कादम्बरी /60
This page has been fully proofread twice.
मनुजस्येव [^१]संस्कारवतो बुद्धिपूर्वा [^२]प्रवृत्तिः । तथा हि-[^३]अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दमियमार्या- मामुद्दिश्य [^४]परिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारमैथुन [^५]निद्रासंज्ञामात्रवेदिनो भवन्ति । इदं तु महच्चित्रम्' इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनोऽ [^६]वादीत् - [^८]'किमत्र चित्रम् । एते हि शुकसारिकाप्रभृतयो [^८]विहङ्गविशेषा [^९]यथाश्रुतां वाचमुच्चारयन्तीत्यधिगतमेव देवेन । तत्रा [^१०]प्यन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रय-
त्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् ।[^११]अन्यदेतेषामपि पुरा पुरुषाणामिवातिपरि- [^१२]स्फुटाभिधाना वागासीत् । अग्निशापा [^१३]त्त्वरस्फुटालापता शुकानामुपजाता, [^१४]करिणां च जिह्वाप-
[ टि ] -- सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव
संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः। तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्ध्वीकृतो दक्षिणचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन
पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् । इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां
निराकुर्वन्नाह – किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन स्वानुभवोऽपि सूचितः । अत्रापि कारणान्तर साचिव्यं दर्शयन्नाह -
तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तस्यानुबन्धोऽविच्छित्तिस्तेन वा पुरुषाणाम् अर्थात्प्रेक्षावतां प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दार्ढ्यमुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारण- मस्तीत्याशयेनाह - अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्वं प्राची न-
न पुरुषाणामिवातिपरिस्फुटमतिविशदमभिधानं नाम यस्यामेवंविधा वागासीत् । तु पुनरर्थे । अग्निशापादस्फुटालापता शुकादीनामुप- जातेति स्पष्टम् । अत्रायं प्रवादः । छद्मना गृहीतरूपस्य वह्नेर्यादृशं संवादं श्रुतवाञ्छुकस्तथैवो [^1]क्तवानिति तं प्रति क्रुद्धेन वह्निना स शप्तः । करिणां हस्तिनां च जिह्वापरिवृत्तिः स्वभावजनितां तां दूरीकृत्य तत्स्थले तदितर [^2]रसनायाः प्रक्षेपः । सा च गजानामेव नान्येषामित्यन्यत्र विस्तरः । शुक इत्यविशदाक्षरत्वमिति ।
[^1]F. पुरा तारकासुरपीडितैरमरैः प्रार्थितो ब्रह्मा अग्निसकाशात्कार्तिकेयनामानं देवसेनानायकं कुमारं प्राप्तुमादिदेश । अग्निमन्विष्यन्तो देवास्तु 'कुत्राग्निरिति' समीपगं करिणं पप्रच्छुः । 'अश्वत्थेऽन्तर्हितोग्निरिति' स उवाच । अथाग्नि- र्निष्क्रम्य 'तव जिह्वा प्रतीपा भविष्यति' इति करिणं शप्त्वा पुनरन्त-
र्हितः । ततोऽग्न्यर्थं देवैः पृष्टः शुकः शमीवृक्षेऽग्निं निर्दिदेश । ततोऽप्यभिव्यक्तो वह्निः 'तवाऽस्फुटा वाग्भविष्यति' इति शुकमशपदिति महाभारतम् ।
[^2]F. रसनाया जिह्वायाः परिवृत्तिर्विपरीतभावेनावस्थितिः
'जिह्वा प्रतीपा भविष्यति' इति शापवचने प्रतीपशब्दप्रयोगात् ।
[^१]G. संस्कारवती.
[^२]G. वाक्प्रवृत्तिः
[^३]G. एतेन.
[^४]G. अतिपरिस्फुटाक्षरम्.
[^५]G. निद्रामात्र.
[^६]G. नृपमवादीत्.
[^७]G. देव किमत्र.
