2024-03-21 16:32:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पितुश्चन्द्रापीडोरि संदेहः द्यते । [^१]
 
उत्तरभागः ।
 
५७१
 
पद्यते ।
तथैव हि न किंचिन्न क्रियते । तजन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजना
नुशासनस्य विनयाधानस्य च सर्वस्यैवानु- चितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोष-
माशङ्कते मे हृद- यम् । इत्येवंवादिनो नरपते [^२]र्वचनमाक्षिप्य युगपच्छोकामर्षा- भ्यामन्धकारिता-
ननः प्रावृडारम्भ [^३]इव तडिल्लता दुष्प्रेक्ष्यो विस्फूर्जितेनेव स्फुरिताधरेण शुकनासोऽब्रवीत्
-
 
,
 

 
'देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि [^४]वा तमः, तमखिस्विन्यां [^५]वा
दिवसः, [^६]महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननि-
गं
र्गमो वा स्वै[^७]स्वजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमे- वानिरूप्य तस्यांयानात्म-
ज्ञस्य मूढप्रकृतेर्दुर्जातस्य [^८]राजापथ्यका- रिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्म [^९]चण्डा-
लस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्यु- दारचरितं चन्द्रापीड-
मेवं संभावयति देवः । न ह्यतः परमपरं कैं[^१०]कष्टतमं किंचिदपि पीडाकारणम्; यद्गुणेषु वर्तमानो
 

 
[ टि ]--
प्रयासं यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रका- रेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु
सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कित जायत इति भावः । तत्तस्माद्धेतोस्ते तव
भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्ता- न्तमुदन्तमाकर्ण्य श्रुत्वा त्वद्दोषं त्वद्वैगुण्यं मे मम हृदयं चेत आश- ङ्कत
आरेकते । कीदृशं त्वद्दोषम् । जन्मन उत्पत्तेः, स्नेहस्य प्रेम्णः, वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य
ज्ञानस्य, गुरुजनानु- शासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य सर्वस्यैव समग्रस्यैवेममनुचितमयो-
ग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृत्य युगपत्समकालं शोकः शुक्, अमर्ष

ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जिते [^1]न दीप्तिमता स्फुरितः कम्पितो
योऽर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरितसाधर्म्यादाह
-- तडिल्लता विद्युल्लता तया दुष्प्रेक्ष्यो दुरालो-
'
कनीयः प्रावृडारम्भ इव वर्षाप्रारम्भ इव ।
 
>
 

 
किमुवाचेत्याह – देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽग्नाव तिशीतलत्वमतिशिशि-
रत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम् तमस्त्रि, तमस्विन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोषो
जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जनाद्वा परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽ-
नुद्योगः, स्वज-
नमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य निर्गमो निःसरणम् । एतेभ्यो यद्येतानि
संभाव्यन्ते संभावनाविषयीक्रियन्ते ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवा- निरूप्या-
ज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य, मूढा प्रकृतिः स्वभावो यस्य स तस्य, दुर्जातस्य दुर्भवस्य, राज्ञो नृप-
स्यापथ्यका- रिणो हितविघातिनो मातृपितृघातिनो जननीजनकविध्वंसिनो मित्र- द्रुहः सुहृद्धातिनः कृतं हन्तीति
कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पा- यनस्य कृते कृतयुगे
योऽवतारोऽवतरणं तस्य योग्यमुचितमात्म- नोऽपि भवतोऽपि गुणवन्तमौदार्यादिगुणयुक्तमत्युदारचरितमत्यु- त्कृष्ट-
चरित्रं चन्द्रापीडं देव एवं संभावयति संभावनां करोति । न हीति । अतोऽदोषेषु दोषोद्भावनतः परमन्यदपरं
किंचिदपि वस्तु कष्टतमं पीडाकारणं न । तदेव दर्शयन्नाह - यदिति । यद्गुणेषु वर्तमान इतरजनेनापि पाम-
"
 
टिप्प० –

 
 
[^
1]F. धिङ् मन्दम् । 'तडिल्लतादुष्प्रेक्ष्यः प्रावृडारम्भ इव ( स्थितः ) विस्फूर्जितेनेव वज्र
निर्घोषेणेव स्फुरिताधरेण ( स्वरेण ) शुकनासो- ऽब्रवीत् ।' इत्यर्थः । 'स्फूर्जथुर्वज्रनिर्घोष' इत्यमरः ।

[^
2]F. नार्थो बुद्धः । अतःपरं न किंचिदपि पीडाकारणं यद् गुणेषु वर्तमानो ( जनः ) इतरजनेनापि दोषेषु
संभाव्यते ( दोषसंबद्धस्त्वेन तर्क्यते ), गुरुजनेन तु संभाव्येतैव इति स्पष्टम् ।
 
पाठा०-

 
[^
]G. तया.
[^
]G. युगपदाक्षिप्य वचनम् .
[^
]G. एव.
[^
]G. वा शीतलत्वम् .
[^
]G. च.
[^
]G. महोदन्वति .
[^
]G. सज्जन
.
[^
]G. अराजपथ्यकारिण: .
[^
]G. चाण्डालस्य, .
[^
१०]G. कष्टतरम्.