिवे । बहुदर्शित्वं च तावतः कालस्यैवासंभवात्कुतो भवतु प्रथमे वयसि ? येनान्वयव्य-
तिरेकाभ्यां निश्चिय वर्जयति मलिनताम् । अपि च परिणामेऽपि पुण्यवतां केषांचिदेव
हि केशैः सह धवलिमानमापद्यन्ते चरितानि । तन्मोहविषयमहाहौ मदविकारगन्धमातङ्गे
दुर्विलसितैकराज्ये रतिनिद्रावेश्मनि नवरागपल्लवोद्गमलीलान्त विशेषदुश्चरितचक्रवर्तिनि तारु-
शून्ये रिक्ते च हृदि हृदये प्रविश्य प्रवेशं कृत्वा पदं स्थानं कुर्वन्विदधत्केन वा पुरुषेण सर्वस्य समस्या -
विनयस्याप्रश्रयस्य हेतुः कारणं कुसुमधन्वा कंदर्पो दुर्निवारो दुःखेन निवारयितुं शक्यो विनिवारितो निषिद्धः ।
कुसुममार्गणे कंदर्पे विलसति विलासं कुर्वति सति केन कार्येण हेतुभूतेन छिद्रसहस्राणि विवरसहस्राणि न
भवन्ति न संजायन्ते, यैश्छिद्रसहस्रैः सत्त्वमेव साहसमेवाधस्तादधो व्रजति । सत्त्वे चाधो गते किमाश्रित्य
किमाश्रयणं कृत्वा शीलं वृत्तं न गलति न क्षरति । विनयस्य प्रश्रयस्य किमवलम्बनं किमाधारः । अनाधार-
मनाश्रयं धैर्यं सत्त्वं च किं करोतु । किं कुर्यादित्यर्थः । धीर्बुद्धिः क्व कुत्र पदं स्थानमाधत्तां विदधताम् । अवैष्टम्भ
उद्योगः । 'अवष्टम्भः सुवर्ण च स्तम्भप्रारम्भःपोरपि । आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः' इति विश्वः ।
अवलम्बनं वा क्व समाधानं सुखमाबध्नातु निबध्नातु । केन वावष्टभ्य वशीकृत्य बलाद्धठान्मनश्चेतो निश्चलीकृतम् ।
केन विप्रतिपद्यमानान्युन्मार्गप्रवृत्तानीन्द्रियाणि करणानि नियन्त्रितानि वशीकृतानि । केन जगन्निन्द्यानि विश्व-
गर्हितानि दुश्चरितानि दुश्चेष्टितानि निवारितानि दूरीकृतानि । आलोकभूतेन प्रकाशरूपेण केन वानिर्दिष्टनाम्ना
दोषाणां व्यसनादीनां रात्रेश्चाभिषङ्गः संबन्ध उत्सारितो दूरीकृतः । कीदृशो दोषाभिषङ्गः । तमोऽज्ञानं तमिस्रं
च तयोरभिवृद्धिस्तस्य हेतुः कारणम् । पुनः कीदृक् । दृष्टेर्दृशो ज्ञानस्य चोपहन्ता उपघातकः । असति बहुदर्शित्वे
किं वा दृश्यतां किमवलोक्यताम् । तावतः कालस्यैवेयतः समयस्यैवासंभवाद्वहुदर्शित्वमनेकपदार्थावलोकित्वम् ।
तच्च प्रथम आद्ये वयस्यवस्थायां कुतो भवतु कुतो जायताम् । येन सति सद्भावोऽन्वयः, असत्यसद्भावो व्यति-
रेकः, ताभ्यां निश्चित्य निर्णयं कृत्वा मलिनतां वाच्यतां वर्जयति दूरीकरोति । अपि चेति । अपि च युक्त्य-
न्तरे । प्रदर्शने परिणामेऽपि । वार्धकेऽपि । हीति निश्चये । पुण्यवतां सुकृतवतां केषांचिदेव, न तु सर्वेषाम्,
केशैः कचैः सह चरितानि चरित्राणि धवलिमानं श्वेतिमानमापद्यन्ते प्राप्नुवन्ति । 'सुकृती पुण्यवान्धन्यः' इति
हैमः
नः । सर्वस्य स्खलितं स्यादिति प्रदर्शयन्नाह -- तमोहेति । तदिति हेत्वर्थे । मोहो मूर्च्छा, विषयाः
शब्दस्पर्शरूपरसगन्धाख्याः, त एव महाहयो महासर्पा यस्मिन् । मदो मुद् मोहसंभेदस्तस्य विकारा
विकृतयस्त एव गन्धमातङ्गा गन्धेभा यस्मिन् । दुर्विलसितं दुश्चेष्टितं तदेवैकमद्वितीयं राज्यमाधिपत्यं
यस्मिन् । रतिः कामाभिलाषः, निद्रा प्रमीला तयोर्वैश्मनि गृहे नवरागो नवीनानुरागः स एव पल्लव:
 
टिप्प० - 1 'गलिते च शीले' इति पाठ आवश्यक एवं प्रक्रमस्य भङ्गप्रसङ्गात् । 2 अवष्टम्भः
स्थैर्यमित्यर्थः, अन्यत्तु भ्रममात्रम् ।
 
• पाठा० – १ मकरकेतु: २ गलतु. ३ गलिते च शीले किम्. ४ बलम्. ५ अतिपुण्य. ६ मोहविषविषयमहाहौ;
मोहविषयविषयमहाहौ, ७ मातङ्ग, ८ लीलातर.