2024-03-31 11:37:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्योज्जयिनीयात्रा
 
!
 
उत्तरभागः ।
 
५६७
 
हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि
 
वासभवनाङ्गणे क्षणमि- वास्थाने समासन्न पार्थिवैः
 
सह वैशम्पायनाला पेनैव 'स्थित्वा द्वितीय एंव यामे चलितव्यम् । सज्जीकुरुत साधनम्
' इत्यादिश्य बलाध्य- क्ष मृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथाति-
चिरान्तरितोज्जयिनी दर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः [^१]संवृत्य प्रावर्तत
गन्तुम् । आत्मना- प्यलब्ध निद्रा [^२]विनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्राय
-
वाहनेनानति-
बहुना राजलोकेन सह विरलकटकसंमर्देन वर्त्मनाऽ- वहत् । अथाध्वनैव सह क्षीणायां
यामवत्याम्, रसातलादिवोन्मज्- त्सु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा
सृज्यमाने जी- वलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुत्स्वि
तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे एव [^३]बहु- ललाक्षारसालोहिते दिवसश्रियः, अव
श्यायसेकान्नवपल्लव इवोद्भि- द्यमाने पूर्वाशालतायाः, कॅ[^४]कमलिनीरागदायिनि दिवसकर बिम्बे

विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम्
 
9
 
1
 

 

 
[ टि ]--
एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवना-
गणे निवास- गृहाजिर आस्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थि- वा राजानस्तैः सह वैशम्पायन-
स्यालापेन किंवदन्त्या क्षणमिव क्षण- सदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साध
नं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्षं सेनापतिमित्यादि- श्येत्यादेश दत्त्वा ऋक्षोदय एव नक्षत्रो [^1]दय एव विस-
र्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभव- नमध्यमवसदध्यतिष्ठत् । अथेति
प्रकारान्तरे ॥ अतिचिरकालेना- न्तरितं तिरोहितं यदुज्जयि [^2]न्याः पुष्पकरण्डिकाया. दर्शनमव- लोकनं तेनोत्सुक
उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाण नान्द्या यात्रा:
पट- हवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आ मनापि स्वेनाप्य- लब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो !
विलासो येनैवंभूतः । तृती- ये तातयी र्तीयके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्या,
ता एवं प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूतेना -
ना
नतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कट..
-
कस्य सैन्यस्य संमः संबाधो यस्मिन्नेतादृशेन वर्त्मना मार्गेणावहद- गमतः ॥ अथेति प्रकारान्तरे । अध्वनैव
मार्गेण सह यामवत्यां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिवः पातालादिवोन्मज्ज
तसूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीष्विव विकसन्तीष्विव पुनरिव द्वितीयवार मिव जीवलोकेऽन्यथान्येन प्रकार

रेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोन्नतानि च निम्नोन्नतानि तेषु भावेषु विभज्यमानेषु पृथक्कियमाणेषु

सत्सु, वनगहनेष्वर ण्य गहरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः,

गुच्छाः, तेषु संकुचत्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारोहन्त्या आ

रोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्तेनालोहित ईषद्रक्ते पदे इवै चरणन्यासे इव, पूर्वाशाल-

तायाः प्राचीवल्लया अवश्यायो हिमं तस्य सेकात्सिञ्चना नवपल्लवे इव नवीन किसलये इवोद्भिद्यमान उद्भेदं प्राप्य -

माणे कमलिन्या मृणालिन्या रांगदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यू-

षक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनीं विशालां परापतितवान्प्राप्तवान् ।
 

 
7
 

 
गुल्मा
 

 
टिप्प० - 1 रजनीप्रारम्भ एवेत्यर्थः । 2 संज्ञाया एवं पर्यायकरणं महापाण्डित्यं टीकाकर्तुः ।

3 निनोन तेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथगुरूपेण दृश्यमानेषु सत्सु । 4 सूर्य-

बिम्बस्य वासरलक्ष्मीपदत्वेन, आशालतापल्लवत्वेन चोत्प्रेक्षा ।
 

 
पाठा० - १ सज्जीभूय. २ सद्योऽवतरन्नेव. ३ लाक्षारस. ४ कमलिनीराग.