कादम्बरी /608
This page has not been fully proofread.
'वैशम्पायनतिरस्कार: ]
उत्तरभागः ।
५७५
।
न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुद्धान्तेन दुर्दर्शमदृष्टं तावन्न नाम
कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरमसौ
तिर्याहता यत्नेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चामपि सफल
एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्नेहमाबध्नन्ति । तेऽपि कृतं जानन्ति ।
तेऽपि परिचयमनुवर्तन्ते । तेषामपि सहजस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य
नष्टोभयलोकस्य पापकारिणो दुर्जातस्य, यस्य सर्वमेवाधस्ताद्गतम् । अपि चेहशाचरितेन
तेनाध्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावहुरात्मना जातेन केवलं सुख न
स्थापिताः सर्व एव वयम्, अपरमेवं दुःखार्णवे निपातिताः । सर्व एव ह्यनाक्षिप्तचेताः प्रवर्तते
स्वहिताय परहिताय च । तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं नापि च परहितं
किमनेनैवमात्मनुहा कृतमिति मतिरेतावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माकं
1
।
यामीत्येतदपि यथाजातस्य मूर्खस्य बुद्धौ ज्ञप्तौ न संजातं नोत्पन्नम् । 'अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः'
इत्यमरः । तत्तस्माद्धेतोरेवममुना प्रकारेणासत्पथः कुमार्गस्तत्र प्रवृत्तेन नष्ट आत्मा यस्यैवंभूतेन सुदूरमतिदूर-
मुद्रान्तेन प्राप्तभ्रमेण दुर्दैवं तावदादौ । नामेति कोमलामन्त्रणे । कुदृष्टिना कुत्सितज्ञानेन दुर्दुष्टा दशावस्था
यस्मिन्नेतादृश॒मदृष्टं न दृष्टं नावलोकितम् । येन दृष्टमप्यवलोकितमपि न दृष्टं न निरीक्षितम् । 'दशा वर्ताववस्थायां
वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । यदि वा 'अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्' इत्यभिधानात्तदुभयमपि
भयं न दृष्टमित्यर्थः । अथवाऽदृष्टं तु न दृश्यत एव । तदपि विपश्चिद्भिश्यते । अयं तु सुतरां मूर्खो येन तप-
खिन्यगम्या भवतीति दृष्टमपि न दृष्टमित्यर्थः । तस्य वैशम्पायनस्याज्ञानमेव तिमिरं तमिस्रं तेनान्धस्य गता-
क्षस्य किं क्रियतां किं विधीयताम् । अपरमन्यदसौ तिर्यग्विवेक विकलत्वात्पशुरूपो महता यत्नेन महोद्यमेन शुक
इव कीर इव पाठितोsध्यापितो देवेन तारापीडेन पुष्टश्च पुष्टीकृतश्च । अथवेति पक्षान्तरे । विनोददानात्त्री-
डावितरणात्तिरश्चामपि सफल एव सार्थक एव शिक्षणायासः शिक्षाप्रयासो भवति । तेऽपि तिर्यञ्चोऽपि पोषिताः
- सन्तः पोषितरि पोषके स्नेहं प्रीतिमाबध्नन्ति । कुर्वन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि कृतं जानन्ति । कृतज्ञा भन्न-
न्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि परिचयं संस्तवमनुवर्तन्तेऽनुगच्छन्ति । तेषामपि तिरश्चामपि मातापित्रोरुपरि
सहजस्नेहः स्वाभाविकप्रेमा दृश्यत एव ईक्ष्यत एव । नष्टो गत उभयलोक इहलोकपरलोकौ यस्यैवंभूतस्य पाप-
कारिणोऽपकर्तुर्जातस्य दुष्टोत्पन्नस्य । कु (सुम ) पुत्रस्येत्यर्थः । अस्य वैशम्पायनस्य न पुनः प्रीतिः । मातापित्रो-
रुपरीत्यर्थः । अस्य वैशम्पायनस्य सर्वमेव विज्ञानादिकमधस्ताद्धो गतम् । अपि चेति युक्त्यन्तरे । तेनापि
वैशम्पायनेनापीष्टाचरितेनेक्समाचरितेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन वैशम्पायनेन दुरात्मना
दुष्टात्मना तावज्जातेनोत्पन्नेन सर्व एवं वयं सुखं न स्थापिताः । अपरमन्यदेवममुना प्रकारेण दुःखार्णवे दुःख-
सागरे निपातिताः । दुःखातिशयेन ब्रुडिता इति भावः । सर्व एव । जन इति शेषः । अनाक्षिप्तचेताः सुस्थि-
रान्तःकरणः स्वहिताय आत्महिताय, परहिताय इतरजनहितार्थ च प्रवर्तते यत्नमातनोति । तस्य वैशम्पायनस्य तु
पुनः अस्मानेवं दुःखं स्थापयतो दुःखं कुर्वतो न स्वहितं नात्महितम्, नापि च परहितं नाप्यन्यहितम् । अनेनैव
वैशम्पायनेनैवात्मद्रुहात्मघातकेन किं कृतं किं विहितमिति मतिरिति बुद्धिरेतीवद्बोधपदवीं ज्ञानमार्ग नावतरति
तु
टिप्प० - 1 दुःखेन द्रष्टुं शक्यम् अदृष्टं शुभाशुभकर्मजनितं भाग्यं तु येन कुदृष्टिना न दृष्टम्, किन्तु
येन दृष्टम् ( दर्शनविषयभूतं सदाचारादिकम् ) अपि न दृष्टं नालोचितमिति भावः । 2 सर्वे वयं
केवलं सुखं न स्थापिता इत्येव न, अपि तु दुःखार्णवे पातिता इति सरलोप्यर्थः प्रहेलीकृतः । 3 'मति-
रेव तावन' इत्येव पाठः ।
पाठा०-१ दुर्दर्शनेन; दुर्दशम् २ सहजन्मस्नेह: ३ दुरात्मजातेन. ४ दुःखम् ५ अपि त्वेवंविधे,
तिताः• ७ प्रवर्तमानः, ८ वा प्रवर्तते, ९ न परहितमपि १० एवमेतावत; एव तावत्.
निप