2024-03-21 12:32:57 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

'वैशम्पायनतिरस्कार: ]
 
उत्तरभागः ।
 
५७५
 

 
न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुद्धान्तेन भ्रा- न्तेन [^१]दुर्दर्शमदृष्टं तावन्न नाम
कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरमसौ
तिर्या
तिर्यङ्महता यत्नेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चाम- पि सफल
एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्नेह- माबध्नन्ति । तेऽपि कृतं जानन्ति ।
तेऽपि परिचयमनुवर्तन्ते । तेषामपि - मपि [^२]सहजस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य
नष्टो- भयलोकस्य पापकारिणो दुर्जातस्य, यस्य सर्वमेवाधस्ताद्गतम् । अपि चेदृशाचरितेन
तेनाध्
तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावहुद्दु [^३]रात्मना जातेन केवलं [^४]सुख न
खं न स्थापिताः सर्व एव वयम्, [^५]अपरमेवं दुःखार्णवे [^६]निपातिताः । सर्व एव ह्यनाक्षिप्तचेताः [^७]प्रवर्तते
स्वहिताय परहिताय [^८]च । तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं [^९]नापि च परहितं
किम- नेनैवमात्मनुद्रुहा कृतमिति मति [^१०]रेतावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माकं
 
1
 

 

 
[ टि ]--
यामीत्येतदपि यथाजातस्य मूर्खस्य बुद्धौ ज्ञप्तौ न संजातं नोत्पन्नम् । 'अज्ञे मूढयथाजातमूर्खवैधेयवाबालिशाः'
इत्यमरः । तत्त- स्माद्धेतोरेवममुना प्रकारेणासत्पथः कुमार्गस्तत्र प्रवृत्तेन नष्ट आत्मा यस्यैवंभूतेन सुदूरमतिदूर-
मुद्भ्रान्तेन प्राप्तभ्रमेण दुर्दैवं तावदादौ । नामेति कोमलामन्त्रणे । कुदृष्टिना कुत्सितज्ञानेन दुर्दुष्टा दशावस्था

यस्मिन्नेतादृश॒मदृष्टं न दृष्टं नावलोकि [^1]तम् । येन दृष्टमप्यवलो- कितमपि न दृष्टं न निरीक्षितम् । 'दशा वर्ताववस्थायां
वस्त्रान्ते स्यु- र्दशा अपि' इति विश्वः । यदि वा 'अदृष्टं वह्नितोयादि दृष्टं स्वपरच- क्रजम्' इत्यभिधानात्तदुभयमपि
भयं न दृष्टमित्यर्थः । अथवाऽदृष्टं तु न दृश्यत एव । तदपि विपश्चिद्भिर्दृश्यते । अयं तु सुतरां मूर्खो येन तप-
खि
स्विन्यगम्या भवतीति दृष्टमपि न दृष्टमित्यर्थः । तस्य वैश- म्पायनस्याज्ञानमेव तिमिरं तमिस्रं तेनान्धस्य गता-
क्षस्य किं क्रियतां किं विधीयताम् । अपरमन्यदसौ तिर्यग्विवेक विकलत्वात्पशुरूपो महता यत्नेन महोद्यमेन शुक
इव कीर इव पाठितोsध्यापितो देवेन तारापीडेन पुष्टश्च पुष्टीकृतश्च । अथवेति पक्षान्तरे । विनोददानात्त्क्री-
डावितरणात्तिरश्चामपि सफल एव सार्थक एव शिक्षणायासः शिक्षा- प्रयासो भवति । तेऽपि तिर्यञ्चोऽपि पोषिताः
-
सन्तः पोषितरि पोषके स्नेहं प्रीतिमाबध्नन्ति । कुर्वन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि कृतं जान- न्ति । कृतज्ञा भन्न-
न्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि परिचयं संस्तवमनु- वर्तन्तेऽनुगच्छन्ति । तेषामपि तिरश्चामपि मातापित्रोरुपरि
सहज- स्नेहः स्वाभाविकप्रेमा दृश्यत एव ईक्ष्यत एव । नष्टो गत उभयलोक इहलोकपरलोकौ यस्यैवंभूतस्य पाप-
कारिणोऽपकर्तुर्जातस्य दुष्टो- त्पन्नस्य । कु (सुम ) पुत्रस्येत्यर्थः । अस्य वैशम्पायनस्य न पुनः प्रीतिः । मातापित्रो-
रुपरीत्यर्थः । अस्य वैशम्पायनस्य सर्वमेव विज्ञा- नादिकमधस्ताद्धो गतम् । अपि चेति युक्त्यन्तरे । तेनापि
वैशम्पा- यनेनापीष्टाचरितेनेदृक्समाचरितेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन वैशम्पायनेन दुरात्मना
दुष्टात्मना तावज्जातेनोत्पन्नेन सर्व [^2]वं वयं सुखं न स्थापिताः । अपरमन्यदेवममुना प्रकारेण दुःखार्णवे दुःख-
सागरे निपातिताः । दुःखातिशयेन ब्रुडिता इति भावः । सर्व एव । जन इति शेषः । अनाक्षिप्तचेताः सुस्थिरान्तः-
रान्तः
करणः स्वहिताय आत्महिताय, परहिताय इतरजनहितार्थं च प्रव- र्तते यत्नमातनोति । तस्य वैशम्पायनस्य तु
पुनः अस्मानेवं दुःखं स्थापयतो दुःखं कुर्वतो न स्वहितं नात्महितम्, नापि च परहितं नाप्यन्यहितम् । अनेनैव
वैशम्पायनेनैवात्मद्रुहात्मघातकेन किं कृतं किं विहितमिति मतिरिति बुद्धिरेती [^3]तावद्बोधपदवीं ज्ञानमार्ग नावतरति
 
तु
 
टिप्प० -
गं नावतरति
 
[^
1]F. दुःखेन द्रष्टुं शक्यम् अदृष्टं शुभाशुभकर्मजनितं भाग्यं तु येन कुदृष्टिना न दृष्टम्, किन्तु
येन दृष्टम् ( दर्शनविषयभूतं सदाचा- रादिकम् ) अपि न दृष्टं नालोचितमिति भावः ।
[^
2]F. सर्वे वयं
केवलं सुखं न स्थापिता इत्येव न, अपि तु दुःखा- र्णवे पातिता इति सरलोप्यर्थः प्रहेलीकृतः ।
[^
3]F. 'मति-
रेव तावन्न' इत्येव पाठः ।
 
पाठा०-

 
[^
]G. दुर्दर्शनेन; दुर्दर्शम् .
[^
]G. सहजन्मस्नेह: .
[^
]G. दुरात्मजातेन.
[^
]G. दुःखम् .
[^
]G. अपि त्वेवंविधे,
.
[^६]G. निप
तिताः.
[^
]G. प्रवर्तमानः, .
[^
]G. वा प्रवर्तते, .
[^
]G. न परहितमपि .
[^
१०]G. एवमेतावत्; एव तावत्.
 
निप