2024-03-21 13:03:19 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
शुक० चन्द्रा० प्रशंसा, वैश तिरस्कारः ] उत्तरभागः ।
S
५७३
प्रदीपा इव प्रसादेनैव ज्वलन्तति । अङ्गलमा ग्ना [^१]भुजङ्गा इव दाक्षिण्यप- रिग्रहेणैवेतरे वामाः संजा-
यन्ते यन्ते। गुणमुक्ताः सायका इव सपक्षाश्रयेण फलेनैव दूरं विक्षिप्यन्ते । सरागाः पल्लवा इव
दिवसारूढथैढ्यैवा परज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुखेन सर्ववं प्रतीपं गृह्णन्ति । अन्तर-
स्वच्छवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुष्यमुप- यान्ति । ये च स्निग्धेष्वपि रूक्षाः,
ऋजुष्वपि वक्राः, साधुष्वप्यसा- धवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः,
रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्षवपि द्रोहिणः, विश्वस्तानामपि घातकाः,
भीतेष्वपि प्रहारिणः, प्रीतिपरेष्वपि द्वेषिणः, विनीतेष्व- युद्धताः दयापरेष्वपि निर्दयाः,
स्त्रीष्वपि शूराः, भृत्येष्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः,
[ टि ]-- प्रदीपा इचव रत्नसदृशेन्धे [^1]न्धना इव प्रसादेनेनैव प्रसन्नतयैव ज्वलन्ति दीप्यन्ते । 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्य-
प्रसत्तिषु' इति विश्वः । अङ्गलग्नाः शरीरसंसृष्टा भुजङ्गा इव सर्पा इव । इतरे पामर- जना वामाः प्रतिकूला:
संजायन्ते । केन । [^2]दाक्षिण्यं लज्जा तेन परि- ग्रहः स्वीकारस्तेनेव । गुणः प्रत्यञ्चा औदार्यादिश्च । 'गुणः प्रदान-
रूपादौ मौर्व्या सूदे वृकोदरे' इति विश्वः । ताभ्यां मुक्ता रहि- ताः सायका इव बाणा इव सह पक्षेण पिच्छेन
स्वजनवर्गेण च वर्तमानः सहितः सपक्षः । स एवाश्रयो यस्यैवंभूतेन फलेन लोहादि- मयेन साध्येन च । दूरं
विक्षिप्यन्ते विकीर्यन्ते । 'पक्षो मासार्धके पार्श्ववे ग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसंहा-
यके' इति विश्वः । रागो रक्तिमा प्रीतिश्च ताभ्यां सहव- र्तमानाः सरागा: पल्लवा इव किसलया इव दिवसारू-
ढ्यैव दिन- वृद्ध्यैवापरज्यन्ते विरक्तीभवन्ति । 'रागोऽनुरक्ते मात्सर्ये क्लेशादौ लोहितादिषु' इति विश्वः । भूतिर्भस्म
संपच्च ताभ्यां परामृष्टा आलिङ्गिता दर्पणा इवा- दर्शा इव । आभिमुख्येन संमुखत्वेन हेतुना सर्वं प्रतीपं परा-
ड्युमुखं गृह्णन्ति ग्रहणं कुर्वन्ति । 'भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि संपदि ' इति विश्वः । 'वामं प्रसव्यं प्रतीपं
प्रतिलोममपष्टुठु च' इति हैमः । [^3]अन्तरे विचाले खच्छा निर्मला वृत्तिर्येषामेवंविधाः सलिलाशया इव पानीया-
श्रया इव गाढमत्यर्थमवगाहनेनैवावलोकनेनैव । वातिपरि- चयेनैव च कालुष्यं कलुषतामुपयान्ति गच्छन्ति । ये च
स्निग्धेष्वपि स्नेहलेष्वपि रूक्षा अस्निग्धाः, ऋजुष्वपि सरलेष्वपि वक्रा वामाः साधुष्वपि सज्जनेष्वप्यसाधवो
दुष्टाः, गुणवत्स्खवपि गुणोपयुक्तेष्वपि दुष्टप्रकृतयोऽशुभस्वभावाः भर्तर्यपि स्वामिन्यप्यभृत्यात्मानोऽसेव- काः,
रागिष्वपि रक्तेष्वपि क्रुद्धाः कोपवन्तः, निरीहादपि निःस्पृहा- दप्यादित्सवो ग्रहणेच्छवः, मित्रेष्वपि सुहृत्स्त्रपि
द्रोहिणो द्रोहकर्ता- रः, विश्वस्तानामपि विश्वासप्रतिपन्नानामपि घातका हिंसकाः, भीते- ष्वपि त्रस्तेष्वपि प्रहारिणः
प्रहारकारिणः, प्रीतिपरेष्यपि स्नेहपरेष्व- पि द्वेषिणो द्वेषवन्तः, विनीतेष्वपि विनयवत्स्वप्युद्धता दुर्विनीताः, दया-
परेष्वपि कृपातत्परेष्वपि निर्दया निःकृपाः, स्त्रीष्वपि प्रमदा- स्वपि शूराः सुभटाः, भृत्येष्वपि सेवकेष्वपि क्रूरा-
श्चण्डाः, दीनेष्वपि दुःखितेष्वपि दारुणा भीषणाः । येषां चेति । येषां विपरीतानां वाम- वृत्तीनां गुरव एव
>
टिप्प० -
[^1]F. मणिरूपाः प्रदीपा: प्रसादेन स्वच्छतया ज्वलन्तीत्यर्थो बोध्यो विचेवेकिभिः ।
[^2]F. धिङ्ग्
मन्दम् । कोऽत्र श्लेष निर्वाह : ? 'अङ्गलमाग्ना भुजा इव' इत्येव पाठः । अङ्गसंबद्धा भुजा यथा एकस्य दाक्षिण्य
( दक्षिणस्त्व ) व्यपदेशेन तदितरे अपरे भुजाः वामा वामभागवर्तिनो जायन्ते, तथैव इतरे पामरजनाः
सारल्यस्वीकारेण प्रतिकूला जायन्ते ।
[^3]F. तात्पर्यात्क्रोशान्दूरे । अन्तः अभ्यन्तरे अस्वच्छा कलुषा सपङ्का
च वृत्तिर्येषां ते सलिलाशया इव गाढावगाहनेन अतिप्रणयेन अतिविलोडनेन च कालुण्यं मालिन्यम्
आविलत्वं च भजन्त इत्यर्थः ।
पाठा० -।
[^१]G. भुजा:• .
[^२]G. निक्षिप्यन्ते.
✓