कादम्बरी /604
This page has not been fully proofread.
पितुश्चन्द्रापीडोपरि संदेहः ]
उत्तरभागः ।
५७१
पद्यते । तथैव हि न किंचिन्न क्रियते । तजन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजना
नुशासनस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोष-
माश मे हृदयम् । इत्येवंवादिनो नरपतेर्वचनमाक्षिप्य युगपच्छोकामर्षाभ्यामन्धकारिता-
ननः प्रावृडारम्भ ईव तडिल्लता दुष्प्रेक्ष्यो विस्फूर्जितेनेव स्फुरिताधरेण शुकनासोऽब्रवीत्
-
,
'देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि वा तमः, तमखिन्यां वा
दिवसः, महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननि-
गंमो वा स्वैजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमेवानिरूप्य तस्यांनात्म-
ज्ञस्य मूढप्रकृतेर्दुर्जातस्य राजापथ्यकारिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्मचण्डा-
लस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्युदारचरितं चन्द्रापीड-
मेवं संभावयति देवः । न ह्यतः परमपरं कैंष्टतमं किंचिदपि पीडाकारणम्; यद्गुणेषु वर्तमानो
प्रयासं यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रकारेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु
सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कित जायत इति भावः । तत्तस्माद्धेतोस्ते तव
भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्तान्तमुदन्तमाकर्ण्य श्रुत्वा त्वद्दोषं त्वद्वैगुण्यं मे मम हृदयं चेत आशङ्कत
आरेकते । कीदृशं त्वद्दोषम् । जन्मन उत्पत्तेः, स्नेहस्य प्रेम्णः, वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य
ज्ञानस्य, गुरुजनानुशासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य सर्वस्यैव समग्रस्यैवेममनुचितमयो-
ग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृल युगपत्समकालं शोकः शुक्, अमर्ष
ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जितेन दीप्तिमता स्फुरितः कम्पितो
योऽघर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरितसाधर्म्यादाह
-- तडिलता विद्युलता तया दुष्प्रेक्ष्यो दुरालो-
'कनीयः प्राडारम्भ इव वर्षाप्रारम्भ इव ।
>
किमुवाचेत्याह – देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽनाव तिशीतलत्वमतिशिशि-
रत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम् तमस्त्रिन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोषो
जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जनाद्वा परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽ-
नुद्योगः, स्वजनमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य निर्गमो निःसरणम् । एतेभ्यो यद्येतानि
संभाव्यन्ते संभावनाविषयीक्रियन्ते ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवानिरूप्या-
ज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य, मूढा प्रकृतिः स्वभावो यस्य स तस्य, दुर्जातस्य दुर्भवस्य, राज्ञो नृप-
स्यापथ्यकारिणो हितविघातिनो मातृपितृघातिनो जननीजनकविध्वंसिनो मित्रद्रुहः सुहृद्धातिनः कृतं हन्तीति
कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पायनस्य कृते कृतयुगे
योऽवतारोऽवतरणं तस्य योग्यमुचितमात्मनोऽपि भवतोऽपि गुणवन्तमौदार्यादिगुणयुक्तमत्युदारचरितमत्युत्कृष्ट-
चरित्रं चन्द्रापीडं देव एवं संभावयति संभावनां करोति । न हीति । अतोऽदोषेषु दोषोद्भावनतः परमन्यदपरं
किंचिदपि वस्तु कष्टतमं पीडाकारणं न । तदेव दर्शयन्नाह - यदिति । यद्गुणेषु वर्तमान इतरजनेनापि पाम-
"
टिप्प० – 1 धि मन्दम् । 'तडिल्लतादुष्प्रेक्ष्यः प्रावृडारम्भ इव ( स्थितः ) विस्फूर्जितेनेव वज्र
निर्घोषेणेव स्फुरिताधरेण ( स्वरेण ) शुकनासोऽब्रवीत् ।' इत्यर्थः । 'स्फूर्जथुर्वज्रनिर्घोष' इत्यमरः ।
2 नार्थो बुद्धः । अतःपरं न किंचिदपि पीडाकारणं यद् गुणेषु वर्तमानो ( जनः ) इतरजनेनापि दोषेषु
संभाव्यते ( दोषसंबद्धस्वेन तर्क्यते ), गुरुजनेन तु संभाव्येतैव इति स्पष्टम् ।
पाठा०-१ तया. २ युगपदाक्षिप्य वचनम् ३ एव. ४ वा शीतलत्वम् ५ च. ६ महोदन्वति ७ सज्जन •
८ अराजपथ्यकारिण: ९ चाण्डालस्य, १० कष्टतरम्.