2024-03-21 12:46:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

५७४
 
कादम्बरी
 
[ कथायाम -
 

 
नीचा एवोचैःच्चै:, अगम्या एव गम्याः कुदृष्टिरेव सद्दर्शनम्, अकार्यमेव कार्यम्, अन्याय
एव न्यायः, अस्थितिरेव स्थितिः, अनाचार एवा- चारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या,
अविनय एव विनयः, दौःशील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । [^१]येषां
च क्षुद्राणां [^२]प्रेज्ञा पराभिसंधानाय न ज्ञानाय [^३]श्रुतैत- म्, पराक्रमः प्राणिनामुपघाताय नोपका-
राय, उत्साहो धनार्जनाय न यशसे, स्थैर्यं व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः
कामाय न धर्माय । किं बहुना सर्वमेव येषां दोषाय न गुणाय ।
 
तद्

 
तद
सावपीदृश एव कोऽ [^४]प्य
पुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य
द्रोहमाचरामीति नोत्पन्नं चेतसि । एवं कृते चे[^५]चलितवृत्तानां शासिताऽवश्यं तारापीडो देवः
पीडि- तान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा । मातु- रहमेवैको जीवित-
निबन्धनम्, कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदये नापतितम् । पिण्डप्रदो
वंशसंतानार्थमहमुत्पादितः [^६]पित्रीरा कथमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथा- जातस्य
 
9
 

 
[ टि ]--
शास्तार एव लघवो लघिष्टाःठा:, नीचा एवाधोवर्तिन एवोच्चै- रुच्चाः, अगम्या एवासेव्या एव गम्याः सेव्याः, कुदृष्टिरेव
कुदर्शन- मेव सद्दर्शनं शोभनतमम् अकार्यमेवाकृत्यमेव कार्यं कृत्यम्, अन्याय एवानीतिरेव न्यायो नीतिः,
अस्थितिरेवामर्यादैव स्थितमर्या- दा, अनाचार एवानाचरणमेवाचार आचरणम्, अयुक्तमेवान्याय्यमे-
व युक्तं
न्याय्यम्, अविद्यैवाज्ञानमेव या ज्ञानम् अविनय एवाप्रश्रय एव विनयः, दौः शील्यमेव दुःस्वभाव एव
सुशीलता सुखभावता, अधर्म एवापुण्यमेव धर्मो वृषः, अनृतमेवासत्यमेव सत्यं सूनृतम् । येषां च क्षुद्राणां
तुच्छबुद्धीनां श्रुतं ज्ञानं [^1]प्रज्ञा प्रतिभा तस्यां पर उत्कृष्ट इत्यभिसंधानाय ज्ञानाय न ज्ञापनाय तत्त्वज्ञानाय,
पराक्रमोंमो बलं प्राणिनामुपघाताय विनाशाय नोपकाराय नोपकृतये, उत्साहः प्रगल्भता धनार्जनाय द्रव्यार्जनाय
न यशसे न श्लोकाय, स्थैर्यं स्थिरता व्यसनानि मद्यादीनि तेषामासङ्गायासक्तये न चिरसंगताय न चिरमैत्रीहे-
तवे, धनपरित्यागो धनविसर्जनं कामाय मैथुनाय न धर्माय न सुकृताय कि, किं बहुना किं बहूक्तेन येषां दुरा
स्
त्मनां सर्वमेव दोषाय वैगुण्याय न गुणाय हिताय ।
 
2
 

 
तत्तस्माद्धेतोरसावपि वैशम्पायन ईदृश एव पूर्वोक्तसदृश एव कोऽप्यपुण्यवान्पापवानुत्पन्नः संजातः, यस्य वैश-
म्पायनस्यैवं कुर्वतश्चन्द्रापीडस्याहं मित्रं तस्य चन्द्रापीडस्य कथं द्रोहमाचरामि कुर्वे इति चेतसि नोत्पन्नं नागतम् ।
एवं कृते सति चलितवृत्तानां भ्रष्टाचाराणां शासिता शिक्षादायकस्तारापीडो देवोऽवश्यं पीडिता- न्तरात्मा संतापित-
स्वान्तो मयि विषये कोपं करिष्यति विधास्यती- त्येवमपि मनसा हृदयेन नाशङ्कितं नारेकितम् । मातुर्मनोरमाया जीवि-
त [^2]निबन्धनं प्राणितदान महमेक एव । कथं तर्हि मया विना मद्व्यतिरेकेण वर्तिष्यते वर्तनं करिष्यतीत्येतस्य वैशं-
पायनस्य नृशंसस्य निर्दयस्य हृदये चेतसि नापतितं नागतम् । वंशसंताना- र्थमन्वयपरम्परायै अहं वैशम्षायनः
पित्रा जनकेने नोत्पादितो निष्पा- दितस्तेन पित्राननुज्ञातोऽदत्ताज्ञः सर्वपरित्यागं ( कथम् ) करोमि प्रण-
(
 
टिप्प० --

 
[^
1]F. अजानन्नपि यत्किञ्चित्प्रलपति । प्रज्ञा श्रुतं चेत्येकस्मिन्वा- क्येन संगृहीतम् । 'न ज्ञानाय',
एतदुत्तरम् 'श्रुतं मायाजालाय, नोपशमाय ।' इति पाठः । शास्त्रज्ञानं कपटप्रपञ्चाय न शान्तये, इति
तदर्थः ।
[^
2]F. जीवितस्य निबन्धनं कारणमिति भावः ।
 
पाठा० --

 
[^
]G. तेषाम्.
[^
]G. ज्ञानं पराति .
[^
]G. मायाजालाय; मालजालाय.
[^
]G. अपुण्य एवानुत्पन्नः नोपशमाय
.
[^
]G. चलितवृत्तीनाम् .
[^
]G. पित्राहम्.