This page has not been fully proofread.

५७६
 
कादम्बरी ।
 
[ कथायाम-
'
 
तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म । इत्युक्त्वा हेमन्तका लोत्पलिनीमिवोद्वाष्पां दृष्टिमुद्वहन,
उद्वेपिताधर बहिरलब्ध निर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निःश्वसन्नेवावतस्थौ ।
 
तदवस्थं च तं तारापीड: प्रत्युवाच – 'एतत्खलु प्रदीपेनामे: प्रकाशनम्, वासरालोकेन
भास्वत: समुद्रासनम्, अवश्यायलेशैराह्लादनममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः,
व्यजना निलैरैतिवर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि बहु-
श्रुतस्यापि विवेकनोऽपि धीरस्यापि सत्त्ववतोऽध्यवश्यं दुःखातिपातेन विशुद्धमपि वर्षसलिलेन
सर इव मानसं कलुषी क्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सममेव दर्शनं
नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन ब्रवीत्यदः ।
मैत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं
गौवनमतिक्रान्तम् ? यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहा-
रोहत्यभिनवा प्रीतिः । वक्षसैन सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोर्द्वये-

 
5
 
नावगच्छति । सर्वथा सर्वप्रकारेणा मार्क दुःखायैव दुःखहेतोरेव तस्य पापकर्मणो दुष्कृतकारिणौ ग्रहोपसृष्टस्य
ग्रहंग्रहिलस्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्तकालस्य प्रसूनसमयस्योत्पलिनी कमलिनीमिवोद्वाष्पां दृष्टिं दृश-
द्वहन् । हेमन्तकमन्य युवाष्पा स्यादतो हक्साम्यम् । उद्वेपित उत्कम्पितोऽधर ओष्ठो यस्यैवंभूतश्च बहिर
लब्धो निर्गमो निर्गमतं यस्यैवंभूतेनान्तर्मध्यवर्तिमन्युपूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्वसन्नेव
निःश्वासं मुञ्चनेवावतस्यै। स्थितवान् ।
 
सैवावस्था दशा यस्यैतादृशं च तं शुकनासं तारापीड : प्रत्युवाच प्रत्यब्रवीत् । खल्विति निश्चयेन । एतत्प्र-
दीपेन गृहमणिनाग्नेर्वह्नेः प्रकाशनं प्रज्वालनम् वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्भासनमुत्ते-
जनम्, अमृतांशोश्चन्द्रस्यावश्यायलेशैस्तुहिन कणैराह्लादनं प्रमोदोत्पादनम् पयोधेः समुद्रस्य मेघाम्बु जीमूत-
जलं तस्य बिन्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोर्व्यजनानिलैस्सालघृन्तपवनैरतिवर्धनमतिवृद्धिप्राप-
णम्, यद्यस्माद्धेतोरस्मद्विधैरस्मत्सदृशैरार्यस्य भवतः शुकनासस्य परिबोधनं प्रतिबोधदानम् । तथापीति ।
एवं सत्यपि प्राज्ञस्यापि बहुश्रुतस्याप्य नेकशास्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृते-
रपि सत्त्ववतोऽपि साहसवतोऽप्यवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य
मानसं वर्षसलिलेन वृष्टिपानीयेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्ते
'किमिदमिति सर्वमेव समग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न बुद्धिर्धि-
षणा बुध्यते । बोधं प्रयातीत्यर्थः । न विवेकोऽपि पृथगात्मभावोऽपि विविनक्ति पृथकरोति । येन कारणेन । अदोऽ-
कम् । ब्रवीति वक्ति । मतस्तारापीडाल्लोकवृत्तं जनचरितमार्य एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति
नाति । किमिति प्रश्ने । कश्चित्कोपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं
यौवनं तारुण्यमा॑तिक्रान्तं व्यतीतम् ? यौवनावतारे हि तारुण्यप्रादुर्भावे हि शैशवेन बाल्येन सह गुरुजनेषु मातृपि
तृप्रीतिर्गलति क्षरति । वयसा सहावस्थया सहाभिनवा प्रत्यग्रा प्रीतिरारोहत्यारूढा भवति । वक्षसोरसा
सह वाञ्छा स्पृहा विस्तीर्यते विस्तीर्णा स्यात् । बलेनैव पराक्रमेणैव सह मदो दर्प उपचीयत उपचयं प्राप्नोति ।
 
2
 
,
 
टिप्प० -- 1 मार्ग- पौषमासात्मकः शीतकालः । 2 'अव' पूर्वकस्य तिष्ठतेरात्मनेपदित्वमिति न विज्ञावं
बेराकेण । अस्तु, 'अवतस्थे' इत्येव पाठः ।
 
पाठा० -१ उदवहत्. २ अवतस्थे ३ अभिवर्धनम् ४ ब्रवीमि ५ अन्यदा तु मत्तः, अस्मदस्मत्तः,