This page has not been fully proofread.

५७०
 
कादम्बरी ।
 
[ कथायाम्-
विधो मय्यकस्मादेव कोपो यदेव परित्यज्य स्थितोऽसि ? गतोऽध्यागच्छ । शिरसा प्रसाद-
यामि त्वाम् । कोऽपरोऽस्ति मे ? देशान्तरपरिचयान्मुक्तो नामास्मासु स्नेह : ? क्षणमध्य-
नन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदृशी निःस्नेहता जाता ? तात, न भद्रकं त
आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं
त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यप्रतनय विरेहविह्वलां स्वयं देव्या
विलासवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीम श्रौषीत् ।
 
तेन चातिकरुणेन तत्प्रलापविषेण विह्वल एव निद्रागमेनेव घूर्णमानो निश्चेतनतामनीयत ।
कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भितात्मा प्रविश्य पितुरपि लज्जमानो वदनमुप-
दर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसान स्तिमितमिव
महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तर्बाष्पभर-
मद्देन ध्वनिनाभ्यर्णवर्ष इव जलधरोऽभ्यधात्— 'वत्स चन्द्रापीड, जानामि ते स्वजीविता-
दपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहे तोर्वल्लभजनादेवासंभाव्यायासमु-
दिनादारभ्य न दृष्टमेव न निरीक्षितमेव, तस्य ते तवाकस्मादेव निर्निमित्तादेव मयि विषय एवंविध एतादृशोऽयं
कोपः कुतः । यद्यस्माद्धेतोरेवं पूर्वोक्तप्रकारेण परित्यज्य विहाय स्थितोऽसि । त्वं गतोऽपि सन्नागच्छेहि । त्वां
भवन्तं शिरसा मस्तकेन । पादपतनेनेत्यर्थः । प्रसादयामि प्रसन्नीकरोमि । अपरोऽन्यः को मे ममास्ति ।
नामेति कोमलामन्त्रणे । एकस्माद्देशादन्यो देशो देशान्तरं तस्य परिचयः संस्तवस्तस्मादस्मासु मनोरमाप्रभृतिषु
स्नेहः प्रेम मुक्तस्त्यक्तः । क्षणमपि समयमप्यनन्तरितमव्यवहितं दर्शनं यस्यैवंविधस्य चन्द्रापीडस्योपरीदृशी
कथं तव निःस्नेहता निःप्रेमता जाता प्रादुर्भूता । तात पुत्र, ते तव भद्रकं कल्याणं नापतितं न जातम् । सर्व
एव दुःखं स्थापितो गुरुजनः सुखं स्थापनीयः । एवं कृत्वैवं विधाय किं त्वया प्राप्तव्यं प्रापणीयम् एवमहं
न जानामि नाकलयामि । अन्तर्भवनं मध्यगृहं तत्र गतां प्राप्तां प्रत्यग्रो नवीनो यस्तनयविरहः सुतवियोगस्तेन
विह्वलां विधुराम् । मनोरमाया विशेषणे । मनोरमां विप्रलपन्तीमश्रौषीदित्यन्वयस्तु प्रागेवोक्तः ।
 
>
 
तेनेति । तेन पूर्वोक्तेनातिकरुणेनातिदीनेन तस्य मनोरमायाः प्रलापविषेण विलापरूपगरलेन विह्वल इव
विधुर इव निद्रागमेनेव प्रमीलागमेनेव घूर्णमानो निश्चेतनतामनीयताप्राप्यत । कथंकथमपि महता कष्टेन सहर्ज
निसर्गजं यत्सत्त्वं धैर्यं तस्यावष्टम्भेनैवाश्रयणेनैव संस्तम्भित आत्मा येनैवंभूतः प्रविश्य प्रवेशं कृत्वा पितुरपि
जनकादपि वदनमाननमुपदर्शयितुमवलोकनं कारयितुं लज्जमानत्रपमानोऽधोमुख एवं नीचैर्मुख एव निस्पन्दं
निश्चेष्टं सर्वाङ्गं समग्रं शरीरं यस्यैवंविधेन मन्दराद्रिणेव स्वर्गिगिरिणेव शुकनासेन सह मथनस्यावसानं प्रान्तस्तेन
स्तिमितो निश्चलो यो महार्णवः समुद्रस्तं रूपकमेवंभूतं पितरं जनकं प्रणम्य नमस्कृत्य दूरत एवोपाविशन्निषण्णो
बभूव । उपविष्टं निषण्णं च तं क्षणमिव समयसदृशं दृष्ट्वा विलोक्यान्तर्बाष्पो मध्यनेत्राम्बु तस्य भरस्तेन गद्ग-
देन ध्वनिमा शब्देनाभ्य समीपे वर्षो यस्यैवंभूतो जलधरो मेघ इव राजा तारापीडोऽभ्यधादवादीत् । हे
वत्स हे चन्द्रापीड, अहं जानाम्याकलयामि ते तव स्वजीवितादपि स्वप्राणितादपि भ्रातुर्वैशम्पायनस्योपरि
समभ्यधिकामुत्कृष्टां प्रीतिम् । पीडा च सुखस्यैकोऽद्वितीयो हेतुनिंदानभेवंविधाद्वल्लभजनादेवा संभाव्यायासमतर्कित
 
टिप्प०-1 समुद्रस्तत्सरशमित्यर्थः । 2 सर्वोयमविचारः । 'वल्लभजनादेवाऽसंभाग्या समुत्पद्यते,
तयैव हि न किञ्चिन्न क्रियते ?' इति पाठः । सुखहेतोर्वल्लभजनात् असंभावनीया या पीडा समुत्पद्यते
तयैव किञ्चिन क्रियते इति न, अपि तु सर्व क्रियते (जनेन) इति तदर्थः ।
 
पाठा०-१ समापतितम् २ विरहशोकविह्वलम् ३ स्तिमितमहार्णवम्. ४ गद्गद, ५ संभवति,