कादम्बरी /600
This page has been fully proofread once and needs a second look.
हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि वासभवनाङ्गणे क्षणमि- वास्थाने समासन्नपार्थिवैः सह वैशम्पायनालापेनैव 'स्थित्वा द्वितीय एंव यामे चलितव्यम् । सज्जीकुरुत साधनम्' इत्यादिश्य बलाध्य- क्षमृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनी दर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः [^१]संवृत्य प्रावर्तत गन्तुम् । आत्मना- प्यलब्धनिद्रा [^२]विनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्राय-
वाहनेनानतिबहुना राजलोकेन सह विरलकटकसंमर्देन वर्त्मनाऽ- वहत् । अथाध्वनैव सह क्षीणायां यामवत्याम्, रसातलादिवोन्मज्ज- त्सु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जी- वलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे एव [^३]बहु- ललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकान्नवपल्लव इवोद्भि- द्यमाने पूर्वाशालतायाः, [^४]कमलिनीरागदायिनि दिवसकरबिम्बे
विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम्।
[ टि ]-- एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनागणे निवास- गृहाजिर आस्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थि- वा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्त्या क्षणमिव क्षण- सदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधनं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्षं सेनापतिमित्यादि- श्येत्यादेश दत्त्वा ऋक्षोदय एव नक्षत्रो [^1]दय एव विसर्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभव- नमध्यमवसदध्यतिष्ठत् । अथेति प्रकारान्तरे ॥ अतिचिरकालेना- न्तरितं तिरोहितं यदुज्जयि [^2]न्याः पुष्पकरण्डिकाया दर्शनमव- लोकनं तेनोत्सुक उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाणनान्द्या यात्रा: पट- हवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आ मनापि स्वेनाप्य- लब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो विलासो येनैवंभूतः। तृती- ये तार्तीयके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्या, ता एवं प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूते-
नानतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कट-
कस्य सैन्यस्य संमः संबाधो यस्मिन्नेतादृशेन वर्त्मना मार्गेणावहद- गमतः ॥ अथेति प्रकारान्तरे । अध्वनैव मार्गेण सह यामवत्यां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिवः पातालादिवोन्मज्जतसूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीष्विव विकसन्तीष्विव पुनरिव द्वितीयवार मिव जीवलोकेऽन्यथान्येन प्रकार
रेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोन्नतानि च निम्नोन्न- तानि तेषु [^3]भावेषु विभज्यमानेषु पृथक्किक्रियमाणेषु
सत्सु, वनगहनेष्वर ण्य गहह्वरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः,
गुच्छाः, तेषु संकुचत्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारो- हन्त्या आ
रोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्ते- नालोहित ईषद्रक्ते पदे [^4]इवैव चरणन्यासे इव, पूर्वाशाल-
तायाः प्राचीवल्लल्या अवश्यायो हिमं तस्य सेकात्सिञ्चना नवपल्लवे इव नवीन किसलये इवोद्भिद्यमान उद्भेदं प्राप्य -
माणे कमलिन्या मृणा- लिन्या रांरागदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यू-
षक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनीं विशालां परापतितवान्प्राप्तवान् ।
7
गुल्मा
टिप्प० -[^1]F. रजनीप्रारम्भ एवेत्यर्थः ।
[^2]F. संज्ञाया एवं पर्यायकरणं महापाण्डित्यं टीकाकर्तुः ।
[^3]F. निम्नोन न्नतेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथगुग्रूपेण दृश्यमानेषु सत्सु ।
[64]F. सूर्य-
बिम्बस्य वासरलक्ष्मीपदत्वेन, आशालतापल्लवत्वेन चोत्प्रेक्षा ।
पाठा० - [^१]G. सज्जीभूय.
[^२]G. सद्योऽवतरन्नेव.
[^३]G. लाक्षारस.
[^४]G. कमलिनीराग.
वाहनेनानतिबहुना राजलोकेन सह विरलकटकसंमर्देन वर्त्मनाऽ- वहत् । अथाध्वनैव सह क्षीणायां यामवत्याम्, रसातलादिवोन्मज्ज- त्सु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जी- वलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे एव [^३]बहु- ललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकान्नवपल्लव इवोद्भि- द्यमाने पूर्वाशालतायाः, [^४]कमलिनीरागदायिनि दिवसकरबिम्बे
विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम्।
[ टि ]-- एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनागणे निवास- गृहाजिर आस्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थि- वा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्त्या क्षणमिव क्षण- सदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधनं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्षं सेनापतिमित्यादि- श्येत्यादेश दत्त्वा ऋक्षोदय एव नक्षत्रो [^1]दय एव विसर्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभव- नमध्यमवसदध्यतिष्ठत् । अथेति प्रकारान्तरे ॥ अतिचिरकालेना- न्तरितं तिरोहितं यदुज्जयि [^2]न्याः पुष्पकरण्डिकाया दर्शनमव- लोकनं तेनोत्सुक उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाणनान्द्या यात्रा: पट- हवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आ मनापि स्वेनाप्य- लब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो विलासो येनैवंभूतः। तृती- ये तार्तीयके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्या, ता एवं प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूते-
नानतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कट-
कस्य सैन्यस्य संमः संबाधो यस्मिन्नेतादृशेन वर्त्मना मार्गेणावहद- गमतः ॥ अथेति प्रकारान्तरे । अध्वनैव मार्गेण सह यामवत्यां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिवः पातालादिवोन्मज्जतसूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीष्विव विकसन्तीष्विव पुनरिव द्वितीयवार मिव जीवलोकेऽन्यथान्येन प्रकार
गुल्मा
टिप्प० -
[^2]F. संज्ञाया एवं पर्यायकरणं महापाण्डित्यं टीकाकर्तुः ।
[^3]F. निम्नो
[64]F. सूर्य
[^२]G. सद्योऽवतरन्नेव.
[^३]G. लाक्षारस.
[^४]G. कमलिनीराग.