[^८]G. विहङ्गम.
[^९]G. यथाश्रुतम्
[^१0]G. तत्राप्यत्रान्य.
[^११]G. अन्यच्च
[^१२]G. स्फुटाक्षरा.
[^१३]G. अपरिस्फुटा.
[^१४]G. सारिकाणाम्
त्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् ।[^११]अन्यदेतेषामपि पुरा पुरुषाणामिवातिपरि- [^१२]स्फुटाभिधाना वागासीत् । अग्निशापा [^१३]त्त्व
[ टि ] -- सहिताम् । तत्रेति । पुनरपरमधिकमभिमतविषय उपादेयेऽर्थे तिरश्चोऽपि पक्षिणोऽपि मनुजस्येव मनुष्यस्येव
संस्कारवत इति तत्तदर्थविषयानुभवजन्यः संस्कारस्तद्वतो बुद्धिपूर्वा प्रतिभाहेतुका प्रवृत्तिः प्रवर्तनं भवति । किमाश्चर्यमित्यर्थः। तदेवाद्भुतं दर्शयति-तथा हीति । अनेन शुकेन समुत्क्षिप्त ऊर्ध्वीकृतो दक्षिणचरणोऽपसव्यपादो येन स तथा तेन जयशब्दं जयजयारवमुच्चार्योदीर्येयमार्या पूर्वोक्ता मामुद्दिश्य परिस्फुटानि व्यक्तान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । गीता गानविषयीकृता किमित्यत आह - प्रायेणेति । प्रायेण बाहुल्येन
पक्षिणः पतत्रिणः, पशवो मृगाद्याः । भयेति । भयमनिष्टहेतुज्ञानम्, आहारः क्षुधानिवृत्त्युपायः, मैथुनं व्यवायः, निद्रा बाह्येन्द्रियोपरमः, संज्ञा लोकव्यवहारजनकशब्दः, एतन्मात्रवेदिनो भवन्ति एतन्मात्रमेव जानन्ति नाधिकम् । इदं तु महच्चित्रं महदाश्चर्यम् । इत्युक्तवतीतिभाषितवति भूभुजि राज्ञि सति कुमारपालितः किंचित्स्मितवदनः किंचिदीषत्स्मितं हास्यं तेन युक्तं वदनं यस्य स तथावादीदब्रवीत् । सर्वथाऽसंभाव्यमानाद्भुतदर्शनेनानर्थशङ्कां
निराकुर्वन्नाह – किमत्रेति । किमत्र चित्रमाश्चर्यम् । तत्रार्थे हेतुमाह - एते हीति । एते शुकाः प्रसिद्धाः सारिकाः पीतपादा एतत्प्रभृतयो विहङ्गविशेषा यथाश्रुतामर्थबोधशून्यां वाचं गिरमुच्चारयन्ति ब्रुवन्ति । देवेन स्वामिनेति पूर्वोक्तमधिगतमेव ज्ञातमेव । एतेन स्वानुभवोऽपि सूचितः । अत्रापि कारणान्तर साचिव्यं दर्शयन्नाह -
तत्रापीति । तत्रापि पूर्ववक्तव्यतायामन्यजन्मनि पूर्वजन्मन्युपात्तो गृहीतो यः संस्कारः पूर्वोक्तलक्षणस्तस्यानुबन्धोऽविच्छित्तिस्तेन वा पुरुषाणाम् अर्थात्प्रेक्षावतां प्रयत्नेनोद्योगेन वा । संस्कारेऽतिशयो दार्ढ्यमुपजायत उत्पद्यते । ताभ्यां हेतुभ्यां वाग्व्यापारयुक्ता भवन्तीति भावः । इति अतो नातिचित्रम् । अत्रान्यदपि कारण- मस्तीत्याशयेनाह - अन्यदिति । अन्यदपि कारणान्तरमस्ति । तदेव दर्शयति - एतेषामिति । एतेषां शुकादीनां पुरा पूर्वं प्राची
न