कादम्बरी /602
This page has not been fully proofread.
चन्द्रापीडस्योज्जयिनीयात्रा ]
उत्तरभागः ।
राजेति शुश्राव । श्रुत्वा च 'निर्वर्त्य तंत्रैव जगाम । गच्छंश्च समीपवर्ती ' हा वत्स वैश-
म्पायन, अद्यापि मदङ्कलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहस्रभीषणे
निर्मानुषे तस्मिन्शून्यारण्ये स्थितः । केनै तत्रापि सर्वसत्त्वव्याघातकारिणी शरीररक्षा कृता ।
केन वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपादिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् ।
कस्त्वयि बुभुक्षिते तृषिते सुषुप्सति वा दुःखितो ममोत्सङ्गमुत्सृज्य । समानसुखदुःखा
वधूरपि न पुत्रक, त्वयोपात्ता । आगतमात्रस्यैव ते पितरमैनुज्ञाप्यात्यर्थ वधूमुखमालोक-
यिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि दर्शनं
दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितं नयस्व तत्रैव मामपि पितरं विज्ञध्य ।
स्वामपश्यन्ती न जीवामि। तात, त्वयाहं शैशवेऽपि नावमानिता, कुतस्तवेयमेकपद एवेशी
निष्ठुरता जाता। आ जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम् तस्य ते कुतोयमेवं-
.9
।
सभवनं विलासवत्या सह राजा तारापीडो गत इति शुश्रावाकर्णयामास । श्रुत्वाकर्ण्य च दिन व्यावृत्य तत्रै-
वार्यशुकनासभवन एव जगाम गतवान् । गच्छन्द्रजंश्च समीपवर्ती निकटस्थो विलासवत्या देव्या स्वयं सस्था-
प्यमानां निवार्यमाणामपि मनोरमामेतान्यन्यानि च वचनानि विप्रलपन्तीं ब्रुवन्तीमश्रौषीदिति दूरेणान्वयः ।
इतियोत्यमाह - हा वत्सेति । हा इति खेदे । हे वत्स वैशम्पायन, अद्यापि सांप्रतमपि मदकोडे लालनं
तत्रोचितो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहस्रं लक्षं तेन भीषणे भैरवे
निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्ते शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि
सर्वसत्त्वानां समग्रप्राणिनां व्याघातं प्रतिबन्धं करोतीत्येवंशीला शरीररक्षा कृता विहिता । केन विषमस्य भावो
वैषम्यं तस्य प्रतिपन्थिनी शत्रुभूता शरीरस्थितिः संपादिता निष्पादिता । केन निद्रायाः सुखं सौख्यं ददातीये-
वंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् । त्वयि वैशम्पायने बुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति
वा वापं कर्तुमिच्छति वा । मम मनोरमाया उत्सङ्गमङ्कमुत्सृज्यै त्यक्त्वा को दुःखितो दुःखवान् । समाने सदृशे
सुखदुःखे यस्या एवंविधा वधूरपि, हे पुत्रक हे सूनो, त्वया नोपात्ता नाङ्गीकृता । आगतमात्रस्यैव समागतमात्र-
स्यैव ते तव पितरं शुकनासमनुज्ञाप्यानुज्ञां गृहीत्वात्यर्थं भृशं वधूमुखं पत्नीवदनमालोकयिष्यामीति यन्मया
चिन्तितं विचारितं केवलं तन्मे मम मन्दपुण्यायाः स्वल्पसुकृताया न संपन्नं न जातम् । अपरं तवापि च भवतोऽपि
दर्शनमवलोकनं दुर्लभं दुष्प्रापं भूतं जातम् । यदि वत्स, यत्र तेऽवस्थातुमवस्थानं कर्तुमभिरुचितं रुचिविषयी-
भूतम्, तर्हि पितरं जनकं विज्ञप्य विज्ञप्तिं कृत्वा तत्रैव सरस्तीर एव मामपि मनोरमां नयस्व प्रापय । अन्यथा
त्वामपश्यन्त्यनवलोकयन्ती न जीवामि न प्राणिमि । 'तातः पितरि पुत्रेऽपि' इत्युक्तत्वात् हे तात पुत्र,
त्वया भवताहं मनोरमा शैशवेऽपि शिशुत्वेऽपि नावमानिता नावगणिता । तव भवत इयमेकपद एव सहसैव
कुतो निष्ठुरता कठिनता जाता प्रादुर्भूता । यस्य भवतः कुपितं कोपं प्राप्तमाननं मुखमा जन्मनः प्रभृति जन्म-
टिप्प० -- 1 'निवृत्त्य' राजभवनात्परावृत्य इत्येव पाठो योग्यः । 2 वैषम्यस्य प्रतिपन्थिनी अर्थात्
• अस्वास्थ्य विघातिनी ते शरीरस्थितिः कृता । 3 न सम्यक् संबन्धः । 'त्वयि बुभुक्षिते तृषिते सुषुप्सति
बा को दुःखितः ? ममोत्सङ्गमृत्सृज्य (गतेन) समानसुखदुःखा वधूरपि त्वया नोपात्ता' इत्यन्वय उचितः ।
4 'आ' इत्यधिकम् । 'जन्मनः प्रभृति' इत्येव पाठः ।
पाठा० - १ निर्वर्त्य; निःसृत्य; निवृत्त्य. २ तत्रैव च ३ केन तेन ते तत्रापि. ४ केन वा ५ अभ्यर्थ्य.
६ वदनदर्शनम् ७ दुर्लभीभूतम्. ८ मामपि तत्रैव
७२ का०