2024-03-21 08:09:35 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५७६
 
कादम्बरी ।
 
[ कथायाम-
'
 
तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म।' इत्युक्त्वा हेमन्तका लोत्पलि- नीमिवोद्वाबाष्पां दृष्टि [^१]मुद्वहन्,
उद्वेपिताधर बहिरलब्ध निर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निःश्वसन्नेवावत [^२]स्थौ ।
 

 
तदवस्थं च तं तारापीड: प्रत्युवाच – 'एतत्खलु प्रदीपेनामेग्ने: प्रकाश- नम्, वासरालोकेन
भास्वत: समुद्रासनम्, अवश्यायलेशैराह्लादन- ममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः,
व्यजना निलैरैति [^३]रति- वर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्या- पि बहु-
श्रुतस्यापि विवेकनोऽपि धीरस्यापि सत्त्ववतोऽध्प्यवश्यं दुःखा तिपातेन विशुद्धमपि वर्षसलिलेन
सर इव मानसं कलुषी क्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सममेव दर्शनं
नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन [^४]ब्रवीत्यदः ।
मै
[^५]मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं
गौ
यौवनमतिक्रा- न्तम् ? यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहा-
रोहत्यभिनवा प्रीतिः । वक्षसै सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोर्द्वये-

 
5
 

 
[ टि ]--
नावगच्छति । सर्वथा सर्वप्रकारेणा स्मार्ककं दुःखायैव दुःख- हेतोरेव तस्य पापकर्मणो दुष्कृतकारिणौणो ग्रहोपसृष्टस्य
ग्रहंग्रहिल- स्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्तकालस्य [^1]प्रसूनसमयस्योत्प- लिनी कमलिनीमिवोद्वाबाष्पां दृष्टिं दृश-
मुद्वहन् । हेमन्तकमन्य लिन्यप्युवा- द्बाष्पा स्यादतो दृक्साम्यम् । उद्वेपित उत्कम्पितोऽधर ओष्ठो यस्यै-वंभूतश्च बहिर
लब्धो निर्गमो निर्गमतंनं यस्यैवंभूतेनान्तर्मध्यवर्तिमन्यु- पूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्वसन्नेव
निःश्वासं मु-
ञ्चन्नेवावतस्यै [^2]तस्थौ। स्थितवान् ।
 

 
सैवावस्था दशा यस्यैतादृशं च तं शुकनासं तारापीड : प्रत्युवाच प्रत्यब्रवीत् । खल्विति निश्चयेन । एतत्प्र-
दीपेन गृहमणिनाग्नेर्वह्नेः प्रकाशनं प्रज्वालनम्, वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्भासनमुत्ते-
जनम्, अमृतांशोश्चन्द्रस्यावश्यायलेशैस्तुहिन- कणैराह्लादनं प्रमोदोत्पादनम्, पयोधेः समुद्रस्य मेघाम्बु जीमूत-

जलं तस्य बिन्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोर्व्यज- नानिलैस्सालघृवृन्तपवनैरतिवर्धनमतिवृद्धिप्राप-
णम्, यद्यस्माद्धेतोर- स्मद्विधैरस्मत्सदृशैरार्यस्य भवतः शुकनासस्य परिबोधनं प्रतिबोध- दानम् । तथापीति ।
एवं सत्यपि प्राज्ञस्यापि बहुश्रुतस्याप्य नेकशा- स्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृते-

रपि सत्त्ववतोऽपि साहसवतोऽप्यवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य
मानसं वर्षसलिलेन वृष्टिपानीयेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्ते
'किमिदमिति सर्वमेव समग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न बुद्धिर्धि-
षणा बुध्यते । बोधं प्रयातीत्यर्थः । न विवेकोऽपि पृथगात्म- भावोऽपि विविनक्ति पृथक्करोति । येन कारणेन । अदोऽ-
ॽ नपुंसकम् । ब्रवीति वक्ति । मत्तस्तारापीडाल्लोकवृत्तं जनचरित- मार्य एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति
जानाति । किमिति प्रश्ने । कश्चित्कोपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं
यौवनं तारुण्यमा॑तिक्रान्तं व्यतीतम् ? यौवनावतारे हि तारुण्यप्रादुर्भावे हि शैशवेन बाल्येन सह गुरुजनेषु मातृपि
तृप्रीतिर्गलति क्षरति । वयसा सहावस्थया सहाभिनवा प्रत्य- ग्रा प्रीतिरारोहत्यारूढा भवति । वक्षसोरसा
सह वाञ्छा स्पृहा विस्तीर्यते विस्तीर्णा स्यात् । बलेनैव पराक्रमेणैव सह मदो दर्प उपचीयत उपचयं प्राप्नोति ।
 
2
 
,
 
टिप्प० --

 
[^
1]F. मार्ग- पौषमासात्मकः शीतकालः ।
[^
2]F. 'अव' पूर्वकस्य तिष्ठतेरात्मनेपदित्वमिति न विज्ञावं
बे
तं
राकेण । अस्तु, 'अवतस्थे' इत्येव पाठः ।
 
पाठा० -

 
[^
]G. उदवहत्.
[^
]G. अवतस्थे .
[^
]G. अभिवर्धनम् .
[^
]G. ब्रवीमि .
[^
]G. अन्यदा तु मत्तः, अस्मदस्मत्तः,
 
त:.