कादम्बरी /601
This page has not been fully proofread.
५६८
कादम्बरी ।
[ कथायाम्-
अथ दूरत एव प्रेसृतिद्वन्द्वसंस्थितैश्च पुश्यमानैश्च पुञ्जितैश्चाबद्धमण्डलेश्वोपविष्टैः वैलि-
तैश्च दत्तकतिपयशुन्यपदैश्च निर्वर्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाघो
मुखैश्चो द्वाष्पदृष्टिभिश्च विष-
दीनवदनैश्च महाकष्टशब्दमुखरैश्च दुःखाधिक्याहित मौनैश्च मुनिभिरपि मुमुक्षुभिरपि त्रीत-
रागैरपि नि: रै हैरप्युदासीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुद्भिरिव स्निग्धबन्धु-
भिरिव च नगरी निर्गतैरायपृच्छयमानं कथ्यमानं च विचार्यमाणं चानुभाव्यमानं चे वैश-
म्पायनवृत्तान्तमेव समन्ताच्छुश्राव । शृण्वंच चकार चेतसि
- 'बाह्यस्य तावज्जनस्येयमीदृशी
समवस्था किं पुनर्येनासावङ्केन लालितः संवर्धितो वा बालचाटवोऽस्यानुभूताः । तदतिकष्टं
मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम्' इत्येवं चिन्त-
यन्नासानिहितोद्वाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोजयिनीम् ।
-
अवतीर्य च स राजकुलद्वारि प्रविशन्नेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो
अथेति । उज्जयिनीगमनानन्तरं दूरत एव दविष्टादेव प्रतः पाणिः प्रकृतिस्तस्य द्वन्द्वेन संस्थित
दमैर्नियोजिताञ्जलिभिरित्यर्थः । पुञ्जयमानैः संधी क्रियमाणैश्च पुञ्जितैः संघीकृतैश्चाबद्धं कृतं मण्डलं यैरेवंविधै-
श्चोपविष्टैर्निषण्णैश्च वलितैर्गतैश्च दत्तानि कतिपयानि किर्या शून्यपदानि यैरेवंभूतैश्च निर्वर्त्यमानैः पश्चादा-
गच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरूर्ध्वाननैश्च, अधोमुखैनींचैर्मुखैश्च, उदूर्ध्वं बाप्पो यास्खेवंविधा दृष्टयो
येषामेवंविधैश्च विवर्णानि विच्छायानि दीनानि करुणानि वदनानि मुखानि येषामेतादृशैश्च, महान्तो ये कष्टश-
ब्दा हाहाप्रभृतयस्तै मुखरैर्वाचालेश्व, दुःखाधिक्येनाहितं विहितं मौनं यैरेवविधैश्च मुनिभिरपि मुमुक्षुभिरपि वाचं-
यमैरपि वीतरागै रागरहितैराप्तैरपि निःस्पृहैर्निरीहैरपि, उदासीनैर्मध्यस्थैरपि, दुर्जनैः खलैरपि, स्नेहपरवशैः
प्रीतिपराधीनैः पितृभिरिव जनकैरिव सुहृद्भिरिव मित्रैरिव स्निग्धबन्धुभिरिव हितकृद्रातृभिरिव च नगर्या
उज्जयिन्या निर्गतैर्बहिरागतैः पूर्वोक्तजनैरार्त्या पीडया पृच्छ्यमानं पृच्छाविषयी क्रियमाणं कथ्यमानमुच्यमानं च
विचार्यमाणं च विचारविषयीक्रियमाणं चानुभाव्यमानं भावनाविषयीक्रियमाणं च वैशंपायनस्य वृत्तान्तमुदन्तमेव
समन्तात्सर्वत्र शुश्रावाकर्णयामास । शृण्वंश्चेति चे सि चित्ते चकार । बाह्यस्य बहिःस्थस्य तवज्जनस्य लोकस्ये-
दृशी समवस्था दशा येनासौ वैशम्पायनोऽङ्केन क्रोडेन लालितः पालितः संवर्धितो वृद्धिं प्रापितः । अस्य वैश-
म्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रियप्रायम्' इति हैमः । अनुभूता अनुभवविषयीकृतास्तेषां
किं पुनर्भण्यते । तत्तस्माद्धेतो मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनम-
वलोकनमतिकष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्वाष्पा
दृष्टि॒िर्येन । अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोज्जयिनीं विशालां विवेश प्रविष्टवान् ।
अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलद्वारि नृपकुलप्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकना-
>
टिप्प० – 1 अमोयं टीकाकृतः । 'दूरत एव प्रभृति द्वन्द्व स्थितैश्च' पुञ्जितैश्च इत्यादिः पाठः । वैश-
म्पायनवृत्तान्तचर्चायै लोकानां नानाविधाऽवस्थितिः । दूरंत एव प्रभृति दूरादेव धारभ्य केचिद्र द्वन्द्व स्थित !
द्वाभ्यां मिलित्वा स्थिताः, केचित् पुञ्जिताः, इत्याद्याशयः । 2 अशुद्धमिदम् । 'निवर्तमानैः, आगत्य परा
वर्तमानैः, सहसा अनिष्टवार्ताश्रवणशङ्कयेत्यर्थः ।
.
३
पाठा०—१ प्रभृतिद्वन्द्वस्थितैः २ पुञ्जितैश्च, पुज्यमानैश्च. ३ मण्डलैश्चोध्र्वैश्च ४ चलितैश्च वलितैश्च ५ अधिक
६ निःसङ्गैरपि, ७ निस्पृहैः• ८ चाकर्ण्यमानं च ९ चानुवर्ण्यमानं च. १० यैः . ११ बाल. १२ नासाग्र.