This page has not been fully proofread.

चन्द्रापीडस्योज्जयिनीयात्रा
 
!
 
उत्तरभागः ।
 
५६७
 
हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि
 
वासभवनाङ्गणे क्षणमिवास्थाने समासन्न पार्थिवैः
 
सह वैशम्पायनाला पेनैव 'स्थित्वा द्वितीय एंव यामे चलितव्यम् । सज्जीकुरुत साधनम्
इत्यादिश्य बलाध्यक्ष मृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथाति-
चिरान्तरितोज्जयिनी दर्शनोत्सुको विनापि प्रयाणनान्द्या सकल एव कटकलोकः संवृत्य प्रावर्तत
गन्तुम् । आत्मनाप्यलब्ध निद्रा विनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्राय
वाहनेनानति-
बहुना राजलोकेन सह विरलकटकसंमर्देन वर्त्मनाऽवहत् । अथाध्वनैव सह क्षीणायां
यामवत्याम्, रसातलादिवोन्मजत्सु सर्वभावेषु उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा
सृज्यमाने जीवलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुत्स्वि
तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे एव बहुललाक्षारसालोहिते दिवसश्रियः, अव
श्यायसेकान्नवपल्लव इवोद्भिद्यमाने पूर्वाशालतायाः, कॅमलिनीरागदायिनि दिवसकर बिम्बे
विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम ।
 
9
 
1
 

 
एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवना-
गणे निवासगृहाजिर आस्थान आस्थानसभायां समासन्नाः पार्श्ववर्तिनो ये पार्थिवा राजानस्तैः सह वैशम्पायन-
स्यालापेन किंवदन्त्या क्षणमिव क्षणसदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधन
सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्षं सेनापतिमित्यादिश्येत्यादेश दत्त्वा ऋक्षोदय एव नक्षत्रोदय एव विस-
जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवभूतो वासभवनमध्यमवसदध्यतिष्ठत् । अथेति
प्रकारान्तरे ॥ अतिचिरकालेनान्तरितं तिरोहितं यदुजयिन्याः पुष्पकरण्डिकाया. दर्शनमवलोकनं तेनोत्सुक
उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सजीभूयेत्यर्थः । विनापि प्रयाण नान्द्या यात्रा:
पटहवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आ मनापि स्वेनाप्यलब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो !
विलासो येनैवभूतः । तृतीये तातयी के यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्या,
ता एवं प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूतेना नतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कट..
कस्य सैन्यस्य संमः संबाधो यस्मिन्नेतादृशेन वर्त्मना मार्गेणावहदगमतः ॥ अथेति प्रकारान्तरे । अध्वनैव
मार्गेण सह यामवत्यां त्रियामायां क्षीणायां सत्यां सर्वभावेषु समग्रपदार्थेषु रसातलादिवः पातालादिवोन्मज्ज
तसूपर्यागच्छत्सु, दृष्टिषु दृक्षून्मीलन्तीष्विव विकसन्तीष्विव पुनरिव द्वितीयवार मिव जीवलोकेऽन्यथान्येन प्रकार
रेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोन्नतानि च निम्नोन्नतानि तेषु भावेषु विभज्यमानेषु पृथक्कियमाणेषु
सत्सु, वनगहनेष्वर ण्य गहरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः,
गुच्छाः, तेषु संकुचत्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारोहन्त्या आ
रोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्तेनालोहित ईषद्रक्ते पदे इवै चरणन्यासे इव, पूर्वाशाल-
तायाः प्राचीवल्लया अवश्यायो हिमं तस्य सेकात्सिञ्चना नवपल्लवे इव नवीन किसलये इवोद्भिद्यमान उद्भेदं प्राप्य -
माणे कमलिन्या मृणालिन्या रांगदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यू-
षक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनीं विशालां परापतितवान्प्राप्तवान् ।
 
7
 
गुल्मा
 
टिप्प० - 1 रजनीप्रारम्भ एवेत्यर्थः । 2 संज्ञाया एवं पर्यायकरणं महापाण्डित्यं टीकाकर्तुः ।
3 निनोन तेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथगुरूपेण दृश्यमानेषु सत्सु । 4 सूर्य-
बिम्बस्य वासरलक्ष्मीपदत्वेन, आशालतापल्लवत्वेन चोत्प्रेक्षा ।
 
पाठा० - १ सज्जीभूय. २ सद्योऽवतरन्नेव. ३ लाक्षारस. ४ कमलिनीराग.