This page has not been fully proofread.

બુર્
 
कादम्बरी ।
 
[ कथायाम्-
दोषेषु संभाव्यत इतरजनेनापि, किं पुनर्गुरुजनेन ? यो गुणी गुणैरेवाराधनीयः । कस्यापर-
स्वात्मा गुणवाननेन ज्ञापनीयः ? अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्क-
लालनया यो न गृहीतस्तस्य मस्त इव दुर्महप्रकृतेश्चन्द्रापीडोऽपि किं करोतु ? स्वयमेवो-
पद्यन्त एवंविधाः शेरीरसंभवा महाकुमयः, सर्वदोषाश्रया महाव्याधयः, अन्तर्विषा महा-
व्यालाः, विनाशहेतवो महोत्पाताः, भुजङ्गवृत्तयो महावातिकाः, वऋचारिणो महाग्रहाः,
तमोमयाः प्रदोषाः, मलिनात्मका: कुलपांसवः, निःस्नेहा: खलाः, निर्लज्जा: कृपणकाः,
निःसंज्ञाः पशवोऽपि च, अकाष्ठा दहनाः, निर्गुणा जालिनः, अतीर्था जलाशयाः, निर्गौरवाः
खरप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः, ये सकलङ्काः कृपाणा इव नेहेनैव पारुष्यं
लभन्ते । मलिनस्वभावाः, करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि-
रलोकेनापि दोषेषु संभाव्यते । गुरुजनेनापि पितृलोकेनापि तु तत्संभावने किं पुनर्भण्यते किं पुनः कथ्यते ।
कर्तव्योपदेशमाह - य इति । यो गुणी गुणवान्स गुणैरेवाराधनीयः सेवनीयः । अनेन गुणिजनेन कस्याप-
रस्यात्मा स्वयं गुणवाञ्ज्ञापनीयः प्रकाशनीयः । अपि चेति । अपि च युक्त्यन्तरे । जन्मनः प्रभृत्युत्पत्तेरा-
रभ्य देवस्य तारापीडस्य देव्या विलासवत्याश्चाङ्कलालनया क्रोडपरिपालनया यो न गृहीतो न स्वायत्तीकृतस्तस्य
वैशम्पायनस्य मरुत इव वायोरिव दुर्ग्रहा प्रकृतिः स्वरूपं यस्यैवंभूतस्य चन्द्रापीडोsपि किं करोतु । किं कुर्या-
दित्यर्थः । अथ वैशम्पायनोत्पत्तिवैगुण्यमाविष्कुर्वन्नाह - स्वयमेवेति । एवंविधा एतादृशाः शरीरसंभवा
देहोत्पन्ना महाकृमयः क्षुद्रजन्तवः सर्वदोषाणामाधारभूता महाव्याधयो महारोगाः, अन्तर्मध्ये विषं येषामे-
वंविधा व्यालाः सर्पाः, विनाशस्य विध्वंसस्य हेतवः कारणानि महोत्पाताः क्षितिकम्पनादिरूपाः, भुजङ्गवत्स-
र्पवद्वृत्तिर्वर्तनं येषामेवंविधा महावाता एव महावातिकाः स्वार्थे कः । वक्रगामित्वेन भुजङ्गसादृश्यम् ।
वक्रचारिणः कुटिलगामिनो महाग्रहा राहुप्रभृतयः तमोमया अन्धकारप्रचुरा: प्रदोषा यामिनीमुखानि, मलिना:
कश्मला आत्मानो येषां ते कुलस्यान्वयस्य पांसवो रेणवो दोषजनकाः, निस्नेहा: प्रीतिवर्जिताः खलाः, निर्लज्जा
निस्त्रपाः कृपणका निष्कृपाः, निःसंज्ञा हेयोपादेयादिज्ञानविकलाः पशवोऽपि च तिर्यञ्चोऽपि च, अकाष्ठा दहना
वहयः, निर्गुणा औदार्यादिगुणरहिता जालिनो वागुरिकाः, अतीर्था उत्तरणमार्गविकला जलाशयाः पानीयस्था
नानि, निगरवा महत्त्ववर्जिताः खरप्रकृतयः कठिनस्वभावाः, अशिवमूर्तयोऽकल्याणमूर्तयो महाविनायकैर्महा-
विघ्नैरधिष्ठिताः । इयं विरोधोक्तिः । येऽशिवमूर्तयो भवन्ति ते महाविनायकाधिष्ठिता न भवन्तीति महाविरोधः ।
एते सर्वेऽपि स्वयमेवात्मनैवोत्पद्यन्ते जायन्ते । तथा वैशम्पायनोऽपि, न तु मददृष्टस्य कारणतेत्यर्थः । ये
जनाः कृपाणा इव खड्गा इव सकलङ्काः । जनपक्षे जनापवादाश्रयाः, खड्गपक्षे सचिह्नाः । स्नेहेनैव प्रेम्णा
तैलादिना च पारुष्यं कठिनतां भजन्त आश्रयन्ति । 'स्नेहस्तैलादिकरसद्रव्ये स्यात्सौहृदेऽपि च ' इति विश्वः ।
करिकपोला इव हस्तिगल्लात्परदेशा इव मलिनस्वभावाः कश्मलप्रकृतयः । दानेनैव मदेनैव । पक्षे वितरणेनैव ।
'मलिनतरतामतिकृष्णतामापद्यन्ते प्राप्नुवन्ति । 'दानं गजमदे त्यागे' इति विश्वः निर्वर्तयो वर्तिरहिता मणि-
टिप्प० – 1 न बुद्धवानर्थम् । ये निर्गुणाः [ गुण (सूत्र) रहिताः ] ते जालिन: ( जालयुक्ताः) कथं
भवेयुः, जाले सूत्राणामपेक्षितस्वात् इति विरोधः । एते तु गुण ( विनयादि ) रहिताः जालिनः कपट-
कारिणश्च । 2 शिवमूर्तिभिन्नाः ।
 

 

 
पाठा० -१ अवबोधनीयः २ असंभवा: ३ क्षपणका: .
 
.