कादम्बरी /61
This page has been fully proofread twice.
रिवृत्तिः' इति । एवमुच्चारयत्येव तस्मिन्नशिशिरकिरणमम्बरतलस्य
[^१]मध्यमध्यारूढमावेदयन्नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य [^२]च समासन्नस्नान- समयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ ।
अथ चलति महीपतावन्योन्यमतिरभससंचलनचालिताङ्गदपत्र- भङ्गमकरकोटिपाटि [^३]तांशुकपटानाम्, आक्षेपदोलायमान- [^४]कण्ठदाम्नाम्, अंसस्थलोल्लासितकुङ्कुमपटवास- [^६]धूलिपटलपिञ्जरीकृतदिशाम्, आलोलमालती [^७]पुष्पशेख- रोत्पतदलिकदम्बकानाम्, अर्धावलम्बिभिः कर्णोत्पलैश्चुम्ब्यमान- गण्डस्थलानाम् ; [^८]गमनप्रणामलालसानामहमहमिकया, वक्षःस्थलप्रेङ्खोलितहारलतानाम्, उत्तिष्ठतामासी [^९]त्संभ्रमो महीपतीनाम् । इतश्चेतश्च निःपतन्तीनां [^१०]स्कन्धावसक्त- चामराणां
[ टि ]-- तस्मिन्निति । तस्मिन् कुमारपालित एवं पूर्वोक्त- प्रकारेणोच्चारयत्येवोक्तवत्येव मध्याह्नशङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्पन्नोऽभूदित्यन्वयः । किं कुर्वन् । आवेदयञ्ज्ञापयन् । कम् । अम्बरतलस्य गगनतलस्य मध्यं मध्यप्रदेशमशिशिरकिरणं श्रीसूर्यमध्यारूढं प्राप्तम् । अथ ध्वनिं विशेषयन्नाह -- नाडिकेति । नाडिका घटिका तस्याश्छेदः परिसमाप्तिस्तस्यां प्रहतस्ताडितो यः पटुर्महान्पटहो दुन्दुभिस्तस्य नादो निनादस्तमनुर्सतुं शीलमस्येति स तथा । तमिति । तं ध्वनिमाकर्ण्य श्रुत्वा क्षितिपती राजाऽऽस्थानमण्डपादुत्तस्थावुत्थितो बभूव । राजानं विशिनष्टि-
समासनेति । समासन्नो निकटवर्ती स्नानसमय आप्लवनसमयो यस्य स तथा । विसर्जित इति । विसर्जितो निवर्तितो राजलोकः सेवकजनो येन स तथा ।
अथेति । उत्थानानन्तरं महीपतौ राज्ञि चलति सत्युत्तिष्ठतामुत्थानं कुर्वतां महीपतीनां संभ्रमः संमर्द आसीदित्यन्वयः । अथ महीपतीन्विशेषयन्नाह -- अन्योन्येति । अन्योन्यं परस्परमतिर- भसेनातिवेगेन संचलनं गमनं तेन चालितानि स्वस्थानात्प्रच्याविता- नि यान्यङ्गदपत्राणि तेषां [^1]भङ्गस्त्रुटनं तस्य या मकरकोटिर्वक्र- प्रदेशस्तेन पाटितानि छिन्नान्यंशुकानि गर्भसूत्रनिर्मितानि, पटाः सूत्रनिर्मिता येषु ते तथा तेषाम् । आक्षेपेति । आक्षेपः परस्परसं-
लग्नता तेन दोलायमानानि चञ्चलानि कण्ठदामानि निगरण [^2]बन्धनस्रजो येषां ते तथा तेषाम् । अंसेति । अंसस्थलेभ्यो भुजशिरःस्थलेभ्य उल्लासितान्युच्छ्रसितानि यानि कुङ्कुमानि केसराणि पटवासः पिष्टातकश्च तयोर्धूलिपटलं परागसमूहस्तेन पिञ्जरीकृताः पीतरक्तीकृता दिशः ककुभो यैस्ते तथा तेषाम् । आलोलेति । आलोलाश्चञ्चला ये मालतीपुष्पाणां जातीकुसुमानां शेखरा अवतंसास्तदुपरिष्टादुत्पतन्तो भ्रमन्तोऽलयो भ्रमरास्तेषां कदम्बकानि समूहा येषां ते तथा तेषाम् । अर्धेति ।अर्धावलम्बिभि- रर्धभागलग्नै: । एवंविधैः कर्णोत्पलैः श्रवणन्यस्तनलिनैश्चुम्ब्य-
मानमाश्लिष्यमाणं गण्डस्थलं कपोलात्परो भागो येषां ते तथा तेषाम् । गमन इति । गमने व्रजने यो राज्ञः प्रणामो नमस्कारस्तत्र लालसानां कृतस्पृहाणाम् । कया । अहं शक्तोऽहं [^3]शक्त इत्यस्यां साहमहमिका । मयूरव्यंसकादित्वात्साधुः । तया । वक्ष इति । वक्षःस्थले भुजान्तरे प्रेङ्खोलितास्तरलिता हारलता मुक्ताफलस्रजो येषां ते तथा तेषाम् । ततश्चेति । तदा तस्मिन्समय आस्थानभवनं नृपोपवेशनस्थलं सर्वतः परितः क्षुभितमिव क्षोभं प्राप्तमिवाभवदभूदित्यन्वयः । केन । इतश्चेतश्च संमर्दवशादितस्ततो भिन्नभिन्नप्रदेशे निःपतन्तीनां स्खलन्तीनां स्कन्धो भुज-
[^1]F. अङ्गदानां भुजभूषणानां ये पत्रभङ्गाः पत्ररचनाः (उत्किरणशिल्पचातुर्यम् 'जडाई' ) तासु ये मकराः (उत्कीर्णजलजन्तु विशेषाः ) तेषां कोट्या अग्रभागेन, इत्यर्थ
उचितः।
[^2]F. कण्ठावलम्बितहारादिस्रजः ।
[^3]F. अहं पूर्वमहं पूर्वमिति स्पर्धा, इत्युचितोऽर्थः ।
[^१]G. मध्यमारूढ.
[^२]G.चासन्न.
[^३]G. पाटितानेकपटानाम् ; पाटितांशुकानाम्.
[^४]G. मालतीकण्ठदाम्नाम्.
[^५]G. स्थलोल्लसित.
[^६]G. धूलिपिञ्जरित.
[^७]G. कुसुम.
[^८]G. प्रसरणसदालालसानाम्.
[^९]G. अतिमहान्संरम्भः
[^१०]G. स्कन्धदेशावसक्त.